Book 1 • Chapter 22
Sarga 22
23 verses
Verse 1
तथा वसिष्ठे ब्रुवति राजा दशरथस्सुतम प्रहृष्टवदनो राममाजुहाव सलक्ष्मणम्
Verse 2
कृतस्वस्त्ययनं मात्रा पित्रा दशरथेन च पुरोधसा वसिष्ठेन मङ्गलैरभिमन्त्रितम् स पुत्रं मूर्ध्न्युपाघ्राय राजा दशरथ: प्रियम् ददौ कुशिकपुत्राय सुप्रीतेनान्तरात्मना
Verse 3
कृतस्वस्त्ययनं मात्रा पित्रा दशरथेन च पुरोधसा वसिष्ठेन मङ्गलैरभिमन्त्रितम् स पुत्रं मूर्ध्न्युपाघ्राय राजा दशरथ: प्रियम् ददौ कुशिकपुत्राय सुप्रीतेनान्तरात्मना
Verse 4
ततो वायुस्सुखस्पर्शो नीरजस्को ववौ तदा विश्वामित्रगतं दृष्ट्वा रामं राजीवलोचनम्
Verse 5
पुष्पवृष्टिर्महत्यासीद्देवदुन्दुभिनिस्वनै: शङ्खदुन्दुभिनिर्घोष: प्रयाते तु महात्मनि
Verse 6
विश्वामित्रो ययावग्रे ततो रामो धनुर्धर: काकपक्षधरो धन्वी तं च सौमित्रिरन्वगात्
Verse 7
कलापिनौ धनुष्पाणी शोभमानौ दिशो दश विश्वामित्रं महात्मानं त्रिशीर्षाविव पन्नगौ अनुजग्मतुरक्षुद्रौ पितामहमिवाश्विनौ
Verse 8
तदा कुशिकपुत्रं तु धनुष्पाणी स्वलङ्कृतौ बद्धगोधाङ्गुलित्राणौ खड्गवन्तौ महाद्युती कुमारौ चारुवपुषौ भ्रातरौ रामलक्ष्मणौ अनुयातौ श्रिया दीप्तौ शोभयेतामनिन्दितौ स्थाणुं देवमिवाचिन्त्यं कुमाराविव पावकी
Verse 9
तदा कुशिकपुत्रं तु धनुष्पाणी स्वलङ्कृतौ बद्धगोधाङ्गुलित्राणौ खड्गवन्तौ महाद्युती कुमारौ चारुवपुषौ भ्रातरौ रामलक्ष्मणौ अनुयातौ श्रिया दीप्तौ शोभयेतामनिन्दितौ स्थाणुं देवमिवाचिन्त्यं कुमाराविव पावकी
Verse 10
तदा कुशिकपुत्रं तु धनुष्पाणी स्वलङ्कृतौ बद्धगोधाङ्गुलित्राणौ खड्गवन्तौ महाद्युती कुमारौ चारुवपुषौ भ्रातरौ रामलक्ष्मणौ अनुयातौ श्रिया दीप्तौ शोभयेतामनिन्दितौ स्थाणुं देवमिवाचिन्त्यं कुमाराविव पावकी
Verse 11
अध्यर्धयोजनं गत्वा सरय्वा दक्षिणे तटे रामेति मधुरां वाणीं विश्वामित्रोऽभ्यभाषत
Verse 12
गृहाण वत्स सलिलं मा भूत्कालस्य पर्यय: मन्त्रग्रामं गृहाण त्वं बलामतिबलां तथा
Verse 13
न श्रमो न ज्वरो वा ते न रूपस्य विपर्यय: न च सुप्तं प्रमत्तं वा धर्षयिष्यन्ति नैऱृता:
Verse 14
न बाह्वोस्सदृशो वीर्ये पृथिव्यामस्ति कश्चन त्रिषु लोकेषु वै राम न भवेत्सदृशस्तव
Verse 15
न सौभाग्ये न दाक्षिण्ये न ज्ञाने बुद्धिनिश्चये नोत्तरे प्रतिवक्तव्ये समो लोके तवाऽनघ
Verse 16
एतद्विद्याद्वये लब्धे भविता नास्ति ते सम: बलात्वतिबला चैव सर्वज्ञानस्य मातरौ
Verse 17
क्षुत्पिपासे न ते राम भविष्येते नरोत्तम बलामतिबलां चैव पठत: पथि राघव
Verse 18
विद्याद्वयमधीयाने यशश्चाप्यतुलं त्वयि पितामहसुते ह्येते विद्ये तेजस्समन्विते प्रदातुं तव काकुत्स्थ सदृशस्त्वं हि धार्मिक
Verse 19
कामं बहुगुणास्सर्वे त्वय्येते नात्र संशय: तपसा सम्भृते चैते बहुरूपे भविष्यत:
Verse 20
ततो रामो जलं स्पृष्ट्वा प्रहृष्टवदनश्शुचि: प्रतिजग्राह ते विद्ये महर्षेर्भावितात्मन:
Verse 21
विद्यासमुदितो रामश्शुशुभे भूरिविक्रम: सहस्ररश्मिर्भगवान् शरदीव दिवाकर: गुरुकार्याणि सर्वाणि नियुज्य कुशिकात्मजे ऊषुस्तां रजनीं तत्र सरय्वां सुसुखं त्रय:
Verse 22
विद्यासमुदितो रामश्शुशुभे भूरिविक्रम: सहस्ररश्मिर्भगवान् शरदीव दिवाकर: गुरुकार्याणि सर्वाणि नियुज्य कुशिकात्मजे ऊषुस्तां रजनीं तत्र सरय्वां सुसुखं त्रय:
Verse 23
दशरथनृपसूनुसत्तमाभ्यां तृणशयनेऽनुचिते सहोषिताभ्याम् कुशिकसुतवचोऽनुलालिताभ्यां सुखमिव सा विबभौ विभावरी च
0:000:00
Speed: