🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 1 • Chapter 14

Sarga 14

57 verses

Verse 1
अथ संवत्सरे पूर्णे तस्मिन्प्राप्ते तुरङ्गमे सरय्वाश्चोत्तरे तीरे राज्ञो यज्ञोऽभ्यवर्तत
Verse 2
ऋश्यशृङ्गं पुरस्कृत्य कर्म चक्रुर्द्विजर्षभा: अश्वमेधे महायज्ञे राज्ञोऽस्य सुमहात्मन:
Verse 3
कर्म कुर्वन्ति विधिवद्याजका वेदपारगा: यथाविधि यथान्यायं परिक्रामन्ति शास्त्रत:
Verse 4
प्रवर्ग्यं शास्त्रत: कृत्वा तथैवोपसदं द्विजा: चक्रुश्च विधिवत्सर्वमधिकं कर्म शास्त्रत:
Verse 5
अभिपूज्य ततो हृष्टास्सर्वे चक्रुर्यथाविधि प्रातस्सवनपूर्वाणि कर्माणि मुनिपुङ्गवा:
Verse 6
ऐन्द्रश्च विधिवद्दत्तो राजा चाभिषुतोऽनघ: माध्यन्दिनं  सवनं प्रावर्तत यथाक्रमम्
Verse 7
तृतीयसवनं चैव राज्ञोऽस्य सुमहात्मन: चक्रुस्तेशास्त्रतो दृष्ट्वा तथा ब्राह्मणपुङ्गवा:
Verse 8
 चाहुतमभूत्तत्र स्खलितं वापि किञ्चन दृश्यते ब्रह्मवत्सर्वं क्षेमयुक्तं हि चक्रिरे
Verse 9
 तेष्वहस्सु श्रान्तो वा क्षुधितो वापि दृश्यते नाविद्वान्ब्राह्मणस्तत्र नाशतानुचरस्तथा
Verse 10
ब्राह्मणा भुञ्जते नित्यं नाथवन्तश्च भुञ्जते तापसा भुञ्जते चापि श्रमणा भुञ्जतेतथा
Verse 11
वृद्धाश्च व्याधिताश्चैव स्त्रियो बालास्तथैव  अनिशं भुञ्जमानानां  तृप्तिरुपलभ्यते
Verse 12
दीयतां दीयतामन्नं वासांसि विविधानि  इति सञ्चोदितास्तत्र तथा चक्रुरनेकश:
Verse 13
अन्नकूटाश्च बहवो दृश्यन्ते पर्वतोपमा: दिवसे दिवसे तत्र सिद्धस्य विधिवत्तदा
Verse 14
नानादेशादनुप्राप्ता: पुरुषास्स्त्रीगणास्तथा अन्नपानैस्सुविहितास्तस्मिन्यज्ञे महात्मन:
Verse 15
अन्नं हि विधिवत्साधु प्रशंसन्ति द्विजर्षभा: अहो तृप्ता: स्म भद्रं ते इति शुश्राव राघव:
Verse 16
स्वलङ्कृताश्च पुरुषा ब्राह्मणान्पर्यवेषयन् उपासते  तानन्ये सुमृष्टमणिकुण्डला:
Verse 17
कर्मान्तरे तदा विप्रा हेतुवादान्बहूनपि प्राहुश्च वाग्मिनो धीरा: परस्परजिगीषया
Verse 18
दिवसे दिवसे तत्र संस्तरे कुशला द्विजा: सर्वकर्माणि चक्रुस्ते यथाशास्त्रं प्रचोदिता:
Verse 19
नाषडङ्गविदत्रासीन्नाव्रतो नाबहुश्रुत: सदस्यास्तस्य वै राज्ञो नावादकुशला द्विजा:
Verse 20
प्राप्ते यूपोच्छ्रये तस्मिन्षड्बैल्वा: खादिरास्तथा तावन्तो बिल्वसहिता: पर्णिनश्च तथापरे श्लेष्मातकमयस्त्वेको देवदारुमयस्तथा द्वावेव विहितौ तत्र बाहुव्यस्तपरिग्रहौ
Verse 21
प्राप्ते यूपोच्छ्रये तस्मिन्षड्बैल्वा: खादिरास्तथा तावन्तो बिल्वसहिता: पर्णिनश्च तथापरे श्लेष्मातकमयस्त्वेको देवदारुमयस्तथा द्वावेव विहितौ तत्र बाहुव्यस्तपरिग्रहौ
Verse 22
कारितास्सर्व एवैते शास्त्रज्ञैर्यज्ञकोविदै: शोभार्थं तस्य यज्ञस्य काञ्चनालङ्कृताऽभवन्
Verse 23
एकविंशतियूपास्ते एकविंशत्यरत्नय: वासोभिरेकविंशद्भिरेकैकं समलङ्कृता:
Verse 24
विन्यस्ता विधिवत्सर्वे शिल्पिभिस्सुकृता दृढा: अष्टाश्रयस्सर्व एव श्लक्ष्णरूपसमन्विता:
Verse 25
आच्छादितास्ते वासोभि: पुष्पैर्गन्धैश्च भूषिता: सप्तर्षयो दीप्तिमन्तो विराजन्ते यथा दिवि
Verse 26
इष्टकाश्च यथान्यायं कारिताश्च प्रमाणत: चितोऽग्निर्ब्राह्मणैस्तत्र कुशलैश्शुल्बकर्मणि
Verse 27
सचित्यो राजसिंहस्य सञ्चित: कुशलैर्द्विजै: गरुडो रुक्मपक्षो वै त्रिगुणोऽष्टादशात्मक:
Verse 28
नियुक्तास्तत्र पशवस्तत्तदुद्दिश्य दैवतम् उरगा: पक्षिणश्चैव यथाशास्त्रं प्रचोदिता:
Verse 29
शामित्रे तु हयस्तत्र तथा जलचराश्च ये ऋत्विग्भिस्सर्वमेवैतन्नियुक्तं शास्त्रतस्तदा
Verse 30
पशूनां त्रिशतं तत्र यूपेषु नियतं तदा अश्वरत्नोत्तमं तस्य राज्ञो दशरथस्य 
Verse 31
कौसल्या तं हयं तत्र परिचर्य समन्तत: कृपाणैर्विशशासैनं त्रिभि: परमया मुदा
Verse 32
पतत्रिणा तदा सार्धं सुस्थितेन  चेतसा अवसद्रजनीमेकां कौशल्या धर्मकाम्यया
Verse 33
होताऽध्वर्युस्तथोद्गाता हस्तेन समयोजयन् महिष्या परिवृत्त्या  वावातां  तथापराम्
Verse 34
पतत्रिणस्तस्य वपा मुद्धृत्य नियतेन्द्रिय: ऋत्विक्परमसम्पन्न: श्रपयामास शास्त्रत:
Verse 35
धूमगन्धं वपायास्तु जिघ्रति स्म नराधिप: यथाकालं यथान्यायं निर्णुदन्पापमात्मन:
Verse 36
हयस्य यानि चाङ्गानि तानि सर्वाणि ब्राह्मणा: अग्नौ प्रास्यन्ति विधिवत्समन्त्राष्षोडशर्त्विज:
Verse 37
प्लक्षशाखासु यज्ञानामन्येषां क्रियते हवि: अश्वमेधस्य यज्ञस्य वैतसो भाग इष्यते
Verse 38
त्र्यहोऽश्वमेधस्सङ्ख्यात: कल्पसूत्रेण ब्राह्मणै: 37 चतुष्टोममहस्तस्य प्रथमं परिकल्पितम्
Verse 39
उक्थ्यं द्वितीयं संख्यातमतिरात्रं तथोत्तरम् कारितास्तत्र बहवो विहिताश्शास्त्रदर्शनात्
Verse 40
ज्योतिष्टोमायुषी चैवमतिरात्रौ विनिर्मितौ अभिजिद्विश्वजिच्चैवमप्तोर्यामो महाक्रतु:
Verse 41
प्राचीं होत्रे ददौ राजा दिशं स्वकुलवर्धन: अध्वर्यवे प्रतीचीं तु ब्रह्मणे दक्षिणां दिशम् उद्गात्रे  तथोदीचीं दक्षिणैषा विनिर्मिता हयमेधे महायज्ञे स्वयंभूविहिते पुरा
Verse 42
प्राचीं होत्रे ददौ राजा दिशं स्वकुलवर्धन: अध्वर्यवे प्रतीचीं तु ब्रह्मणे दक्षिणां दिशम् उद्गात्रे  तथोदीचीं दक्षिणैषा विनिर्मिता हयमेधे महायज्ञे स्वयंभूविहिते पुरा
Verse 43
क्रतुं समाप्य तु तदा न्यायत: पुरुषर्षभ: ऋत्विग्भ्यो हि ददौ राजा तां धरां कुलवर्धन:
Verse 44
ऋत्विजस्त्वब्रुवन्सर्वे राजानं गतकल्मषम् भवानेव महीं कृत्स्नामेको रक्षितुमर्हति
Verse 45
 भूम्या कार्यमस्माकं  हि शक्तास्स्म पालने रतास्स्वाध्यायकरणे वयं नित्यं हि भूमिप निष्क्रयं किञ्चिदेवेह प्रयच्छतु भवानिति 4
Verse 46
मणिरत्नं सुवर्णं वा गावो यद्वा समुद्यतम् तत्प्रयच्छ नरश्रेष्ठ धरण्या  प्रयोजनम्
Verse 47
एवमुक्तो नरपतिर्ब्राह्मणैर्वेदपारगै: गवां शतसहस्राणि दश तेभ्यो ददौ नृप: 4 शतकोटीस्सुवर्णस्य रजतस्य चतुर्गुणम्
Verse 48
एवमुक्तो नरपतिर्ब्राह्मणैर्वेदपारगै: गवां शतसहस्राणि दश तेभ्यो ददौ नृप: 4 शतकोटीस्सुवर्णस्य रजतस्य चतुर्गुणम्
Verse 49
ऋत्विजश्च ततस्सर्वे प्रददुस्सहिता वसु ऋश्यशृङ्गाय मुनये वसिष्ठाय  धीमते
Verse 50
ततस्ते न्यायत: कृत्वा प्रविभागं द्विजोत्तमा: सुप्रीतमनसस्सर्वे प्रत्यूचुर्मुदिता भृशम्
Verse 51
तत: प्रसर्पकैभ्यस्तु हिरण्यं सुसमाहित: जाम्बूनदं कोटिसंख्यं ब्राह्मणेभ्यो ददौ तदा
Verse 52
दरिद्राय द्विजायाथ हस्ताभरणमुत्तमम् कस्मैचिद्याचमानाय ददौ राघवनन्दन:
Verse 53
तत: प्रीतेषु नृपतिर्द्विजेषु द्विजवत्सल: प्रणाममकरोत्तेषां हर्षपर्याकुलेक्षण:
Verse 54
तस्याशिषोऽथ विधिवद्ब्राह्मणैस्समुदीरिता: उदारस्य नृवीरस्य धरण्यां प्रणतस्य 
Verse 55
तत: प्रीतमना राजा प्राप्य यज्ञमनुत्तमम् पापापहं स्वर्नयनं दुष्करं पार्थिवर्षभै:
Verse 56
ततोऽब्रवीदृश्यशृङ्गं राजा दशरथस्तदा कुलस्य वर्धनं त्वं तु कर्तुमर्हसि सुव्रत
Verse 57
तथेति   राजानमुवाच द्विजसत्तम: भविष्यन्ति सुता राजंश्चत्वारस्ते कुलोद्वहा:
0:000:00
Speed: