🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 1 • Chapter 9

Sarga 9

19 verses

Verse 1
एतच्छ्रुत्वा रहस्सूतो राजानमिदमब्रवीत् ऋत्विग्भिरुपदिष्टोऽयं पुरावृत्तो मया श्रुत:
Verse 2
सनत्कुमारो भगवान्पूर्वं कथितवान्कथाम् ऋषीणां सन्निधौ राजन् तव पुत्रागमं प्रति
Verse 3
काश्यपस्यतु पुत्रोऽस्ति विभण्डक इति श्रुत: ऋष्यशृङ्ग इति ख्यातस्तस्य पुत्रो भविष्यति
Verse 4
 वने नित्यसंवृद्धो मुनिर्वनचरस्सदा नान्यं जानाति विप्रेन्द्रो नित्यं पित्रनुवर्तनात्
Verse 5
द्वैविध्यं ब्रह्मचर्यस्य भविष्यति महात्मन: लोकेषु प्रथितं राजन्विप्रैश्च कथितं सदा
Verse 6
तस्यैवं वर्तमानस्य कालस्समभिवर्तत अग्निं शुश्रूषमाणस्य पितरं  यशस्विनम्
Verse 7
एतस्मिन्नेव काले तु रोमपाद: प्रतापवान् अङ्गेषु प्रथितो राजा भविष्यति महाबल:
Verse 8
तस्य व्यतिक्रमाद्राज्ञो भविष्यति सुदारुणा अनावृष्टिस्सुघोरा वै सर्वभूतभयावहा
Verse 9
अनावृष्ट्यां तु वृत्तायां राजा दु:खसमन्वित: ब्राह्मणान्श्रुतवृद्धांश्च समानीय प्रवक्ष्यति
Verse 10
भवन्तश्श्रुतधर्माणो लोकचारित्रवेदिन: समादिशन्तु नियमं प्रायश्चित्तं यथा भवेत्
Verse 11
वक्ष्यन्ति ते महीपालं ब्राह्मणा वेदपारगा: विभण्डकसुतं राजन्सर्वोपायैरिहानय
Verse 12
आनाय्य  महीपाल ऋश्यशृङ्गं सुसत्कृतम् प्रयच्छ कन्यां शान्तां वै विधिना सुसमाहित:
Verse 13
तेषां तु वचनं श्रुत्वा राजा चिन्तां प्रपत्स्यते केनोपायेन वै शक्य इहानेतुं  वीर्यवान्
Verse 14
ततो राजा विनिश्चित्य सह मन्त्रिभिरात्मवान् पुरोहितममात्यांश्च तत: प्रेष्यति सत्कृतान्
Verse 15
ते तु राज्ञो वचश्श्रुशृत्वा व्यथिता विनतानना:  गच्छेम ऋषेर्भीता अनुनेष्यन्ति तं नृपम्
Verse 16
वक्ष्यन्ति चिन्तयित्वा ते तस्योपायांश्च तत्क्षमान् आनेष्यामो वयं विप्रं   दोषो भविष्यति
Verse 17
एवमङ्गाधिपेनैव गणिकाभि: ऋषेस्सुत: आनीतोऽवर्षयद्देवश्शान्ता चास्मै प्रदीयते
Verse 18
ऋश्यशृङ्गस्तु जामाता पुत्रांस्तव विधास्यति सनत्कुमारकथितमेतावद्व्याहृतं मया
Verse 19
अथ हृष्टो दशरथस्सुमन्त्रं प्रत्यभाषत यथर्श्यशृङ्गस्त्वानीतो विस्तरेण त्वयोच्यताम्
0:000:00
Speed: