Book 1 • Chapter 12
Sarga 12
21 verses
Verse 1
तत: काले बहुतिथे कस्मिंश्चित्सुमनोहरे वसन्ते समनुप्राप्ते राज्ञो यष्टुं मनोऽभवत्
Verse 2
तत: प्रसाद्य शिरसा तं विप्रं देववर्णिनम् यज्ञाय वरयामास सन्तानार्थं कुलस्य वै
Verse 3
तथेति च स राजानमुवाच च सुसत्कृत: सम्भारा सम्भ्रियन्तां ते तुरगश्च विमुच्यताम्
Verse 4
ततो राजाऽब्रवीद्वाक्यं सुमन्त्रं मन्त्रिसत्तमम् सुमन्त्रावाहय क्षिप्रं ऋत्विजो ब्रह्मवादिन: सुयज्ञं वामदेवं च जाबालिमथ काश्यपम् पुरोहितं वसिष्ठं च ये चान्ये द्विजसत्तमा:
Verse 5
ततो राजाऽब्रवीद्वाक्यं सुमन्त्रं मन्त्रिसत्तमम् सुमन्त्रावाहय क्षिप्रं ऋत्विजो ब्रह्मवादिन: सुयज्ञं वामदेवं च जाबालिमथ काश्यपम् पुरोहितं वसिष्ठं च ये चान्ये द्विजसत्तमा:
Verse 6
ततस्सुमन्त्रस्त्वरितं गत्वा त्वरितविक्रम: समानयत्स तान्विप्रान् समस्तान्वेदपारगान्
Verse 7
तान्पूजयित्वा धर्मात्मा राजा दशरथस्तदा धर्मार्थसहितं युक्तं श्लक्ष्णं वचनमब्रवीत्
Verse 8
मम लालप्यमानस्य पुत्रार्थं नास्ति वै सुखम् तदर्थं हयमेधेन यक्ष्यामीति मतिर्मम
Verse 9
तदहं यष्टुमिच्छामि शास्त्रदृष्टेन कर्मणा ऋषिपुत्रप्रभावेन कामान्प्राप्स्यामि चाप्यहम्
Verse 10
ततस्साध्विति तद्वाक्यं ब्राह्मणा: प्रत्यपूजयन् वसिष्ठप्रमुखास्सर्वे पार्थिवस्य मुखाच्च्युतम्
Verse 11
ऋष्यशृङ्गपुरोगाश्च प्रत्यूचुर्नृपतिं तदा सम्भारास्सम्भ्रियन्तां ते तुरगश्च विमुच्यताम्
Verse 12
सर्वथा प्राप्स्यसे पुत्रांश्चत्वारोऽमितविक्रमान् यस्य ते धार्मिकी बुद्धिरियं पुत्रार्थमागता
Verse 13
तत: प्रीतोऽभवद्राजा श्रुत्वा तद्विजभाषितम् अमात्यांश्चाब्रवीद्राजा हर्षेणेदं शुभाक्षरम्
Verse 14
गुरूणां वचनाच्छीघ्रं सम्भारास्सम्भ्रियन्तु मे समर्थाधिष्ठितश्चाश्वस्सोपाध्यायो विमुच्यताम्
Verse 15
सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम् शान्तयश्चाभिवर्धन्तां यथाकल्पं यथाविधि
Verse 16
शक्य: प्राप्तुमयं यज्ञस्सर्वेणापि महीक्षिता नापराधो भवेत्कष्टो यद्यस्मिन्क्रतुसत्तमे
Verse 17
छिद्रं हि मृगयन्तेऽत्र विद्वांसो ब्रह्मराक्षसा: निहतस्य च यज्ञस्य सद्य: कर्ता विनश्यति
Verse 18
तद्यथा विधिपूर्वं मे क्रतुरेष समाप्यते तथा विधानं क्रियतां समर्था: करणेष्विह
Verse 19
तथेति च ततस्सर्वे मन्त्रिण: प्रत्यपूजयन् पार्थिवेन्द्रस्य तद्वाक्यं यथाज्ञप्तमकुर्वत
Verse 20
ततो द्विजास्ते धर्मज्ञमस्तुवन्पार्थिवर्षभम् अनुज्ञातास्ततस्सर्वे पुनर्जग्मुर्यथागतम्
Verse 21
गतेष्वथ द्विजाग्य्रेषु मन्त्रिणस्तान्नराधिप: विसर्जयित्वा स्वं वेश्म प्रविवेश महाद्युति:
0:000:00
Speed: