Book 1 • Chapter 16
Sarga 16
32 verses
Verse 1
ततो नारायणो देवो नियुक्तस्सुरसत्तमै: जानन्नपि सुरानेवं श्लक्ष्णं वचनमब्रवीत्
Verse 2
उपाय: को वधे तस्य रावणस्य दुरात्मन: यमहं तं समास्थाय निहन्यामृषिकण्टकम्
Verse 3
एवमुक्तास्सुरास्सर्वे प्रत्यूचुर्विष्णुमव्ययम् मानुषीं तनुमास्थाय रावणं जहि संयुगे
Verse 4
स हि तेपे तपस्तीव्रं दीर्घकालमरिन्दम येन तुष्टोऽभवद्ब्रह्मा लोककृल्लोकपूर्वज:
Verse 5
सन्तुष्ट: प्रददौ तस्मै राक्षसाय वरं प्रभु: 04 नानाविधेभ्यो भूतेभ्यो भयं नान्यत्र मानुषात् अवज्ञाता: पुरा तेन वरदाने हि मानवा: 105
Verse 6
एवं पितामहात्तस्माद्वरं प्राप्य स दर्पित: उत्सादयति लोकान्त्रीन् स्त्रियश्चाप्यपकर्षति तस्मात्तस्य वधो दृष्टो मानुषेभ्य: परन्तप
Verse 7

Verse 8
इत्येतद्वचनं श्रुत्वा सुराणां विष्णुरात्मवान् पितरं रोचयामास तदा दशरथं नृपम्
Verse 9
स चाप्यपुत्रो नृपतिस्तस्मिन्काले महाद्युति: अयजत्पुत्रियामिष्टिं पुत्रेप्सुररिसूदन:
Verse 10
स कृत्वा निश्चयं विष्णुरामन्त्र्य च पितामहम् अन्तर्धानं गतो देवै: पूज्यमानो महर्षिभि:
Verse 11
तो वै यजमानस्य पावकादतुलप्रभम् प्रादुर्भूतं महद्भूतं महावीर्यं महाबलम् कृष्णं रक्ताम्बरधरं रक्तास्यं दुन्दुभिस्वनम् स्निग्धहर्यक्षतनुजश्मश्रुप्रवरमूर्धजम् शुभलक्षणसम्पन्नं दिव्याभरणभूषितम् शैलशृङ्गसमुत्सेथं दृप्तशार्दूलविक्रमम् दिवाकरसमाकारं दीप्तानलशिखोपमम् तप्तजाम्बूनदमयीं राजतान्तपरिच्छदाम् दिव्यपायससम्पूर्णां पात्रीं पत्नीमिव प्रियाम् प्रगृह्य विपुलां दोर्भ्यां स्वयं मायामयीमिव
Verse 12

Verse 13

Verse 14

Verse 15

Verse 16
समवेक्ष्याब्रवीद्वाक्यमिदं दशरथं नृपम् प्राजापत्यं नरं विद्धि मामिहाभ्यागतं नृप
Verse 17
तत: परं तदा राजा प्रत्युवाच कृताञ्जलि: भगवन् स्वागतं तेऽस्तु किमहं करवाणि ते
Verse 18
अथो पुनरिदं वाक्यं प्राजापत्यो नरोऽब्रवीत् राजन्नर्चयता देवानद्य प्राप्तमिदं त्वया
Verse 19
इदं तु नृपशार्दूल पायसं देवनिर्मितम् प्रजाकरं गृहाण त्वं धन्यमारोग्यवर्धनम्
Verse 20
भार्याणामनुरूपाणामश्नीतेति प्रयच्छ वै तासु त्वं प्राप्स्यसे पुत्रान्यदर्थं यजसे नृप
Verse 21
तथेति नृपति: प्रीतश्शिरसा प्रतिगृह्यताम् पात्रीं देवान्नसम्पूर्णां देवदत्तां हिरण्मयीम्
Verse 22
अभिवाद्य च तद्भूतमद्भुतं प्रियदर्शनम् मुदा परमया युक्तश्चकाराभिप्रदक्षिणम्
Verse 23
ततो दशरथ: प्राप्य पायसं देवनिर्मितम् बभूव परमप्रीत: प्राप्य वित्तमिवाधन:
Verse 24
ततस्तदद्भुतप्रख्यं भूतं परमभास्वरम् संवर्तयित्वा तत्कर्म तत्रैवान्तरधीयत
Verse 25
हर्षरश्मिभिरुद्योतं तस्यान्त:पुरमाबभौ शारदस्याभिरामस्य चन्द्रस्येव नभोंऽशुभि:
Verse 26
सोऽन्त:पुरं प्रविश्यैव कौसल्यामिदमब्रवीत् पायसं प्रतिगृह्णीष्व पुत्रीयं त्विदमात्मन:
Verse 27
कौसल्यायै नरपति: पायसार्धं ददौ तदा अर्धादर्धं ददौ चापि सुमित्रायै नराधिप: कैकेय्यै चावशिष्टार्धं ददौ पुत्रार्थकारणात् प्रददौ चावशिष्टार्धं पायसस्यामृतोपमम् अनुचिन्त्य सुमित्रायै पुनरेव महीपति: एवं तासां ददौ राजा भार्याणां पायसं पृथक्
Verse 28

Verse 29

Verse 30
तास्त्वेतत्पायसं प्राप्य नरेन्द्रस्योत्तमास्स्त्रय: सम्मानं मेनिरे सर्वां: प्रहर्षोदितचेतस:
Verse 31
ततस्तु ता: प्राश्य तदुत्तमास्त्रियो महीपतेरुत्तमपायसं पृथक् हुताशनादित्यसमानतेजसो ऽचिरेण गर्भान्प्रतिपेदिरे तदा
Verse 32
ततस्तु राजा प्रसमीक्ष्य ता: स्त्रिय: प्ररूढगर्भा: प्रतिलब्धमानस: बभूव हृष्टस्त्रिदिवे यथा हरि: सुरेन्द्रसिद्धर्षिगणाभिपूजित:
0:000:00
Speed: