🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 1 • Chapter 18

Sarga 18

58 verses

Verse 1
निर्वृत्ते तु क्रतौ तस्मिन्हयमेधे महात्मन: प्रतिगृह्य सुरा भागान्प्रतिजग्मुर्यथागतम्
Verse 2
समाप्तदीक्षानियम: पत्नीगणसमन्वित: प्रविवेश पुरीं राजा सभृत्यबलवाहन:
Verse 3
यथार्हं पूजितास्तेन राज्ञा वै पृथिवीश्वरा: मुदिता: प्रययुर्देशान्प्रणम्य मुनिपुङ्गवम्
Verse 4
श्रीमतां गच्छतां तेषां स्वपुराणि पुरात्तत: बलानि राज्ञां शुभ्राणि प्रहृष्टानि चकाशिरे
Verse 5
गतेषु पृथिवीशेषु राजा दशरथस्तदा प्रविवेश पुरीं श्रीमान् पुरस्कृत्य द्विजोत्तमान्
Verse 6
शान्तया प्रययौ सार्धमृश्यशृङ्गस्सुपूजित: अन्वीयमानो राज्ञाऽथ सानुयात्रेण धीमता
Verse 7
एवं विसृज्य तान्सर्वान्राजा सम्पूर्णमानस: उवास सुखितस्तत्र पुत्रोत्पत्तिं विचिन्तयन्
Verse 8
ततो यज्ञे समाप्ते तु ऋतूनां षट्समत्ययु: ततश्च द्वादशे मासे चैत्रे नावमिके तिथौ नक्षत्रेऽदितिदैवत्ये स्वोच्चसंस्थेषु पञ्चसु ग्रहेषु कर्कटे लग्ने वाक्पताविन्दुना सह प्रोद्यमाने जगन्नाथं सर्वलोकनमस्कृतम् कौसल्याऽजनयद्रामं सर्वलक्षणसंयुतम् विष्णोरर्धं महाभागं पुत्रमैक्ष्वाकुवर्धनम्
Verse 9

Verse 10

Verse 11
कौसल्या शुशुभे तेन पुत्रेणामिततेजसा यथा वरेण देवानामदितिर्वज्रपाणिना
Verse 12
भरतो नाम कैकेय्यां जज्ञे सत्यपराक्रम: साक्षाद्विष्णोश्चतुर्भागस्सर्वैस्समुदितो गुणै:
Verse 13
अथ लक्ष्मणशत्रुघ्नौ सुमित्राऽजनयत्सुतौ वीरौ सर्वास्त्रकुशलौ विष्णोरर्धसमन्वितौ
Verse 14
पुष्ये जातस्तु भरतो मीनलग्ने प्रसन्नधी: सार्पे जातौ  सौमित्री कुलीरेऽभ्युदिते रवौ
Verse 15
राज्ञ: पुत्रा महात्मानश्चत्वारो जज्ञिरे पृथक् गुणवन्तोऽनुरूपाश्च रुच्या प्रोष्ठपदोपमा:
Verse 16
जगु: कलं  गन्धर्वा ननृतुश्चाप्सरोगणा: देवदुन्दुभयो नेदु: पुष्पवृष्टिश्च खाच्च्युता उत्सवश्च महानासीदयोध्यायां जनाकुल:
Verse 17
जगु: कलं  गन्धर्वा ननृतुश्चाप्सरोगणा: देवदुन्दुभयो नेदु: पुष्पवृष्टिश्च खाच्च्युता उत्सवश्च महानासीदयोध्यायां जनाकुल:
Verse 18
रथ्याश्च जनसम्बाधा नटनर्तकसङ्कुला: गायनैश्च विराविण्यो वादनैश्च तथाऽपरै:
Verse 19
प्रदेयांश्च ददौ राजा सूतमागधवन्दिनाम् ब्राह्मणेभ्यो ददौ वित्तं गोधनानि सहस्रश:
Verse 20
अतीत्यैकादशाहं तु नामकर्म तथाऽकरोत् ज्येष्ठं रामं महात्मानं भरतं कैकयीसुतम् सौमित्रिं लक्ष्मणमिति शत्रुघ्नमपरं तथा वसिष्ठ: परमप्रीतो नामानि कृतवान् तदा
Verse 21
अतीत्यैकादशाहं तु नामकर्म तथाऽकरोत् ज्येष्ठं रामं महात्मानं भरतं कैकयीसुतम् सौमित्रिं लक्ष्मणमिति शत्रुघ्नमपरं तथा वसिष्ठ: परमप्रीतो नामानि कृतवान् तदा
Verse 22
ब्राह्मणान्भोजयामास पौराञ्जानपदानपि अददाद्ब्रह्मणानां  रत्नौघममितं बहु तेषां जन्मक्रियादीनि सर्वकर्माण्यकारयत्
Verse 23
तेषां केतुरिव ज्येष्ठो रामो रतिकर: पितु: बभूव भूयो भूतानां स्वयम्भूरिव सम्मत:
Verse 24
सर्वे वेदविदश्शूरास्सर्वे लोकहिते रता: सर्वे ज्ञानोपसम्पन्नास्सर्वे समुदिता गुणै:
Verse 25
तेषामपि महातेजा रामस्सत्यपराक्रम: इष्टस्सर्वस्य लोकस्य शशाङ्क इव निर्मल:
Verse 26
गजस्कन्धेऽश्वपृष्ठे  रथचर्यासु सम्मत: धनुर्वेदे  निरत: पितृशुश्रूषणे रत:
Verse 27
बाल्यात्प्रभृति सुस्निग्धो लक्ष्मणो लक्ष्मिवर्धन: रामस्य लोकरामस्य भ्रातुर्ज्येष्ठस्य नित्यश:
Verse 28
सर्वप्रियकरस्तस्य रामस्यापि शरीरत: लक्ष्मणो लक्ष्मिसम्पन्नो बहि:प्राण इवापर:
Verse 29
  तेन विना निद्रां लभते पुरुषोत्तम: मृष्टमन्नमुपानीतमश्नाति  हि तं विना
Verse 30
यदा हि हयमारूढो मृगयां याति राघव: तदैनं पृष्ठतोऽन्वेति सधनु: परिपालयन्
Verse 31
भरतस्यापि शत्रुघ्नो लक्ष्मणावरजो हि स: प्राणै: प्रियतरो नित्यं तस्य चासीत्तथा प्रिय:
Verse 32
 चतुर्भिर्महाभागै:पुत्रैर्दशरथ: प्रियै: बभूव परमप्रीतो देवैरिव पितामह:
Verse 33
ते यदा ज्ञानसम्पन्नास्सर्वैस्समुदिता गुणै: ह्रीमन्त: कीर्तिमन्तश्च सर्वज्ञा दीर्घदर्शिन: तेषामेवं प्रभावानां सर्वेषां दीप्ततेजसाम् पिता दशरथो हृष्टो ब्रह्मा लोकाधिपो यथा
Verse 34
ते यदा ज्ञानसम्पन्नास्सर्वैस्समुदिता गुणै: ह्रीमन्त: कीर्तिमन्तश्च सर्वज्ञा दीर्घदर्शिन: तेषामेवं प्रभावानां सर्वेषां दीप्ततेजसाम् पिता दशरथो हृष्टो ब्रह्मा लोकाधिपो यथा
Verse 35
ते चापि मनुजव्याघ्रा वैदिकाध्ययने रता: पितृशुश्रूषणरता धनुर्वेदे  निष्ठिता:
Verse 36
अथ राजा दशरथस्तेषां दारक्रियां प्रति चिन्तयामास धर्मात्मा सोपाध्यायस्सबान्धव:
Verse 37
तस्य चिन्तयमानस्य मन्त्रिमध्ये महात्मन: अभ्यगच्छन्महातेजा विश्वामित्रो महामुनि:
Verse 38
 राज्ञो दर्शनाकाङ्क्षी द्वाराध्यक्षानुवाच  शीघ्रमाख्यात मां प्राप्तं कौशिकं गाधिनस्सुतम्
Verse 39
तच्छ्रुत्वा वचनं त्रासाद्राज्ञो वेश्म प्रदुद्रुवु: सम्भ्रान्तमनसस्सर्वे तेन वाक्येन चोदिता:
Verse 40
ते गत्वा राजभवनं विश्वामित्रमृषिं तदा प्राप्तमावेदयामासुर्नृपायैक्ष्वाकवे तदा
Verse 41
तेषां तद्वचनं श्रुत्वा सपुरोधास्समाहित: प्रत्युज्जगाम तं हृष्टो ब्रह्माणमिव वासव:
Verse 42
तं दृष्ट्वा ज्वलितं दीप्त्या तापसं संशितव्रतम् प्रहृष्टवदनो राजा ततोऽर्घ्यमुपहारयत्
Verse 43
 राज्ञ: प्रतिगृह्यार्घ्यं शास्त्रदृष्टेन कर्मणा कुशलं चाव्ययं चैव पर्यपृच्छन्नराधिपम् 2
Verse 44
पुरे कोशे जनपदे बान्धवेषु सुहृत्सु  कुशलं कौशिको राज्ञ: पर्यपृच्छत्सुधार्मिक:
Verse 45
अपि ते सन्नतास्सर्वे सामन्ता रिपवो जिता: दैवं  मानुषं चापि कर्म ते साध्वनुष्ठितम्
Verse 46
वसिष्ठं  समागम्य कुशलं मुनिपुङ्गव: ऋषींश्च तान्यथान्यायं महाभागानुवाच 
Verse 47
ते सर्वे हृष्टमनसस्तस्य राज्ञो निवेशनम् विविशु: पूजितास्तत्र निषेदुश्च यथार्हत:
Verse 48
अथ हृष्टमना राजा विश्वामित्रं महामुनिम् उवाच परमोदारो हृष्टस्तमभिपूजयन्
Verse 49
यथाऽमृतस्य सम्प्राप्तिर्यथावर्षमनूदके यथा सदृशदारेषु पुत्रजन्माऽप्रजस्य  प्रणष्टस्य यथालाभो यथा हर्षो महोदये तथैवागमनं मन्ये स्वागतं ते महामुने
Verse 50
यथाऽमृतस्य सम्प्राप्तिर्यथावर्षमनूदके यथा सदृशदारेषु पुत्रजन्माऽप्रजस्य  प्रणष्टस्य यथालाभो यथा हर्षो महोदये तथैवागमनं मन्ये स्वागतं ते महामुने
Verse 51
कं  ते परमं कामं करोमि किमु हर्षित: पात्रभूतोऽसि मे ब्रह्मन्दिष्टया प्राप्ताऽसि कौशिक अद्य मे सफलं जन्म जीवितं  सुजीवितम्
Verse 52
कं  ते परमं कामं करोमि किमु हर्षित: पात्रभूतोऽसि मे ब्रह्मन्दिष्टया प्राप्ताऽसि कौशिक अद्य मे सफलं जन्म जीवितं  सुजीवितम्
Verse 53
पूर्वं राजर्षिशब्देन तपसा द्योतितप्रभः ब्रह्मर्षित्वमनुप्राप्त: पूज्योऽसि बहुधा मया
Verse 54
तदद्भुतमिदं ब्रह्मन्पवित्रं परमं मम शुभक्षेत्रगतश्चाहं तव सन्दर्शनात्प्रभो
Verse 55
ब्रूहि यत्प्रार्थितं तुभ्यं कार्यमागमनं प्रति इच्छाम्यनुगृहीतोऽहं त्वदर्थपरिवृद्धये
Verse 56
कार्यस्य  विमर्शं  गन्तुमर्हसि कौशिक कर्ता चाहमशेषेण दैवतं हि भवान्मम
Verse 57
मम चायमनुप्राप्तो महानभ्युदयो द्विज तवागमनज: कृत्स्नो धर्मश्चानुत्तमो मम
Verse 58
इति हृदयसुखं निशम्य वाक्यं श्रुतिसुखमात्मवता विनीतमुक्तम् प्रथितगुणयशा गुणैर्विशिष्ट: परमऋषि: परमं जगाम हर्षम्
0:000:00
Speed: