Book 1 • Chapter 10
Sarga 10
31 verses
Verse 1
सुमन्त्रश्चोदितो राज्ञा प्रोवाचेदं वचस्तदा यथर्श्यशृङ्गस्त्वानीत श्श्रुणु मे मन्त्रिभिस्सह
Verse 2
रोमपादमुवाचेदं सहामात्य: पुरोहित: उपायो निरपायोऽयमस्माभिरभिचिन्तित:
Verse 3
ऋश्यशृङ्गो वनचरस्तपस्स्वाध्ययने रत: अनभिज्ञस्स नारीणां विषयाणां सुखस्य च 1.10.3
Verse 4
इन्द्रियार्थैरभिमतैर्नरचित्तप्रमाथिभि: पुरमानाययिष्याम: क्षिप्रं चाध्यवसीयताम्
Verse 5
गणिकास्तत्र गच्छन्तु रूपवत्यस्स्वलङ्कृता: प्रलोभ्य विविधोपायैरानेष्यन्तीह सत्कृता:
Verse 6
श्रुत्वा तथेति राजा च प्रत्युवाच पुरोहितम् पुरोहितो मन्त्रिणश्च तथा चक्रुश्च ते तदा
Verse 7
वारमुख्याश्च तच्छ्रुत्वा वनं प्रविविशुर्महत् आश्रमस्याविदूरेऽस्मिन् यत्नं कुर्वन्ति दर्शने ऋषिपुत्रस्य धीरस्य नित्यमाश्रमवासिन:
Verse 8
पितुस्सनित्यसन्तुष्टो नातिचक्राम चाश्रमात् न तेन जन्मप्रभृति दृष्टपूर्वं तपस्विना स्त्री वा पुमान्वा यच्चान्यत्सर्वं नगरराष्ट्रजम्
Verse 9
पितुस्सनित्यसन्तुष्टो नातिचक्राम चाश्रमात् न तेन जन्मप्रभृति दृष्टपूर्वं तपस्विना स्त्री वा पुमान्वा यच्चान्यत्सर्वं नगरराष्ट्रजम्
Verse 10
तत: कदाचित्तं देशमाजगाम यदृच्छया विभण्डकसुतस्तत्र ताश्चापश्यद्वराङ्गना:
Verse 11
ताश्चित्रवेषा: प्रमदा गायन्त्यो मधुरस्वरा: ऋषिपुत्रमुपागम्य सर्वा वचनमब्रुवन्
Verse 12
कस्त्वं किं वर्तसे ब्रह्मन् ज्ञातुमिच्छामहे वयम् एकस्त्वं विजने घोरे वने चरसि शंस न:
Verse 13
अदृष्टरूपास्तास्तेन काम्यरूपा वने स्त्रिय: हार्दात्तस्य मतिर्जाता व्याख्यातुं पितरं स्वकम्
Verse 14
पिता विभण्डकोऽस्माकं तस्याहं सुत औरस: ऋश्यशृङ्ग इति ख्यातं नाम कर्म च मे भुवि
Verse 15
इहाश्रमपदोऽस्माकं समीपे शुभदर्शना: करिष्ये वोऽत्र पूजां वै सर्वेषां विधिपूर्वकम्
Verse 16
ऋषिपुत्रवचश्श्रुत्वा सर्वासां मतिरास वै तदाश्रमपदं द्रष्टुं जग्मुस्सर्वाश्च तेन ता:
Verse 17
आगतानां तत: पूजामृषिपुत्रश्चकार ह इदमर्घ्यमिदं पाद्यमिदं मूलमिदं फलं च न:
Verse 18
प्रतिगृह्य च तां पूजां सर्वा एव समुत्सुका: ऋषेर्भीताश्च शीघ्रं ता गमनाय मतिं दधु:
Verse 19
अस्माकमपि मुख्यानि फलानीमानि वै द्विज गृहाण प्रति भद्रं ते भक्षयस्व च मा चिरम्
Verse 20
ततस्तास्तं समालिङ्ग्य सर्वा हर्षसमन्विता: मोदकान्प्रददुस्तस्मै भक्ष्यांश्च विविधान् बहून्
Verse 21
तानि चास्वाद्य तेजस्वी फलानीति स्म मन्यते अनास्वादितपूर्वाणि वने नित्यनिवासिनाम्
Verse 22
आपृच्छ्य च तदा विप्रं व्रतचर्यां निवेद्य च गच्छन्ति स्मापदेशात्ता भीतास्तस्य पितुस्स्त्रिय:
Verse 23
गतासु तासु सर्वासु काश्यपस्यात्मजो द्विज: अस्वस्थहृदयश्चासीद्दु:खं स्म परिवर्तते
Verse 24
ततोऽपरेद्युस्तं देशमाजगाम स वीर्यवान् मनोज्ञा यत्र ता दृष्टा वारमुख्यास्स्वलङ्कृताः
Verse 25
दृष्ट्वैव च तास्तदा विप्रमायान्तं हृष्टमानसा: उपसृत्य ततस्सर्वास्तास्तमूचुरिदं वच:
Verse 26
एह्याश्रमपदं सौम्य ह्यस्माकमिति चाब्रुवन् तत्राप्येष विधिश्श्रीमान् विशेषेण भविष्यति
Verse 27
श्रुत्वा तु वचनं तासां सर्वासां हृदयङ्गमम् गमनाय मतिं चक्रे तं च निन्युस्तदा स्त्रिय:
Verse 28
तत्र चानीयमाने तु विप्रे तस्मिन्महात्मनि ववर्ष सहसा देवो जगत्प्रह्लादयंस्तदा
Verse 29
वर्षेणैवागतं विप्रं विषयं स्वं नराधिप: प्रत्युद्गम्य मुनिं प्रह्वश्शिरसा च महीं गत:
Verse 30
अर्घ्यं च प्रददौ तस्मै न्यायतस्सुसमाहित: वव्रे प्रसादं विप्रेन्द्रान्मा विप्रं मन्युराविशेत्
Verse 31
अन्त:पुरं प्रविश्यास्मै कन्यां दत्त्वा यथाविधि शान्तां शान्तेन मनसा राजा हर्षमवाप स: एवं स न्यवसत्तत्र सर्वकामैस्सुपूजित:
0:000:00
Speed: