Book 1 • Chapter 13
Sarga 13
37 verses
Verse 1
पुन: प्राप्ते वसन्ते तु पूर्णस्संवत्सरोऽभवत् प्रसवार्थं गतो यष्टुं हयमेधेन वीर्यवान्
Verse 2
अभिवाद्य वसिष्ठं च न्यायत: परिपूज्य च अब्रवीत्प्रश्रितं वाक्यं प्रसवार्थं द्विजोत्तमम्
Verse 3
यज्ञो मे क्रियतां ब्रह्मन्यथोक्तं मुनिपुङ्गव यथा न विघ्न: क्रियते यज्ञाङ्गेषु विधीयताम्
Verse 4
भवान् स्निग्धस्सुहृन्मह्यं गुरुश्च परमो महान् ओढव्यो भवता चैव भारो यज्ञस्य चोद्यत:
Verse 5
तथेति च स राजानमब्रवीद्द्विजसत्तमः करिष्ये सर्वमेवैतद्भवता यत्समर्थितम्
Verse 6
ततोऽब्रवीद्विजान्वृद्धान्यज्ञकर्मसु निष्ठितान् स्थापत्ये निष्ठितांश्चैव वृद्धान्परमधार्मिकान् कर्मान्तिकान् शिल्पकरान्वर्धकीन् खनकानपि गणकान्शिल्पिनश्चैव तथैव नटनर्तकान् तथा शुचीन्शास्त्रविद: पुरुषान् सुबहुश्रुतान् यज्ञकर्म समीहन्तां भवन्तो राजशासनात् इष्टका बहु साहस्राश्शीघ्रमानीयतामिति 0 उपकार्या: क्रियन्तां च राज्ञां बहुगुणान्विता:
Verse 7

Verse 8

Verse 9

Verse 10
ब्राह्मणावसथाश्चैव कर्तव्याश्शतशश्शुभा: भक्ष्यान्नपानैर्बहुभिस्समुपेतास्सुनिष्ठिता:
Verse 11
तथा पौरजनस्यापि कर्तव्या बहुविस्तरा: आवासा बहुभक्ष्या वै सर्वकामैरुपस्थिता:
Verse 12
तथा जानपदस्यापि जनस्य बहुशोभनम् दातव्यमन्नं विधिवत्सत्कृत्य न तु लीलया
Verse 13
सर्वे वर्णा यथा पूजां प्राप्नुवन्ति सुसत्कृता: न चावज्ञा प्रयोक्तव्या कामक्रोधवशादपि
Verse 14
यज्ञकर्मसु ये व्यग्रा: पुरुषाश्शिल्पिनस्तथा तेषामपि विशेषेण पूजा कार्या यथाक्रमम् ते च स्युस्सम्भृतास्सर्वे वसुभिर्भोजनेन च
Verse 15
यथा सर्वं सुविहितं न किञ्चित्परिहीयते तथा भवन्त: कुर्वन्तु प्रीतिस्निग्धेन चेतसा
Verse 16
ततस्सर्वे समागम्य वसिष्ठमिदमब्रुवन् यथोक्तं तत्सुविहितं न किञ्चित्परिहीयते यथोक्तं तत्करिष्यामो न किञ्चित्परिहास्यते
Verse 17
ततस्सर्वे समागम्य वसिष्ठमिदमब्रुवन् यथोक्तं तत्सुविहितं न किञ्चित्परिहीयते यथोक्तं तत्करिष्यामो न किञ्चित्परिहास्यते
Verse 18
ततस्सुमन्त्रमानीय वसिष्ठो वाक्यमब्रवीत् निमन्त्रयस्व नृपतीन्पृथिव्यां ये च धार्मिका:
Verse 19
ब्राह्मणान्क्षत्रियान्वैश्याञ्छूद्रांश्चैव सहस्रश: समानयस्व सत्कृत्य सर्वदेशेषु मानवान्
Verse 20
मिथिलाधिपतिं शूरं जनकं सत्यविक्रमम् निष्ठितं सर्वशास्त्रेषु तथा वेदेषु निष्ठितम् तमानय महाभागं स्वयमेव सुसत्कृतम् पूर्वसम्बन्धिनं ज्ञात्वा तत: पूर्वं ब्रवीमि ते
Verse 21
मिथिलाधिपतिं शूरं जनकं सत्यविक्रमम् निष्ठितं सर्वशास्त्रेषु तथा वेदेषु निष्ठितम् तमानय महाभागं स्वयमेव सुसत्कृतम् पूर्वसम्बन्धिनं ज्ञात्वा तत: पूर्वं ब्रवीमि ते
Verse 22
तथा काशीपतिं स्निग्धं सततं प्रियवादिनम् वयस्यं राजसिंहस्य स्वयमेवानयस्व ह
Verse 23
तथा केकयराजानं वृद्धं परमधार्मिकम् श्वशुरं राजसिंहस्य सपुत्रं त्वमिहानय
Verse 24
अङ्गेश्वरम् महाभागं रोमपादं सुसत्कृतम् वयस्यं राजसिंहस्य समानय यशस्विनम्
Verse 25
प्राचीनान्सिन्धु सौवीरान्सौराष्ट्रेयांश्च पार्थिवान् दाक्षिणात्यान्नरेन्द्रांश्च समस्तानानयस्व ह
Verse 26
सन्ति स्निग्धाश्च ये चान्ये राजान: पृथिवीतले तानानय यथाक्षिप्रं सानुगान्सह बान्धवान्
Verse 27
वसिष्ठवाक्यं तच्छ्रुत्वा सुमन्त्रस्त्वरितस्तदा व्यादिशत्पुरुषांस्तत्र राज्ञामानयने शुभान्
Verse 28
स्वयमेव हि धर्मात्मा प्रययौ मुनिशासनात् सुमन्त्रस्त्वरितो भूत्वा समानेतुं महीक्षित:
Verse 29
ते च कर्मान्तिकास्सर्वे वसिष्ठाय च धीमते सर्वं निवेदयन्ति स्म यज्ञे यदुपकल्पितम्
Verse 30
तत:प्रीतो द्विजश्रेष्ठस्तान् सर्वानिदमब्रवीत् अवज्ञया न दातव्यं कस्यचिल्लीलयाऽपि वा अवज्ञया कृतं हन्याद्दातारं नात्र संशय: 28
Verse 31
तत: कैश्चिदहोरात्रैरुपयाता महीक्षित: बहूनि रत्नान्यादाय राज्ञो दशरथस्य वै
Verse 32
ततो वसिष्ठस्सुप्रीतो राजानमिदमब्रवीत् उपयाता नरव्याघ्र राजानस्तव शासनात् मयापि सत्कृता: सर्वे यथार्हं राजसत्तमा:
Verse 33
ततो वसिष्ठस्सुप्रीतो राजानमिदमब्रवीत् उपयाता नरव्याघ्र राजानस्तव शासनात् मयापि सत्कृता: सर्वे यथार्हं राजसत्तमा:
Verse 34
यज्ञीयं च कृतं राजन् पुरुषैस्सुसमाहितै: निर्यातु च भवान्यष्टुं यज्ञायतनमन्तिकात्
Verse 35
सर्वकामैरुपहृतैरुपेतं च समन्तत: द्रष्टुमर्हसि राजेन्द्र मनसेव विनिर्मितम्
Verse 36
तथा वसिष्ठवचनादृश्यशृङ्गस्य चोभयो: शुभे दिवसनक्षत्रे निर्यातो जगतीपति:
Verse 37
ततो वसिष्ठप्रमुखास्सर्व एव द्विजोत्तमा: ऋश्यशृङ्गं पुरस्कृत्य यज्ञकर्मारभन् तदा यज्ञवाटगतास्सर्वे यथाशास्त्रं यथाविधि 3
0:000:00
Speed: