Book 1 • Chapter 4
Sarga 4
31 verses
Verse 1
प्राप्तराज्यस्य रामस्य वाल्मीकिर्भगवानृषि: चकार चरितं कृत्स्नं विचित्रपदमात्मवान्
Verse 2
चतुर्विंशत्सहस्राणि श्लोकानामुक्तवानृषि: तथा सर्गशतान्पञ्च षट्काण्डानि तथोत्तरम्
Verse 3
कृत्वापि तन्महाप्राज्ञस्सभविष्यं सहोत्तरम् चिन्तयामास कोन्वेतत्प्रयुञ्जीयादिति प्रभु:
Verse 4
तस्य चिन्तयमानस्य महर्षेर्भावितात्मन: अगृह्णीतां तत: पादौ मुनिवेषौ कुशीलवौ
Verse 5
कुशीलवौ तु धर्मज्ञौ राजपुत्रौ यशस्विनौ भ्रातरौ स्वरसम्पन्नौ ददर्शाश्रमवासिनौ
Verse 6
स तु मेधाविनौ दृष्ट्वा वेदेषु परिनिष्ठितौ वेदोपबृंहणार्थाय तावग्राहयत प्रभु:
Verse 7
काव्यं रामायणं कृत्स्नं सीतायाश्चरितं महत् पौलस्त्यवधमित्येव चकार चरितव्रत:
Verse 8
पाठ्ये गेये च मधुरं प्रमाणैस्त्रिभिरन्वितम् जातिभिस्सप्तभिर्बद्धं तन्त्रीलयसमन्वितम् रसैश्शृङ्गारकारुण्यहास्यवीरभयानकै: रौद्रादिभिश्च संयुक्तं काव्यमेतदगायताम् तौ तु गान्धर्वतत्त्वज्ञौ मूर्छनास्थानकोविदौ भ्रातरौ स्वरसम्पन्नौ गन्धर्वाविव रूपिणौ रूपलक्षणसम्पन्नौ मधुरस्वरभाषिणौ बिम्बादिवोद्धृतौ बिम्बौ रामदेहात्तथाऽपरौ
Verse 9

Verse 10

Verse 11

Verse 12
तौ राजपुत्रौ कार्त्स्न्येन धर्म्यमाख्यानमुत्तमम् वाचोविधेयं तत्सर्वं कृत्वा काव्यमनिन्दितौ ऋषीणां च द्विजातीनां साधूनां च समागमे यथोपदेशं तत्त्वज्ञौ जगतुस्सुसमाहितौ
Verse 13

Verse 14
महात्मानौ महाभागौ सर्वलक्षणलक्षितौ तौ कदाचित्समेतानामृषीणां भावितात्मनाम् आसीनानां समीपस्थाविदं काव्यमगायताम्
Verse 15
तच्छ्रुत्वा मुनयस्सर्वे बाष्पपर्याकुलेक्षणा: साधुसाध्विति तावूचु: परं विस्मयमागता:
Verse 16
ते प्रीतमनसस्सर्वे मुनयो धर्मवत्सला: प्रशशंसु: प्रशस्तव्यौ गायमानौ कुशीलवौ
Verse 17
अहो गीतस्य माधुर्यं श्लोकानां च विशेषत: चिरनिर्वृत्तमप्येतत्प्रत्यक्षमिव दर्शितम्
Verse 18
प्रविश्य तावुभौ सुष्ठु भावं सम्यगगायताम् सहितौ मधुरं रक्तं सम्पन्नं स्वरसम्पदा
Verse 19
एवं प्रशस्यमानौ तौ तपश्श्लाघ्यैर्महात्मभि: संरक्ततरमत्यर्थं मधुरं तावगायताम्
Verse 20
प्रीत: कश्चिन्मुनिस्ताभ्यां संस्थित: कलशं ददौ प्रसन्नो वल्कलं कश्चिद्ददौ ताभ्यां महायशा:
Verse 21
आश्चर्यमिदमाख्यानं मुनिना सम्प्रकीर्तितम् परं कवीनामाधारं समाप्तं च यथाक्रमम्
Verse 22
अभिगीतमिदं गीतं सर्वगीतेषु कोविदौ आयुष्यं पुष्टिजनकं सर्वश्रुतिमनोहरम् प्रशस्यमानौ सर्वत्र कदाचित्तत्र गायकौ रथ्यासु राजमार्गेषु ददर्श भरताग्रज:
Verse 23

Verse 24
स्ववेश्म चानीय तदा भ्रातरौ स कुशीलवौ पूजयामास पूजार्हौ रामश्शत्रुनिबर्हण:
Verse 25
आसीन: काञ्चने दिव्ये स च सिंहासने प्रभु: उपोपविष्टस्सचिवैर्भ्रातृभिश्च परन्तप:
Verse 26
दृष्ट्वा तु रूपसम्पन्नौ तावुभौ नियतस्तथा उवाच लक्ष्मणं रामश्शत्रुघ्नं भरतं तदा
Verse 27
श्रूयतामिदमाख्यानमनयोर्देववर्चसो: विचित्रार्थपदं सम्यग्गायकौ तावचोदयत्
Verse 28
तौ चापि मधुरं रक्तं स्वञ्चितायतनिस्वनम् तन्त्रीलयवदत्यर्थं विश्रुतार्थमगायताम्
Verse 29
ह्लादयत्सर्वगात्राणि मनांसि हृदयानि च श्रोत्राश्रयसुखं गेयं तद्बभौ जनसंसदि
Verse 30
इमौ मुनी पार्थिवलक्षणान्वितौ कुशीलवौ चैव महातपस्विनौ ममापि तद्भूतिकरं प्रवक्ष्यते महानुभावं चरितं निबोधत
Verse 31
ततस्तु तौ रामवच:प्रचोदितावगायतां मार्गविधानसम्पदा स चापि राम: परिषद्गतः शनैर्बुभूषयासक्तमना बभूव
0:000:00
Speed: