Book 1 • Chapter 17
Sarga 17
35 verses
Verse 1
पुत्रत्वं तु गते विष्णौ राज्ञस्तस्य सुमहात्मन: उवाच देवतास्सर्वास्स्वयम्भूर्भगवानिदम्
Verse 2
सत्यसन्धस्य वीरस्य सर्वेषान्नो हितैषिण: विष्णोस्सहायान्बलिनस्सृजध्वं कामरूपिण:
Verse 3
मायाविदश्च शूरांश्च वायुवेगसमाञ्जवे नयज्ञान्बुद्धिसम्पन्नान्विष्णुतुल्यपराक्रमान् असंहार्यानुपायज्ञान् दिव्यसंहननान्वितान् सर्वास्त्रगुणसम्पन्नानमृतप्राशनानिव अप्सरस्सु च मुख्यासु गन्धर्वाणां तनूषु च सृजध्वं हरिरूपेण पुत्रांस्तुल्यपराक्रमान्
Verse 4

Verse 5

Verse 6
पूर्वमेव मया सृष्टो जाम्बवानृक्षपुङ्गव: जृम्भमाणस्य सहसा मम वक्त्रादजायत
Verse 7
ते तथोक्ता भगवता तत्प्रतिश्रुत्य शासनम् जनयामासुरेवं ते पुत्रान्वानररूपिण:
Verse 8
ऋषयश्च महात्मानस्सिद्धविद्याधरोरगा: चारणाश्च सुतान्वीरान्ससृजुर्वनचारिण:
Verse 9
वानरेन्द्रं महेन्द्राभमिन्द्रो वालिनमूर्जितम् सुग्रीवं जनयामास तपनस्तपतां वर:
Verse 10
बृहस्पतिस्त्वजनयत्तारं नाम महाहरिम् सर्ववानरमुख्यानां बुद्धिमन्तमनुत्तमम्
Verse 11
धनदस्य सुतश्श्रीमान् वानरो गन्धमादन: विश्वकर्मात्वजनयन्नलं नाम महाहरिम्
Verse 12
पावकस्य सुतश्श्रीमान् नीलोऽग्निसदृशप्रभ: तेजसा यशसा वीर्यादत्यरिच्यत वानरान्
Verse 13
रूपद्रविणसम्पन्नावश्विनौ रूपसम्मतौ मैन्दं च द्विविदं चैव जनयामासतुस्स्वयम्
Verse 14
वरुणो जनयामास सुषेणं वानरर्षभम् शरभं जनयामास पर्जन्यस्तु महाबलम्
Verse 15
मारुतस्यात्मजश्श्रीमान्हनुमान्नाम वीर्यवान् वज्रसंहननोपेतो वैनतेयसमो जवे
Verse 16
ते सृष्टा बहुसाहस्रा दशग्रीववधे रता: अप्रमेयबला वीरा विक्रान्ता: कामरूपिण:
Verse 17
मेरुमन्दरसङ्काशा वपुष्मन्तो महाबला: ऋक्षवानरगोपुच्छा: क्षिप्रमेवाभिजज्ञिरे
Verse 18
यस्य देवस्य यद्रूपं वेषो यश्च पराक्रम: अजायत समस्तेन तस्य तस्य सुत: पृथक्
Verse 19
गोलाङ्गूलीषु चोत्पन्ना: केचित्सम्मतविक्रमा: ऋक्षीषु च तथा जाता वानरा: किन्नरीषु च
Verse 20
देवा महर्षिगन्धर्वास्तार्क्ष्या यक्षा यशस्विन: नागा: किम्पुरुषाश्चैव सिद्धविद्याधरोरगा: बहवो जनयामासुर्हृष्टास्तत्र सहस्रश: वानरान्सुमहाकायान्सर्वान्वै वनचारिण: अप्सरस्सु च मुख्यासु तथा विद्याधरीषु च नागकन्यासु च तथा गन्धर्वीणां तनूषु च
Verse 21

Verse 22

Verse 23
कामरूपबलोपेता यथाकामं विचारिण: सिंहशार्दूलसदृशा दर्पेण च बलेन च
Verse 24
शिलाप्रहरणास्सर्वे सर्वे पादपयोधिन: नखदंष्ट्रायुधास्सर्वे सर्वे सर्वास्त्रकोविदा:
Verse 25
विचालयेयुश्शैलेन्द्रान्भेदयेयुस्स्थिरान्द्रुमान् क्षोभयेयुश्च वेगेन समुद्रं सरितां पतिम्
Verse 26
दारयेयु: क्षितिं पद्भ्यामाप्लवेयुर्महार्णवम् नभ:स्थलम् विशेयुश्च गृह्णीयुरपि तोयदान्
Verse 27
गृह्णीयुरपि मातङ्गान्मत्तान्प्रव्रजतो वने नर्दमानाश्च नादेन पातयेयुर्विहङ्गमान्
Verse 28
ईदृशानां प्रसूतानि हरीणां कामरूपिणाम् शतं शतसहस्राणि यूथपानां महात्मनाम्
Verse 29
ते प्रधानेषु यूथेषु हरीणां हरियूथपा: बभूवुर्यूथपश्रेष्ठा वीरांश्चाजनयन् हरीन्
Verse 30
अन्ये ऋक्षवत: प्रस्थानवतस्थु स्सहस्रश: अन्ये नानाविधान्शैलान्भेजिरे काननानि च
Verse 31
सूर्यपुत्रं च सुग्रीवं शक्रपुत्रं च वालिनम् भ्रातरावुपतस्थुस्ते सर्व एव हरीश्वरा: नलं नीलं हनूमन्तमन्यांश्च हरियूथपान् 3
Verse 32
ते तार्क्ष्यबलसम्पन्नास्सर्वे युद्धविशारदा: विचरन्तोऽर्दयन्दर्पात्सिंहव्याघ्रमहोरगान्
Verse 33
तांश्च सर्वान्महाबाहुर्वाली विपुलविक्रम: जुगोप भुजवीर्येण ऋक्षगोपुच्छवानरान्
Verse 34
तैरियं पृथिवी शूरैस्सपर्वतवनार्णवा कीर्णा विविधसंस्थानैर्नानाव्यञ्जनलक्षणै:
Verse 35
तैर्मेघबृन्दाचलकूटकल्पै: महाबलैर्वानरयूथपालै: बभूव भूर्भीमशरीररूपै स्समावृता रामसहायहेतो:
0:000:00
Speed: