🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 1 • Chapter 7

Sarga 7

22 verses

Verse 1
. तस्यामात्या गुणैरासन्निक्ष्वाकोस्तु महात्मन: मन्त्रज्ञाश्चेङ्गितज्ञाश्च नित्यं प्रियहिते रता:
Verse 2
अष्टौ बभूवुर्वीरस्य तस्यामात्या यशस्विन: शुचयश्चानुरक्ताश्च राजकृत्येषु नित्यश:
Verse 3
धृष्टिर्जयन्तो विजयस्सिद्धार्थो ह्यर्थसाधक: अशोको मन्त्रपालश्च सुमन्त्रश्चाष्टमोऽभवत्
Verse 4
ऋत्विजौ द्वावभिमतौ तस्याऽऽस्तामृषिसत्तमौ वसिष्ठो वामदेवश्च मन्त्रिणश्च तथापरे
Verse 5
विद्याविनीता ह्रीमन्त: कुशला नियतेन्द्रिया: श्रीमन्तश्च महात्मानश्शास्त्रज्ञा दृढविक्रमा: कीर्तिमन्त: प्रणिहिता: यथावचनकारिण: तेज: क्षमायश:प्राप्ता स्मितपूर्वाभिभाषिण:
Verse 6
विद्याविनीता ह्रीमन्त: कुशला नियतेन्द्रिया: श्रीमन्तश्च महात्मानश्शास्त्रज्ञा दृढविक्रमा: कीर्तिमन्त: प्रणिहिता: यथावचनकारिण: तेज: क्षमायश:प्राप्ता स्मितपूर्वाभिभाषिण:
Verse 7
क्रोधात्कामार्थहेतोर्वा  ब्रूयुरनृतं वच: तेषामविदितं किञ्चित्स्वेषु नास्ति परेषु वा क्रियमाणं कृतं वापि चारेणापि चिकीर्षितम्
Verse 8
कुशला व्यवहारेषु सौहृदेषु परीक्षिता: प्राप्तकालं तु ते दण्डं धारयेयुस्सुतेष्वपि
Verse 9
कोशसङ्ग्रहणे युक्ता बलस्य  परिग्रहे अहितं चापि पुरुषं  विहिंस्युरदूषकम्
Verse 10
वीराश्च नियतोत्साहा राजशास्त्रमनुष्ठिता: शुचीनां रक्षितारश्च नित्यं विषयवासिनाम्
Verse 11
ब्रह्म क्षत्रमहिंसन्तस्ते कोशं समपूरयन् सुतीक्ष्णदण्डास्संप्रेक्ष्य पुरुषस्य बलाबलम्
Verse 12
शुचीनामेकबुद्धीनां सर्वेषां सम्प्रजानताम् नासीत्पुरे वा राष्ट्रे वा मृषावादी नर: क्वचित्
Verse 13
कश्चिन्न दुष्टस्तत्रासीत्परदाररतो नर: प्रशान्तं सर्वमेवासीद्राष्ट्रं पुरवरं  तत्
Verse 14
सुवाससस्सुवेषाश्च ते  सर्वे सुशीलिन: हितार्थं  नरेन्द्रस्य जाग्रतो नयचक्षुषा
Verse 15
गुरोर्गुणगृहीताश्च प्रख्याताश्च पराक्रमे विदेशेष्वपि विज्ञातास्सर्वतो बुद्धिनिश्चयात्
Verse 16
सन्धिविग्रहतत्त्वज्ञा: प्रकृत्या सम्पदान्विता: मन्त्रसंवरणे शक्ताश्श्लक्ष्णास्सूक्ष्मासु बुद्धिषु नीतिशास्त्रविशेषज्ञास्सततं प्रियवादिन:
Verse 17
सन्धिविग्रहतत्त्वज्ञा: प्रकृत्या सम्पदान्विता: मन्त्रसंवरणे शक्ताश्श्लक्ष्णास्सूक्ष्मासु बुद्धिषु नीतिशास्त्रविशेषज्ञास्सततं प्रियवादिन:
Verse 18
ईदृशैस्तैरमात्यैस्तु राजा दशरथोऽनघ: उपपन्नो गुणोपेतैरन्वशासद्वसुन्धराम्
Verse 19
अवेक्षमाणश्चारेण प्रजा धर्मेण रञ्जयन् प्रजानां पालनं कुर्वन्नधर्मान्परिवर्जयन् विश्रुतस्त्रिषु लोकेषु वदान्यस्सत्यसङ्गर:  तत्र पुरुषव्याघ्रश्शशास पृथिवीमिमाम्
Verse 20
अवेक्षमाणश्चारेण प्रजा धर्मेण रञ्जयन् प्रजानां पालनं कुर्वन्नधर्मान्परिवर्जयन् विश्रुतस्त्रिषु लोकेषु वदान्यस्सत्यसङ्गर:  तत्र पुरुषव्याघ्रश्शशास पृथिवीमिमाम्
Verse 21
नाध्यगच्छद्विशिष्टं वा तुल्यं वा शत्रुमात्मन: मित्रवान्नतसामन्त: प्रतापहतकण्टक:  शशास जगद्राजा दिवं देवपतिर्यथा
Verse 22
तैर्मन्त्रिभिर्मन्त्रहिते नियुक्तै र्वृतोऽनुरक्तै: कुशलैस्समर्थै:  पार्थिवो दीप्तिमवाप युक्त स्तेजोमयैर्गोभिरिवोदितोऽर्क:
0:000:00
Speed: