Book 1 • Chapter 23
Sarga 23
22 verses
Verse 1
प्रभातायां तु शर्वर्यां विश्वामित्रो महामुनि: अभ्यभाषत काकुत्स्थौ शयानौ पर्णसंस्तरे
Verse 2
कौसल्या सुप्रजा राम पूर्वा सन्ध्या प्रवर्तते उत्तिष्ठ नरशार्दूल कर्तव्यं दैवमाह्निकम्
Verse 3
तस्यर्षे: परमोदारं वचश्श्रुत्वा नृपात्मजौ स्नात्वा कृतोदकौ वीरौ जेपतु: परमं जपम्
Verse 4
कृताह्निकौ महावीर्यौ विश्वामित्रं तपोधनम् अभिवाद्याभिसंहृष्टौ गमनायाभितस्थतु:
Verse 5
तौ प्रयातौ महावीर्यौ दिव्यां त्रिपथगां नदीम् ददृशाते ततस्तत्र सरय्वास्सङ्गमे शुभे
Verse 6
तत्राश्रमपदं पुण्यमृषीणामग्य्रतेजसाम् बहुवर्षसहस्राणि तप्यतां परमं तप:
Verse 7
तं दृष्ट्वा परमप्रीतौ राघवौ पुण्यमाश्रमम् ऊचतुस्तं महात्मानं विश्वामित्रमिदं वच:
Verse 8
कस्यायमाश्रम: पुण्य: कोन्वस्मिन्वसते पुमान् भगवन् श्रोतुमिच्छाव: परं कौतूहलं हि नौ
Verse 9
तयोस्तद्वचनं श्रुत्वा प्रहस्य मुनिपुङ्गव: अब्रवीच्छ्रूयतां राम यस्यायं पूर्व आश्रम:
Verse 10
कन्दर्पो मूर्तिमानासीत्काम इत्युच्यते बुधै: तपस्यन्तमिह स्थाणुं नियमेन समाहितम् कृतोद्वाहं तु देवेशं गच्छन्तं समरुद्गगणम् धर्षयामास दुर्मेधा हुङ्कृतश्च महात्मना
Verse 11
कन्दर्पो मूर्तिमानासीत्काम इत्युच्यते बुधै: तपस्यन्तमिह स्थाणुं नियमेन समाहितम् कृतोद्वाहं तु देवेशं गच्छन्तं समरुद्गगणम् धर्षयामास दुर्मेधा हुङ्कृतश्च महात्मना
Verse 12
अवदग्धस्य रौद्रेण चक्षुषा रघुनन्दन व्यशीर्यन्त शरीरात्स्वात्सर्वगात्राणि दुर्मते:
Verse 13
तस्य गात्रं हतं तत्र निर्दग्थस्य महात्मना अशरीर: कृत: काम: क्रोधाद्देवेश्वरेण हि
Verse 14
अनङ्ग इति विख्यातस्तदाप्रभृति राघव स चाङ्गविषयश्श्रीमान्यत्राङ्गं प्रमुमोच ह
Verse 15
तस्यायमाश्रम: पुण्यस्तस्येमे मुनय: पुरा शिष्या धर्मपरा नित्यं तेषां पापं न विद्यते
Verse 16
इहाद्य रजनीं राम वसेम शुभदर्शन पुण्ययोस्सरितोर्मध्ये श्वस्तरिष्यामहे वयम्
Verse 17
अभिगच्छामहे सर्वे शुचय: पुण्यमाश्रमम् स्नाताश्च कृतजप्याश्च हुतहव्या नरोत्तम
Verse 18
तेषां संवदतां तत्र तपोदीर्घेण चक्षुषा विज्ञाय परमप्रीता मुनयो हर्षमागमन्
Verse 19
अर्घ्यं पाद्यं तथाऽतिथ्यं निवेद्य कुशिकात्मजे रामलक्ष्मणयो: पश्चादकुर्वन्नतिथिक्रियाम्
Verse 20
सत्कारं समनुप्राप्य कथाभिरभिरञ्जयन् यथार्हमजपन् सन्ध्यामृषयस्ते समाहिता:
Verse 21
तत्र वासिभिरानीता मुनिभिस्सुव्रतै: सह न्यवसन् सुसुखं तत्र कामाश्रमपदे तदा
Verse 22
कथाभिरभिरामाभिरभिरामौ नृपात्मजौ रमयामास धर्मात्मा कौशिको मुनिपुङ्गव:
0:000:00
Speed: