🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 1 • Chapter 20

Sarga 20

27 verses

Verse 1
तच्छ्रुत्वा राजशार्दूलो विश्वामित्रस्य भाषितम् मुहूर्तमिव निस्संज्ञस्संज्ञावानिदमब्रवीत्
Verse 2
ऊनषोडशवर्षो मे रामो राजीवलोचन:  युद्धयोग्यतामस्य पश्यामि सह राक्षसै:
Verse 3
इयमक्षौहिणी पूर्णा यस्याहं पतिरीश्वर: अनया संवृतो गत्वा योद्धाऽहं तैर्निशाचरै:
Verse 4
इमे शूराश्च विक्रान्ता भृत्या मेऽस्त्रविशारदा: योग्या रक्षोगणैर्योद्धुं  रामं नेतुमर्हसि
Verse 5
अहमेव धनुष्पाणिर्गोप्ता समरमूर्धनि यावत्प्राणान्धरिष्यामि तावद्योत्स्ये निशाचरै:
Verse 6
निर्विघ्ना व्रतचर्या सा भविष्यति सुरक्षिता अहं तत्रागमिष्यामि  रामं नेतुमर्हसि
Verse 7
बालो ह्यकृतविद्यश्च   वेत्ति बलाबलम्  चास्त्रबलसंयुक्तो   युद्धविशारद:  चासौ रक्षसां योग्य: कूटयुद्धा हि ते ध्रुवम्
Verse 8
विप्रयुक्तो हि रामेण मुहूर्तमपि नोत्सहे जीवितुं मुनिशार्दूल  रामं नेतुमर्हसि
Verse 9
यदि वा राघवं ब्रह्मन्नेतुमिच्छसि सुव्रत चतुरङ्गसमायुक्तं मया  सहितं नय
Verse 10
षष्टिर्वर्षसहस्राणि जातस्य मम कौशिक दु:खेनोत्पादितश्चायं  रामं नेतुमर्हसि
Verse 11
चतुर्णामात्मजानां हि प्रीति:परमिका मम ज्येष्ठं धर्मप्रधानं   रामं नेतुमर्हसि
Verse 12
किंवीर्या राक्षसास्ते  कस्य पुत्राश्च ते  के कथं प्रमाणा: के चैतान्रक्षन्ति मुनिपुङ्गव
Verse 13
कथं  प्रतिकर्तव्यं तेषां रामेण रक्षसाम् मामकैर्वा बलैर्ब्रह्मन्मया वा कूटयोधिनाम् 3
Verse 14
सर्वं मे शंस भगवन्कथं तेषां मया रणे स्थातव्यं दुष्टभावानां वीर्योत्सिक्ता हि राक्षसा: 4 तस्य तद्वचनं श्रुत्वा विश्वामित्रोऽभ्यभाषत
Verse 15
सर्वं मे शंस भगवन्कथं तेषां मया रणे स्थातव्यं दुष्टभावानां वीर्योत्सिक्ता हि राक्षसा: 4 तस्य तद्वचनं श्रुत्वा विश्वामित्रोऽभ्यभाषत
Verse 16
पौलस्त्यवंशप्रभवो रावणो नाम राक्षस:  ब्रह्मणा दत्तवरस्त्रैलोक्यं बाधते भृशम् महाबलो महावीर्यो राक्षसैर्बहुभिर्वृत:
Verse 17
श्रूयते हि महावीर्यो रावणो राक्षसाधिप: साक्षाद्वैश्रवणभ्राता पुत्रो विश्रवसो मुने:
Verse 18
यदा स्वयं  यज्ञस्य विघ्नकर्ता महाबल: तेन सञ्चोदितौ द्वौ तु राक्षसौ वै महाबलौ मारीचश्च सुबाहुश्च यज्ञविघ्नं करिष्यत:
Verse 19
यदा स्वयं  यज्ञस्य विघ्नकर्ता महाबल: तेन सञ्चोदितौ द्वौ तु राक्षसौ वै महाबलौ मारीचश्च सुबाहुश्च यज्ञविघ्नं करिष्यत:
Verse 20
इत्युक्तो मुनिना तेन राजोवाच मुनिं तदा  हि शक्तोऽस्मि सङ्ग्रामे स्थातुं तस्य दुरात्मन:
Verse 21
 त्वं प्रसादं धर्मज्ञ कुरुष्व मम पुत्रके मम चैवाल्पभाग्यस्य दैवतं हि भवान्गुरु:
Verse 22
देवदानवगन्धर्वा यक्षा:पतगपन्नगा:  शक्ता रावणं सोढुं किं पुनर्मानवा युधि
Verse 23
 हि वीर्यवतां वीर्यमादत्ते युधि राक्षस: तेन चाहं  शक्तोऽस्मि संयोद्धुं तस्य वा बलै: सबलो वा मुनिश्रेष्ठ सहितो वा ममात्मजै:
Verse 24
कथमप्यमरप्रख्यं सङ्ग्रामाणामकोविदम् बालं मे तनयं ब्रह्मन् नैव दास्यामि पुत्रकम्
Verse 25
अथ कालोपमौ युध्दे सुतौ सुन्दोपसुन्दयो: यज्ञविघ्नकरौ तौ ते नैव दास्यामि पुत्रकम्
Verse 26
मारीचश्च सुबाहुश्च वीर्यवन्तौ सुशिक्षितौ तयोरन्यतरेणाहं योध्दा स्यां ससुहृद्गण:
Verse 27
इति नरपतिजल्पनाद्द्विजेन्द्रं कुशिकसुतं सुमहान्विवेश मन्यु: सुहुत इव मखेऽग्निराज्यसिक्त स्समभवदुज्ज्वलितो महर्षिवह्नि:
0:000:00
Speed: