Book 1 • Chapter 21
Sarga 21
21 verses
Verse 1
तच्छ्रुत्वा वचनं तस्य स्नेहपर्याकुलाक्षरम् समन्यु: कौशिको वाक्यं प्रत्युवाच महीपतिम्
Verse 2
पूर्वमर्थं प्रतिश्रुत्य प्रतिज्ञां हातुमिच्छसि राघवाणामयुक्तोऽयं कुलस्यास्य विपर्यय:
Verse 3
यदीदं ते क्षमं राजन् गमिष्यामि यथाऽगतम् मिथ्याप्रतिज्ञ: काकुत्स्थ सुखीभव सबान्धव:
Verse 4
तस्य रोषपरीतस्य विश्वामित्रस्य धीमत: चचाल वसुधा कृत्स्ना विवेश च भयं सुरान्
Verse 5
त्रस्तरूपं तु विज्ञाय जगत्सर्वं महानृषि: नृपतिं सुव्रतो धीरो वसिष्ठो वाक्यमब्रवीत्
Verse 6
इक्ष्वाकूणां कुले जातस्साक्षाद्धर्म इवापर: धृतिमान् सुव्रत: श्रीमान्नधर्मं हातुमर्हसि
Verse 7
त्रिषु लोकेषु विख्यातो धर्मात्मा इति राघव स्वधर्मं प्रतिपद्यस्व नाधर्मं वोढुमर्हसि
Verse 8
संश्रुत्यैवं करिष्यामीत्यकुर्वाणस्य राघव इष्टापूर्तवधो भूयात्तस्माद्रामं विसर्जय
Verse 9
कृतास्त्रमकृतास्त्रं वा नैनं शक्ष्यन्ति राक्षसा: गुप्तं कुशिकपुत्रेण ज्वलनेनामृतं यथा
Verse 10
एष विग्रहवान् धर्म एष वीर्यवतां वर: एष बुध्याऽधिको लोके तपसश्च परायणम्
Verse 11
एषोऽस्त्रान् विविधान्वेत्ति त्रैलोक्ये सचराचरे नैनमन्य: पुमान्वेत्ति न च वेत्स्यन्ति केचन
Verse 12
न देवा नर्षय: केचिन्नासुरा न च राक्षसा: गन्धर्वयक्षप्रवरास्सकिन्नरमहोरगा:
Verse 13
सर्वास्त्राणि भृशाश्वस्य पुत्रा: परमधार्मिका: कौशिकाय पुरा दत्ता यदा राज्यं प्रशासति
Verse 14
तेऽपि पुत्रा भृशाश्वस्य प्रजापतिसुतासुता: नैकरूपा महावीर्या दीप्तिमन्तो जयावहा:
Verse 15
जया च सुप्रभा चैव दक्षकन्ये सुमध्यमे ते सुवातेऽस्त्रशस्त्राणि शतं परमभास्वरम्
Verse 16
पञ्चाशतं सुतान् लेभे जया नाम परान् पुरा वधायासुरसैन्यानाममेयान् कामरूपिण:
Verse 17
सुप्रभाऽजनयच्चापि पुत्रान्पञ्चाशतं पुन: संहारान्नामदुर्धर्षान् दुराक्रामान् बलीयस:
Verse 18
तानि चास्त्राणि वेत्त्येष यथावत्कुशिकात्मज: अपूर्वाणां च जनने शक्तो भूयस्स धर्मवित्
Verse 19
एवं वीर्यो महातेजा विश्वामित्रो महायशाः न रामगमने राजन् संशयं कर्तुमर्हसि
Verse 20
तेषां निग्रहणे शक्तस्स्वयं च कुशिकात्मज: तव पुत्रहितार्थाय त्वामुपेत्याभियाचते
Verse 21
इति मुनिवचनात्प्रसन्नचित्तो रघुवृषभस्तु मुमोद भास्वराङ्ग: गमनमभिरुरोच राघवस्य प्रथितयशा: कुशिकात्मजाय बुध्या
0:000:00
Speed: