Book 1 • Chapter 19
Sarga 19
21 verses
Verse 1
तच्छ्रुत्वा राजसिंहस्य वाक्यमद्भुतविस्तरम् हृष्टरोमा महातेजा विश्वामित्रोऽभ्यभाषत
Verse 2
सदृशं राजशार्दूल तवैतद्भुवि नान्यथा महावंशप्रसूतस्य वसिष्ठव्यपदेशिन:
Verse 3
यत्तु मे हृद्गतं वाक्यं तस्य कार्यस्य निश्चयम् कुरूष्व राजशार्दूल भव सत्यप्रतिश्रव:
Verse 4
अहंनियममातिष्ठे सिध्यर्थं पुरुषर्षभ तस्य विघ्नकरौ द्वौ तु राक्षसौ कामरूपिणौ
Verse 5
व्रते मे बहुशश्चीर्णे समाप्त्यां राक्षसाविमौ मारीचश्च सुबाहुश्च वीर्यवन्तौ सुशिक्षितौ समांसरुधिरौघेण वेदिं तामभ्यवर्षताम्
Verse 6
अवधूते तथाभूते तस्मिन्नियमनिश्चये कृतश्रमो निरुत्साहस्तस्माद्देशादपाक्रमे
Verse 7
न च मे क्रोधमुत्स्रष्टुं बुद्धिर्भवति पार्थिव तथा भूता हि सा चर्या न शापस्तत्र मुच्यते
Verse 8
स्वपुत्रं राजशार्दूल रामं सत्यपराक्रमम् काकपक्षधरं शूरं ज्येष्ठं मे दातुमर्हसि
Verse 9
शक्तो ह्येष मया गुप्तो दिव्येन स्वेन तेजसा राक्षसा ये विकर्तारस्तेषामपि विनाशने
Verse 10
श्रेयश्चास्मै प्रदास्यामि बहुरूपं न संशय: त्रयाणामपि लोकानां येन ख्यातिं गमिष्यति
Verse 11
न च तौ राममासाद्य शक्तौ स्थातुं कथञ्चन न च तौ राघवादन्यो हन्तुमुत्सहते पुमान्
Verse 12
वीर्योत्सिक्तौ हि तौ पापौ कालपाशवशं गतौ रामस्य राजशार्दूल न पर्याप्तौ महात्मन:
Verse 13
न च पुत्रकृतस्नेहं कर्तुमर्हसि पार्थिव अहं ते प्रतिजानामि हतौ तौ विद्धि राक्षसौ
Verse 14
अहं वेद्मि महात्मानं रामं सत्यपराक्रमम् वसिष्ठोऽपि महातेजा ये चेमे तपसि स्थिता:
Verse 15
यदि ते धर्मलाभं च यशश्च परमं भुवि स्थितमिच्छसि राजेन्द्र रामं मे दातुमर्हसि
Verse 16
यदिह्यनुज्ञां काकुत्स्थ ददते तव मन्त्रिण: वसिष्ठप्रमुखा: सर्वे ततो रामं विसर्जय
Verse 17
अभिप्रेतमसंसक्तमात्मजं दातुमर्हसि दशरात्रं हि यज्ञस्य रामं राजीवलोचनम्
Verse 18
नात्येति कालो यज्ञस्य यथाऽयं मम राघव तथा कुरुष्व भद्रं ते मा च शोके मन: कृथा:
Verse 19
इत्येवमुक्त्वा धर्मात्मा धर्मार्थसहितं वच: विरराम महातेजा विश्वामित्रो महामुनि:
Verse 20
स तन्निशम्य राजेन्द्रो विश्वामित्रवचश्शुभम् शोकमभ्यगमत्तीव्रं व्यषीदत भयान्वित:
Verse 21
इति हृदयमनोविदारणं मुनिवचनं तदतीव शुश्रुवान् नरपतिरभवन्महांस्तदा व्यथितमना: प्रचचाल चासनात्
0:000:00
Speed: