🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 1 • Chapter 6

Sarga 6

28 verses

Verse 1
. तस्यां पुर्यामयोध्यायां वेदवित्सर्वसङ्ग्रह: दीर्घदर्शी महातेजा: पौरजानपदप्रिय: इक्ष्वाकूणामतिरथो यज्वा धर्मरतो वशी महर्षिकल्पो राजर्षिस्त्रिषु लोकेषु विश्रुत: बलवान्निहतामित्रो मित्रवान्विजितेन्द्रिय: धनैश्च सङ्ग्रहैश्चान्यैश्शक्रवैश्रवणोपम: यथा मनुर्महातेजा लोकस्य परिरक्षिता तथा दशरथो राजा वसञ्जगदपालयत्
Verse 2

Verse 3

Verse 4

Verse 5
तेन सत्याभिसन्धेन त्रिवर्गमनुतिष्ठता पालिता सा पुरी श्रेष्ठा इन्द्रेणेवामरावती
Verse 6
तस्मिन्पुरवरे हृष्टा धर्मात्मानो बहुश्रुता: नरास्तुष्टा धनैस्स्वैस्स्वैरलुब्धास्सत्यवादिन:
Verse 7
नाल्पसन्निचय: कश्चिदासीत्तस्मिन् पुरोत्तमे कुटुम्बी यो ह्यसिद्धार्थोऽगवाश्वधनधान्यवान्
Verse 8
कामी वा  कदर्यो वा नृशंस: पुरुष: क्वचित् द्रष्टुं शक्यमयोध्यायान्नाविद्वान्न  नास्तिक:
Verse 9
सर्वे नराश्च नार्यश्च धर्मशीलास्सुसंयता: उदिताश्शीलवृत्ताभ्यां महर्षय इवामला:
Verse 10
नाकुण्डली नामकुटी नास्रग्वी नाल्पभोगवान् नामृष्टो नानुलिप्ताङ्गो नासुगन्धश्च विद्यते
Verse 11
नामृष्टभोजी नादाता नाप्यनङ्गदनिष्कधृक् नाहस्ताभरणो वाऽपि दृश्यते नाप्यनात्मवान्
Verse 12
नानाहिताग्निर्नायज्वा  क्षुद्रो वा  तस्कर: कश्चिदासीदयोध्यायान्न  निर्वृत्तसङ्कर:
Verse 13
स्वकर्मनिरता नित्यं ब्राह्मणा विजितेन्द्रिया: दानाध्ययनशीलाश्च संयताश्च परिग्रहे
Verse 14
 नास्तिको नानृतको  कश्चिदबहुश्रुत: नासूयको  चाऽशक्तो नाविद्वान्विद्यते तदा
Verse 15
नाषडङ्गविदत्रासीन्नाव्रतो नासहस्रद:  दीन: क्षिप्तचित्तो वा व्यथितो वाऽपि कश्चन
Verse 16
कश्चिन्नरो वा नारी वा नाश्रीमान्नाप्यरूपवान् द्रष्टुं शक्यमयोध्यायां नापि राजन्यभक्तिमान्
Verse 17
वर्णेष्वग्र्यचतुर्थेषु देवतातिथिपूजका: कृतज्ञाश्च वदान्याश्च शूरा विक्रमसंयुता: दीर्घायुषो नरास्सर्वे धर्मं सत्यं  संश्रिता: सहिता: पुत्रपौत्रैश्च नित्यं स्त्रीभि: पुरोत्तमे
Verse 18

Verse 19
क्षत्रं ब्रह्ममुखं चासीद्वैश्या: क्षत्रमनुव्रता: शूद्रास्स्वधर्मनिरतास्त्रीन्वर्णानुपचारिण:
Verse 20
सा तेनेक्ष्वाकुनाथेन पुरी सुपरिरक्षिता यथा पुरस्तान्मनुना मानवेन्द्रेण धीमता
Verse 21
योधानामग्निकल्पानां पेशलानाममर्षिणाम् सम्पूर्णा कृतविद्यानां गुहा केसरिणामिव
Verse 22
काम्भोजविषये जातैर्बाह्लीकैश्च हयोत्तमै: वनायुजैर्नदीजैश्च पूर्णा हरिहयोत्तमै:
Verse 23
विन्ध्यपर्वतजैर्मत्तै: पूर्णा हैमवतैरपि मदान्वितैरतिबलैर्मातङ्गै: पर्वतोपमै: ऐरावतकुलीनैश्च महापद्मकुलैस्तथा अञ्जनादपि निष्पन्नैर्वामनादपि  द्विपैः
Verse 24

Verse 25
भद्रैर्मन्द्रैर्मृगैश्चैव भद्रमन्द्रमृगैस्तथा भद्रमन्द्रैर्भद्रमृगैर्मृगमन्द्रैश्च सा पुरी नित्यमत्तैस्सदा पूर्णा नागैरचलसन्निभै:
Verse 26
सा योजने  द्वे भूय: सत्यनामा प्रकाशते यस्यां दशरथो राजा वसन् जगदपालयत्
Verse 27
तां पुरीं  महातेजा राजा दशरथो महान् शशास शमितामित्रो नक्षत्राणीव चन्द्रमा:
Verse 28
तां सत्यनामां दृढतोरणार्गलां गृहैर्विचित्रैरुपशोभितां शिवाम् पुरीमयोध्यां नृसहस्रसङ्कुलां शशास वै शक्रसमो महीपति:
0:000:00
Speed: