Book 1 • Chapter 11
Sarga 11
30 verses
Verse 1
भूय एव हि राजेन्द्र शृणु मे वचनं हितम् यथा स देवप्रवर: कथायामेवमब्रवीत्
Verse 2
इक्ष्वाकूणां कुले जातो भविष्यति सुधार्मिक: राजा दशरथो नाम्ना श्रीमान्सत्यप्रतिश्रव:
Verse 3
अङ्गराजेन सख्यं च तस्य राज्ञो भविष्यति कन्या चास्य महाभागा शान्ता नाम भविष्यति
Verse 4
पुत्रस्तु सोऽङ्गराजस्य रोमपाद इति श्रुत: तं स राजा दशरथो गमिष्यति महायशा:
Verse 5
अनपत्योऽस्मि धर्मात्मन् शान्ताभर्ता मम क्रतुम् आहरेत त्वयाज्ञप्तस्सन्तानार्थं कुलस्य च
Verse 6
श्रुत्वा राज्ञोऽथ तद्वाक्यं मनसा स विचिन्त्य च प्रदास्यते पुत्रवन्तं शान्ताभर्तारमात्मवान्
Verse 7
प्रतिगृह्य च तं विप्रं स राजा विगतज्वर: आहरिष्यति तं यज्ञं प्रहृष्टेनान्तरात्मना
Verse 8
तं च राजा दशरथो यष्टुकाम: कृताञ्जलि: ऋश्यशृङ्गं द्विजश्रेष्ठं वरयिष्यति धर्मवित् यज्ञार्थं प्रसवार्थं च स्वर्गार्थं च नरेश्वर: लभते च स तं कामं द्विजमुख्याद्विशांपति:
Verse 9
तं च राजा दशरथो यष्टुकाम: कृताञ्जलि: ऋश्यशृङ्गं द्विजश्रेष्ठं वरयिष्यति धर्मवित् यज्ञार्थं प्रसवार्थं च स्वर्गार्थं च नरेश्वर: लभते च स तं कामं द्विजमुख्याद्विशांपति:
Verse 10
पुत्राश्चास्य भविष्यन्ति चत्वारोऽमितविक्रमा: वंशप्रतिष्ठानकरास्सर्वलोकेषु विश्रुता:
Verse 11
एवं स देवप्रवर: पूर्वं कथितवान्कथाम् सनत्कुमारो भगवान्पुरा देवयुगे प्रभु:
Verse 12
स त्वं पुरुषशार्दूल तमानय सुसत्कृतम् स्वयमेव महाराज गत्वा सबलवाहन:
Verse 13
अनुमान्य वसिष्ठं च सूतवाक्यं निशम्य च सान्त:पुरस्सहामात्य: प्रययौ यत्र स द्विज:
Verse 14
वनानि सरितश्चैव व्यतिक्रम्य शनैश्शनै: अभिचक्राम तं देशं यत्र वै मुनिपुङ्गव:
Verse 15
आसाद्य तं द्विजश्रेष्ठं रोमपादसमीपगम् ऋषिपुत्रं ददर्शादौ दीप्यमानमिवानलम्
Verse 16
ततो राजा यथान्यायं पूजां चक्रे विशेषत: सखित्वात्तस्य वै राज्ञ: प्रहृष्टेनान्तरात्मना
Verse 17
रोमपादेन चाख्यातमृषिपुत्राय धीमते सख्यं सम्बन्धकं चैव तदा तं प्रत्यपूजयत्
Verse 18
एवं सुसत्कृतस्तेन सहोषित्वा नरर्षभ: सप्ताष्टदिवसान्राजा राजानमिदमब्रवीत्
Verse 19
शान्ता तव सुता राजन् सह भर्त्रा विशांपते मदीयनगरं यातु कार्यं हि महदुद्यतम्
Verse 20
तथेति राजा संश्रुत्य गमनं तस्य धीमत: उवाच वचनं विप्रं गच्छ त्वं सह भार्यया
Verse 21
ऋषिपुत्र: प्रतिश्रुत्य तथेत्याह नृपं तदा स नृपेणाभ्यनुज्ञात: प्रययौ सह भार्यया
Verse 22
तावन्योन्याञ्जलिं कृत्वा स्नेहात्संश्लिष्य चोरसा ननन्दतुर्दशरथो रोमपादश्च वीर्यवान्
Verse 23
ततस्सुहृदमापृच्छ्य प्रस्थितो रघुनन्दन: पौरेभ्य: प्रेषयामास दूतान्वै शीघ्रगामिन:
Verse 24
क्रियतां नगरं सर्वं क्षिप्रमेव स्वलङ्कृतम् धूपितं सिक्तसम्मृष्टं पताकाभिरलङ्कृतम्
Verse 25
तत: प्रहृष्टा: पौरास्ते श्रुत्वा राजानमागतम् तथा प्रचक्रुस्तत्सर्वं राज्ञा यत्प्रेषितं तदा
Verse 26
ततस्स्वलङ्कृतं राजा नगरं प्रविवेश ह शङ्खदुन्दुभिनिर्घोषै: पुरस्कृत्य द्विजर्षभम्
Verse 27
तत: प्रमुदितास्सर्वे दृष्ट्वा तं नागरा द्विजम् प्रवेश्यमानं सत्कृत्य नरेन्द्रेणेन्द्रकर्मणा
Verse 28
अन्त:पुरं प्रवेश्यैनं पूजां कृत्वा च शास्त्रत: कृतकृत्यं तदात्मानं मेने तस्योपवाहनात्
Verse 29
अन्त:पुरस्त्रियस्सर्वाश्शान्तां दृष्ट्वा तथागताम् सह भर्त्रा विशालाक्षीं प्रीत्यानन्दमुपागमन्
Verse 30
पूज्यमाना च ताभिस्सा राज्ञा चैव विशेषत: उवास तत्र सुखिता कञ्चित्कालं सहर्त्विजा
0:000:00
Speed: