Book 1 • Chapter 15
Sarga 15
33 verses
Verse 1
मेथावी तु ततो ध्यात्वा स किञ्चिदिदमुत्तरम् लब्धसंज्ञस्ततस्तं तु वेदज्ञो नृपमब्रवीत्
Verse 2
इष्टिं तेऽहं करिष्यामि पुत्रीयां पुत्रकारणात् अथर्वशिरसि प्रोक्तैर्मन्त्रैस्सिद्धां विधानत:
Verse 3
तत: प्राक्रमदिष्टिं तां पुत्रीयां पुत्रकारणात् जुहाव चाग्नौ तेजस्वी मन्त्रदृष्टेन कर्मणा
Verse 4
ततो देवास्सगन्धर्वास्सिद्धाश्च परमर्षय: भागप्रतिग्रहार्थं वै समवेता यथाविधि
Verse 5
तास्समेत्य यथान्यायं तस्मिन्सदसि देवता: अब्रुवन् लोककर्तारं ब्रह्माणं वचनं महत्
Verse 6
भगवन्त्वत्प्रसादेन रावणो नाम राक्षस: सर्वान्नो बाधते वीर्याच्छासितुं तं न शक्नुम:
Verse 7
त्वया तस्मै वरो दत्त: प्रीतेन भगवन्पुरा मानयन्तश्च तं नित्यं सर्वं तस्य क्षमामहे
Verse 8
उद्वेजयति लोकान्स्तीनुच्छ्रितान्द्वेष्टि दुर्मति: शक्रं त्रिदशराजानं प्रधर्षयितुमिच्छति
Verse 9
ऋषीन्यक्षान्सगन्धर्वानसुरान्ब्राह्मणांस्तथा अतिक्रामति दुर्धर्षो वरदानेन मोहित:
Verse 10
नैनं सूर्य: प्रतपति पार्श्वे वाति न मारुत: चलोर्मिमाली तं दृष्ट्वा समुद्रोऽपि न कम्पते
Verse 11
तन्महन्नो भयं तस्माद्राक्षसाद्घोरदर्शनात् वधार्थं तस्य भगवन्नुपायं कर्तुमर्हसि
Verse 12
एवमुक्तस्सुरैस्सर्वैश्चिन्तयित्वा ततोऽब्रवीत् हन्तायं विदितस्तस्य वधोपायो दुरात्मन:
Verse 13
तेन गन्धर्वयक्षाणां देवदानवरक्षसाम् अवध्योऽस्मीति वागुक्ता तथेत्युक्तं च तन्मया
Verse 14
नाकीर्तयदवज्ञानात्तद्रक्षो मानुषान् प्रति तस्मात्स मानुषाद्वध्यो मृत्युर्नान्योऽस्य विद्यते
Verse 15
एतच्छ्रुत्वा प्रियं वाक्यं ब्रह्मणा समुदाहृतम् सर्वे महर्षयो देवाः प्रहृष्टास्तेऽभवंस्तदा
Verse 16
एतस्मिन्नन्तरे विष्णुरुपयातो महाद्युति: शङ्खचक्रगदापाणि: पीतवासा जगत्पति:
Verse 17
ब्रह्मणा च समागम्य तत्र तस्थौ समाहित: 1 तमब्रुवन्सुरास्सर्वे समभिष्टूय सन्नता:
Verse 18
त्वान्नियोक्ष्यामहे विष्णो लोकानां हितकाम्यया 1 राज्ञो दशरथस्य त्वमयोध्याधिपते: प्रभो: 1.15.18 धर्मज्ञस्य वदान्यस्य महर्षिसमतेजस: 18 तस्य भार्यासु तिसृषु ह्रीश्रीकीर्त्युपमासु च विष्णो पुत्रत्वमागच्छ कृत्वाऽऽत्मानं चतुर्विधम् 1
Verse 19
त्वान्नियोक्ष्यामहे विष्णो लोकानां हितकाम्यया 1 राज्ञो दशरथस्य त्वमयोध्याधिपते: प्रभो: 1.15.18 धर्मज्ञस्य वदान्यस्य महर्षिसमतेजस: 18 तस्य भार्यासु तिसृषु ह्रीश्रीकीर्त्युपमासु च विष्णो पुत्रत्वमागच्छ कृत्वाऽऽत्मानं चतुर्विधम् 1
Verse 20
तत्र त्वं मानुषो भूत्वा प्रवृद्धं लोककण्टकम् अवध्यं दैवतैर्विष्णो समरे जहि रावणम्
Verse 21
स हि देवांश्च गन्धर्वान्सिद्धांश्च मुनिसत्तमान् राक्षसो रावणो मूर्खो वीर्योत्सेकेन बाधते
Verse 22
ऋषयश्च ततस्तेन गन्धर्वाप्सरसस्तथा क्रीडन्तो नन्दनवने क्रूरेण किल हिंसिता:
Verse 23
वधार्थं वयमायातास्तस्य वै मुनिभिस्सह सिद्धगन्धर्वयक्षाश्च ततस्त्वां शरणं गता:
Verse 24
त्वं गति: परमा देव सर्वेषां न: परन्तप: वधाय देवशत्रूणां नृणां लोके मन: कुरु
Verse 25
एवमुक्तस्तु देवेशो विष्णुस्त्रिदशपुङ्गव: पितामहपुरोगांस्तान्सर्वलोकनमस्कृत: अब्रवीत्त्रिदशान्सर्वान्समेतान्धर्मसंहितान्
Verse 26
एवमुक्तस्तु देवेशो विष्णुस्त्रिदशपुङ्गव: पितामहपुरोगांस्तान्सर्वलोकनमस्कृत: अब्रवीत्त्रिदशान्सर्वान्समेतान्धर्मसंहितान्
Verse 27
भयं त्यजत भद्रं वो हितार्थं युधि रावणम् सपुत्रपौत्रं सामात्यं समित्रज्ञातिबान्धवम् हत्वा क्रूरं दुरात्मानं देवर्षीणां भयावहम् दशवर्षसहस्राणि दशवर्षशतानि च वत्स्यामि मानुषे लोके पालयन्पृथिवीमिमाम्
Verse 28
भयं त्यजत भद्रं वो हितार्थं युधि रावणम् सपुत्रपौत्रं सामात्यं समित्रज्ञातिबान्धवम् हत्वा क्रूरं दुरात्मानं देवर्षीणां भयावहम् दशवर्षसहस्राणि दशवर्षशतानि च वत्स्यामि मानुषे लोके पालयन्पृथिवीमिमाम्
Verse 29
एवं दत्वा वरं देवो देवानां विष्णुरात्मवान् मानुषे चिन्तयामास जन्मभूमिमथात्मन:
Verse 30
तत: पद्मपलाशाक्ष: कृत्वाऽऽत्मानं चतुर्विधम् पितरं रोचयामास तथा दशरथन्नृपम्
Verse 31
तदा देवर्षि गन्धर्वास्सरुद्रास्साप्सरोगणा: स्तुतिभिर्दिव्यरूपाभिस्तुष्टुवुर्मधुसूदनम्
Verse 32
तमुद्धतं रावणमुग्रतेजसं प्रवृद्धदर्पं त्रिदशेश्वरद्विषम् विरावणं साधुतपस्विकण्टकं तपस्विनामुद्धर तं भयावहम्
Verse 33
तमेव हत्वा सबलं सबान्धवं विरावणं रावणमग्य्रपौरुषम् स्वर्लोकमागच्छ गतज्वरश्चिरं सुरेन्द्रगुप्तं गतदोषकल्मषम्
0:000:00
Speed: