🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 1 • Chapter 2

Sarga 2

43 verses

Verse 1
नारदस्य तु तद्वाक्यं श्रुत्वा वाक्यविशारद: पूजयामास धर्मात्मा सहशिष्यो महामुनि:
Verse 2
यथावत्पूजितस्तेन देवर्षिर्नारदस्तदा आपृष्ट्वैवाभ्यनुज्ञातस्स जगाम विहायसम्
Verse 3
 मुहूर्तं गते तस्मिन्देवलोकं मुनिस्तदा जगाम तमसातीरं जाह्नव्यास्त्वविदूरत:
Verse 4
 तु तीरं समासाद्य तमसाया महामुनि: शिष्यमाह स्थितं पार्श्वे दृष्ट्वा तीर्थमकर्दमम्
Verse 5
अकर्दममिदं तीर्थं भरद्वाज निशामय रमणीयं प्रसन्नाम्बु सन्मनुष्यमनो यथा
Verse 6
न्यस्यतां कलशस्तात दीयतां वल्कलं मम इदमेवावगाहिष्ये तमसातीर्थमुत्तमम्
Verse 7
एवमुक्तो भरद्वाजो वाल्मीकेन महात्मना प्रायच्छत मुनेस्तस्य वल्कलं नियतो गुरो:
Verse 8
 शिष्यहस्तादादाय वल्कलं नियतेन्द्रिय: विचचार  पश्यंस्तत्सर्वतो विपुलं वनम्
Verse 9
तस्याभ्याशे तु मिथुनं चरन्तमनपायिनम् ददर्श भगवांस्तत्र क्रौञ्चयोश्चारुनिस्वनम्
Verse 10
तस्मात्तु मिथुनादेकं पुमांसं पापनिश्चय: जघान वैरनिलयो निषादस्तस्य पश्यत:
Verse 11
तं शोणितपरीताङ्गं वेष्टमानं महीतले भार्या तु निहतं दृष्ट्वा रुराव करुणां गिरम् वियुक्ता पतिना तेन द्विजेन सहचारिणा ताम्रशीर्षेण मत्तेन पत्रिणा सहितेन वै
Verse 12
तं शोणितपरीताङ्गं वेष्टमानं महीतले भार्या तु निहतं दृष्ट्वा रुराव करुणां गिरम् वियुक्ता पतिना तेन द्विजेन सहचारिणा ताम्रशीर्षेण मत्तेन पत्रिणा सहितेन वै
Verse 13
तदा तु तं द्विजं दृष्ट्वा निषादेन निपातितम् ऋषेर्धर्मात्मनस्तस्य कारुण्यं समपद्यत
Verse 14
तत: करुणवेदित्वादधर्मोऽयमिति द्विज: निशाम्य रुदतीं क्रौञ्चीमिदं वचनमब्रवीत्
Verse 15
मा निषाद प्रतिष्ठां त्वमगमश्शाश्वतीस्समा: यत्क्रौञ्चमिथुनादेकमवधी: काममोहितम् 15
Verse 16
तस्यैवं ब्रुवतश्चिन्ता बभूव हृदि वीक्षतः शोकार्तेनास्य शकुने: किमिदं व्याहृतं मया
Verse 17
चिन्तयन्स महाप्राज्ञश्चकार मतिमान्मतिम् शिष्यं चैवाऽब्रवीद्वाक्यमिदं  मुनिपुङ्गव:
Verse 18
पादबद्धोऽक्षरसमस्तन्त्रीलयसमन्वित: शोकार्तस्य प्रवृत्तो मे श्लोको भवतु नान्यथा
Verse 19
शिष्यस्तु तस्य ब्रुवतो मुनेर्वाक्यमनुत्तमम् प्रतिजग्राह संहृष्टस्तस्य तुष्टोऽभवद्गुरु:
Verse 20
सोऽभिषेकं तत: कृत्वा तीर्थे तस्मिन्यथाविधि तमेव चिन्तयन्नर्थमुपावर्तत वै मुनि:
Verse 21
भरद्वाजस्ततश्शिष्यो विनीतश्श्रुतवान्मुनेः कलशं पूर्णमादाय पृष्ठतोऽनुजगाम 
Verse 22
 प्रविश्याश्रमपदं शिष्येण सह धर्मवित् उपविष्ट: कथाश्चान्याश्चकार ध्यानमास्थित:
Verse 23
आजगाम ततो ब्रह्मा लोककर्ता स्वयं प्रभु: चतुर्मुखो महातेजा द्रष्टुं तं मुनिपुङ्गवम्
Verse 24
वाल्मीकिरथ तं दृष्ट्वा सहसोत्थाय वाग्यत: प्राञ्जलि: प्रयतो भूत्वा तस्थौ परमविस्मित:
Verse 25
पूजयामास तं देवं पाद्यार्घ्यासनवन्दनै: प्रणम्य विधिवच्चैनं पृष्ट्वाऽनामयमव्ययम्
Verse 26
अथोपविश्य भगवानासने परमार्चिते वाल्मीकये महर्षये सन्दिदेशासनं तत:
Verse 27
ब्रह्मणा समनुज्ञातस्सोऽप्युपाविशदासने उपविष्टे तदा तस्मिन्सर्वलोकपितामहे तद्गतेनैव मनसा वाल्मीकिर्ध्यानमास्थित:
Verse 28
पापात्मना कृतं कष्टं वैरग्रहणबुद्धिना यस्तादृशं चारुरवं क्रौञ्चं हन्यादकारणात्
Verse 29
शोचन्नेव मुहु: क्रौञ्चीमुपश्लोकमिमं पुन: जगावन्तर्गतमना भूत्वा शोकपरायण:
Verse 30
तमुवाच ततो ब्रह्मा प्रहसन्मुनिपुङ्गवम् श्लोक एव त्वया बद्धो नात्र कार्या विचारणा
Verse 31
मच्छन्दादेव ते ब्रह्मन् प्रवृत्तेयं सरस्वती रामस्य चरितं सर्वं कुरु त्वमृषिसत्तम
Verse 32
धर्मात्मनो गुणवतो लोके रामस्य धीमत: वृत्तं कथय धीरस्य यथा ते नारदाच्छ्रुतम्
Verse 33
रहस्यं  प्रकाशं  यद्वृत्तं तस्य धीमत: रामस्य सहसौमित्रेः राक्षसानां  सर्वश: वैदेह्याश्चैव यद्वृत्तं प्रकाशं यदि वा रह: तच्चाप्यविदितं सर्वं विदितं ते भविष्यति
Verse 34
रहस्यं  प्रकाशं  यद्वृत्तं तस्य धीमत: रामस्य सहसौमित्रेः राक्षसानां  सर्वश: वैदेह्याश्चैव यद्वृत्तं प्रकाशं यदि वा रह: तच्चाप्यविदितं सर्वं विदितं ते भविष्यति
Verse 35
 ते वागनृता काव्ये काचिदत्र भविष्यति कुरु रामकथां पुण्यां श्लोकबद्धां मनोरमाम्
Verse 36
यावत् स्थास्यन्ति गिरयस्सरितश्च महीतले तावद्रामायणकथा लोकेषु प्रचरिष्यति
Verse 37
यावद्रामायणकथा त्वत्कृता प्रचरिष्यति तावदूर्ध्वमधश्च त्वं मल्लोकेषु निवत्स्यसि
Verse 38
इत्युक्त्वा भगवान्ब्रह्मा तत्रैवान्तरधीयत ततस्सशिष्यो भगवान्मुनिर्विस्मयमाययौ
Verse 39
तस्य शिष्यास्ततस्सर्वे जगुश्श्लोकमिमं पुन: मुहुर्मुहु: प्रीयमाणा: प्राहुश्च भृशविस्मिता:
Verse 40
समाक्षरैश्चतुर्भिर्य: पादैर्गीतो महर्षिणा सोऽनुव्याहरणाद्भूयश्श्लोकश्श्लोकत्वमागत:
Verse 41
तस्य बुद्धिरियं जाता वाल्मीकेर्भावितात्मन: कृत्स्नं रामायणं काव्यमीदृशै: करवाण्यहम्
Verse 42
उदारवृत्तार्थपदैर्मनोरमैः तदास्य रामस्य चकारकीर्तिमान् समाक्षरैश्श्लोकशतैर्यशस्विनो यशस्करं काव्यमुदारधीर्मुनि:
Verse 43
तदुपगतसमाससन्धियोगं सममधुरोपनतार्थवाक्यबद्धम् रघुवरचरितं मुनिप्रणीतं दशशिरसश्च वधं निशामयध्वम्
0:000:00
Speed: