Book 1 • Chapter 3
Sarga 3
38 verses
Verse 1
श्रुत्वा वस्तु समग्रं तद्धर्मात्मा धर्मसंहितम् व्यक्तमन्वेषते भूयो यद्वृत्तं तस्य धीमत:
Verse 2
उपस्पृश्योदकं सम्यग्मुनिस्स्थित्वा कृताञ्जलि: प्राचीनाग्रेषु दर्भेषु धर्मेणान्वेषते गतिम्
Verse 3
रामलक्ष्मणसीताभी राज्ञा दशरथेन च सभार्येण सराष्ट्रेण यत्प्राप्तं तत्र तत्त्वत: हसितं भाषितं चैव गतिर्या यच्च चेष्टितम् तत्सर्वं धर्मवीर्येण यथावत्सम्प्रपश्यति
Verse 4
रामलक्ष्मणसीताभी राज्ञा दशरथेन च सभार्येण सराष्ट्रेण यत्प्राप्तं तत्र तत्त्वत: हसितं भाषितं चैव गतिर्या यच्च चेष्टितम् तत्सर्वं धर्मवीर्येण यथावत्सम्प्रपश्यति
Verse 5
स्त्रीतृतीयेन च तदा यत्प्राप्तं चरता वने सत्यसन्धेन रामेण तत्सर्वं चान्ववेक्षितम्
Verse 6
तत: पश्यति धर्मात्मा तत्सर्वं योगमास्थित: पुरा यत्तत्र निर्वृत्तं पाणावामलकं यथा
Verse 7
तत्सर्वं तत्त्वतो दृष्ट्वा धर्मेण स महाद्युति: अभिरामस्य रामस्य चरितं कर्तुमुद्यत: कामार्थगुणसंयुक्तं धर्मार्थगुणविस्तरम् समुद्रमिव रत्नाढ्यं सर्वश्रुतिमनोहरम्
Verse 8
तत्सर्वं तत्त्वतो दृष्ट्वा धर्मेण स महाद्युति: अभिरामस्य रामस्य चरितं कर्तुमुद्यत: कामार्थगुणसंयुक्तं धर्मार्थगुणविस्तरम् समुद्रमिव रत्नाढ्यं सर्वश्रुतिमनोहरम्
Verse 9
स यथा कथितं पूर्वं नारदेन महर्षिणा रघुवंशस्य चरितं चकार भगवानृषिः
Verse 10
जन्म रामस्य सुमहद्वीर्यं सर्वानुकूलताम् लोकस्य प्रियतां क्षान्तिं सौम्यतां सत्यशीलताम्
Verse 11
नानाचित्रकथाश्चान्या विश्वामित्रसमागमे जानक्याश्च विवाहं च धनुषश्च विभेदनम्
Verse 12
रामरामविवादं च गुणान्दाशरथेस्तथा तथाऽभिषेकं रामस्य कैकेय्या दुष्टभावताम्
Verse 13
विघातं चाभिषेकस्य राघवस्य विवासनम् राज्ञश्शोकविलापं च परलोकस्य चाश्रयम्
Verse 14
प्रकृतीनां विषादं च प्रकृतीनां विसर्जनम् निषादाधिपसंवादं सूतोपावर्तनं तथा
Verse 15
गङ्गायाश्चापि सन्तारं भरद्वाजस्य दर्शनम् भरद्वाजाभ्यनुज्ञानाच्चित्रकूटस्य दर्शनम्
Verse 16
वास्तुकर्म निवेशं च भरतागमनं तथा प्रसादनं च रामस्य पितुश्च सलिलक्रियाम्
Verse 17
पादुकाग्र्याभिषेकं च नन्दिग्रामनिवासनम् दण्डकारण्यगमनं विराधस्य वधं तथा
Verse 18
दर्शनं शरभङ्गस्य सुतीक्ष्णेन समागमम् अनसूयासहास्यामप्यङ्गरागस्य चार्पणम्
Verse 19
अगस्त्यदर्शनं चैव जटायोरभिसङ्गमम् पञ्चवट्याश्च गमनं शूर्पणख्याश्च दर्शनम्
Verse 20
शूर्पणख्याश्च संवादं विरूपकरणं तथा वधं खरत्रिशिरसोरुत्थानं रावणस्य च
Verse 21
मारीचस्य वधं चैव वैदेह्या हरणं तथा राघवस्य विलापं च गृध्रराजनिबर्हणम्
Verse 22
कबन्धदर्शनं चापि पम्पायाश्चापि दर्शनम् शबर्या: दर्शनं चैव हनूमद्दर्शनं तथा
Verse 23
ऋश्यमूकस्य गमनं सुग्रीवेण समागमम् प्रत्ययोत्पादनं सख्यं वालिसुग्रीवविग्रहम्
Verse 24
वालिप्रमथनं चैव सुग्रीवप्रतिपादनम् ताराविलापं समयं वर्षरात्रनिवासनम्
Verse 25
कोपं राघवसिंहस्य बलानामुपसङ्ग्रहम् दिश: प्रस्थापनं चैव पृथिव्याश्च निवेदनम्
Verse 26
अङ्गुलीयकदानं च ऋक्षस्य बिलदर्शनम् प्रायोपवेशनं चापि सम्पातेश्चापि दर्शनम्
Verse 27
पर्वतारोहणं चापि सागरस्यापि लङ्घनम् समुद्रवचनाच्चैव मैनाकस्य च दर्शनम्
Verse 28
सिंहिकायाश्च निधनं लङ्कामलयदर्शनम् रात्रौ लङ्काप्रवेशं च एकस्याथ विचिन्तनम्
Verse 29
दर्शनं रावणस्यापि पुष्पकस्य च दर्शनम् आपानभूमिगमनमवरोधस्य दर्शनम्
Verse 30
अशोकवनिकायानं सीतायाश्चपि दर्शनम् अभिज्ञानप्रदानं च रावणस्य च दर्शनम्
Verse 31
राक्षसीतर्जनं चैव त्रिजटास्वप्नदर्शनम् मणिप्रदानं सीताया वृक्षभङ्गं तथैव च
Verse 32
राक्षसीविद्रवं चैव किङ्कराणां निबर्हणम् ग्रहणं वायुसूनोश्च लङ्कादाहाभिगर्जनम्
Verse 33
प्रतिप्लवनमेवाथ मधूनां हरणं तथा राघवाश्वासनं चापि मणिनिर्यातनं तथा
Verse 34
सङ्गमं च समुद्रेण नलसेतोश्च बन्धनम् प्रतारं च समुद्रस्य रात्रौ लङ्कावरोधनम्
Verse 35
विभीषणेन संसर्गं वधोपायनिवेदनम् कुम्भकर्णस्य निधनं मेघनादनिबर्हणम्
Verse 36
रावणस्य विनाशं च सीतावाप्तिमरे: पुरे विभीषणाभिषेकं च पुष्पकस्य च दर्शनम्
Verse 37
अयोध्यायाश्च गमनं भरतेन समागमम् रामाभिषेकाभ्युदयं सर्वसैन्यविसर्जनम् स्वराष्ट्ररञ्जनं चैव वैदेह्याश्च विसर्जनम्
Verse 38
अनागतं च यत्किञ्चिद्रामस्य वसुधातले तच्चकारोत्तरे काव्ये वाल्मीकिर्भगवानृषि:
0:000:00
Speed: