🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 1 • Chapter 5

Sarga 5

23 verses

Verse 1
. सर्वा पूर्वमियं येषामासीत्कृत्स्ना वसुन्धरा प्रजापतिमुपादाय नृपाणां जयशालिनाम्
Verse 2
येषां  सगरो नाम सागरो येन खानित: षष्टि: पुत्रसहस्राणि यं यान्तं पर्यवारयन्
Verse 3
इक्ष्वाकूणामिदं तेषां राज्ञां वंशे महात्मनाम् महदुत्पन्नमाख्यानं रामायणमिति श्रुतम्
Verse 4
तदिदं वर्तयिष्यामि सर्वं निखिलमादित: धर्मकामार्थसहितं श्रोतव्यमनसूयया
Verse 5
कोसलो नाम मुदितस्स्फीतो जनपदो महान् निविष्टस्सरयूतीरे प्रभूतधनधान्यवान्
Verse 6
अयोध्या नाम नगरी तत्रासील्लोकविश्रुता मनुना मानवेन्द्रेण या पुरी निर्मिता स्वयम्
Verse 7
आयता दश  द्वे  योजनानि महापुरी श्रीमती त्रीणि विस्तीर्णा सुविभक्तमहापथा
Verse 8
राजमार्गेण महता सुविभक्तेन शोभिता मुक्तपुष्पावकीर्णेन जलसिक्तेन नित्यश:
Verse 9
तां तु राजा दशरथो महाराष्ट्रविवर्धन: पुरीमावासयामास दिवं देवपतिर्यथा
Verse 10
कवाटतोरणवतीं सुविभक्तान्तरापणाम् सर्वयन्त्रायुधवतीमुपेतां सर्वशिल्पिभि:
Verse 11
सूतमागधसम्बाधां श्रीमतीमतुलप्रभाम् उच्चाट्टालध्वजवतीं शतघ्नीशतसङ्कुलाम्
Verse 12
वधूनाटकसङ्घैश्च संयुक्तां सर्वत: पुरीम् उद्यानाम्रवणोपेतां महतीं सालमेखलाम्
Verse 13
दुर्गगम्भीरपरिघां दुर्गामन्यैर्दुरासदाम् वाजिवारणसम्पूर्णां गोभिरुष्ट्रै: खरैस्तथा
Verse 14
सामन्तराजसङ्घैश्च बलिकर्मभिरावृताम् नानादेशनिवासैश्च वणिग्भिरुपशोभिताम्
Verse 15
प्रासादै रत्नविकृतै: पर्वतैरुपशोभिताम् कूटागारैश्च सम्पूर्णामिन्द्रस्येवामरावतीम्
Verse 16
चित्रामष्टापदाकारां नरनारीगणैर्युताम् सर्वरत्नसमाकीर्णां विमानगृहशोभिताम्
Verse 17
गृहगाढामविच्छिद्रां समभूमौ निवेशिताम् शालितण्डुलसम्पूर्णामिक्षुकाण्डरसोदकाम्
Verse 18
दुन्दुभीभिर्मृदङ्गैश्च वीणाभि: पणवैस्तथा नादितां भृशमत्यर्थं पृथिव्यां तामनुत्तमाम्
Verse 19
विमानमिव सिद्धानां तपसाधिगतं दिवि सुनिवेशितवेश्मान्तां नरोत्तमसमावृताम्
Verse 20
ये  बाणैर्न विध्यन्ति विविक्तमपरापरम् शब्दवेध्यं  विततं लघुहस्ता विशारदा: सिंहव्याघ्रवराहाणां मत्तानां नर्दतां वने हन्तारो निशितैश्शस्त्रैर्बलाद्बाहुबलैरपि तादृशानां सहस्रैस्तामभिपूर्णां महारथै: पुरीमावासयामास राजा दशरथस्तदा
Verse 21

Verse 22

Verse 23
तामग्निमद्भिर्गुणवद्भिरावृतां द्विजोत्तमैर्वेदषडङ्गपारगै: सहस्रदैस्सत्यरतैर्महात्मभि र्महर्षिकल्पै ऋषिभिश्च केवलै:
0:000:00
Speed: