Book 1 • Chapter 8
Sarga 8
24 verses
Verse 1
तस्य त्वेवं प्रभावस्य धर्मज्ञस्य महात्मन: सुतार्थं तप्यमानस्य नासीद्वंशकरस्सुत:
Verse 2
चिन्तयानस्य तस्यैवं बुद्धिरासीन्महात्मन: सुतार्थं हयमेधेन किमर्थं न यजाम्यहम्
Verse 3
स निश्चितां मतिं कृत्वा यष्टव्यमिति बुद्धिमान् मन्त्रिभिस्सह धर्मात्मा सर्वैरेव कृतात्मभि: ततोऽब्रवीदिदं राजा सुमन्त्रं मन्त्रिसत्तमम् शीघ्रमानय मे सर्वान्गुरूंस्तान् सपुरोहितान्
Verse 4
स निश्चितां मतिं कृत्वा यष्टव्यमिति बुद्धिमान् मन्त्रिभिस्सह धर्मात्मा सर्वैरेव कृतात्मभि: ततोऽब्रवीदिदं राजा सुमन्त्रं मन्त्रिसत्तमम् शीघ्रमानय मे सर्वान्गुरूंस्तान् सपुरोहितान्
Verse 5
ततस्सुमन्त्रस्त्वरितं गत्वा त्वरितविक्रम: समानयत्स तान् सर्वान् समस्तान्वेदपारगान् सुयज्ञं वामदेवं च जाबालिमथ काश्यपम् परोहितं वसिष्ठं च ये चान्ये व्दिजसत्तमा:
Verse 6
ततस्सुमन्त्रस्त्वरितं गत्वा त्वरितविक्रम: समानयत्स तान् सर्वान् समस्तान्वेदपारगान् सुयज्ञं वामदेवं च जाबालिमथ काश्यपम् परोहितं वसिष्ठं च ये चान्ये व्दिजसत्तमा:
Verse 7
तान्पूजयित्वा धर्मात्मा राजा दशरथस्तदा इदं धर्मार्थसहितं श्लक्ष्णंवचनमब्रवीत्
Verse 8
मम लालप्यमानस्य पुत्रार्थन्नास्ति वै सुखम् तदर्थं हयमेधेन यक्ष्यामीति मतिर्मम
Verse 9
तदहं यष्टुमिच्छामि शास्त्रदृष्टेन कर्मणा कथं प्राप्स्याम्यहं कामं बुद्धिरत्रविचार्यताम्
Verse 10
ततस्साध्विति तद्वाक्यं ब्राह्मणा: प्रत्यपूजयन् वसिष्ठप्रमुखास्सर्वे पार्थिवस्य मुखाच्च्युतम्
Verse 11
ऊचुश्च परमप्रीतास्सर्वे दशरथं वच: सम्भारास्सम्भ्रियन्तां ते तुरगश्च विमुच्यताम्
Verse 12
सर्वथा प्राप्स्यसे पुत्रानभिप्रेतांश्च पार्थिव यस्य ते धार्मिकी बुद्धिरियं पुत्रार्थमागता
Verse 13
तत: प्रीतोऽभवद्राजा श्रुत्वा तद्विजभाषितम् अमात्यांश्चाब्रवीद्राजा हर्षपर्याकुलेक्षण:
Verse 14
सम्भारास्सम्भ्रियन्तां मे गुरूणां वचनादिह समर्थाधिष्ठितश्चाश्वस्सोपाध्यायो विमुच्यताम्
Verse 15
सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम् शान्तयश्चाभिवर्धन्तां यथाकल्पं यथाविधि
Verse 16
शक्य: प्राप्तुमयं यज्ञस्सर्वेणापि महीक्षिता नापराधो भवेत्कष्टो यद्यस्मिन्क्रतुसत्तमे
Verse 17
छिद्रं हि मृगयन्तेऽत्र विद्वांसो ब्रह्मराक्षसा: निहतस्य च यज्ञस्य सद्य: कर्ता विनश्यति
Verse 18
तद्यथा विधिपूर्वं मे क्रतुरेष समाप्यते तथा विधानं क्रियतां समर्था: करणेष्विह
Verse 19
तथेति चाब्रुवन्सर्वे मन्त्रिण:प्रत्यपूजयन् पार्थिवेन्द्रस्य तद्वाक्यं यथाज्ञप्तं निशम्य ते
Verse 20
तथा द्विजास्ते धर्मज्ञा वर्धयन्तो नृपोत्तमम् अनुज्ञातास्ततस्सर्वे पुनर्जग्मुर्यथागतम्
Verse 21
विसर्जयित्वा तान्विप्रान्सचिवानिदमब्रवीत् ऋत्विग्भिरुपदिष्टोऽयं यथावत्क्रतुराप्यताम्
Verse 22
इत्युक्त्वा नृपशार्दूलस्सचिवान्समुपस्थितान् विसर्जयित्वा स्वं वेश्म प्रविवेश महाद्युति:
Verse 23
ततस्स गत्वा ता:पत्नीर्नरेन्द्रो हृदयप्रिया: उवाच दीक्षां विशत यक्ष्येऽहं सुतकारणात्
Verse 24
तासां तेनातिकान्तेन वचनेन सुवर्चसाम् मुखपद्मान्यशोभन्त पद्मानीव हिमात्यये
0:000:00
Speed: