🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 1 • Chapter 24

Sarga 24

32 verses

Verse 1
तत: प्रभाते विमले कृताह्निकमरिन्दमौ विश्वामित्रं पुरस्कृत्य नद्यास्तीरमुपागतौ
Verse 2
ते  सर्वे महात्मानो मुनयस्संश्रितव्रता: उपस्थाप्य शुभां नावं विश्वामित्रमथाब्रुवन्
Verse 3
आरोहतु भवान्नावं राजपुत्रपुरस्कृत: अरिष्टं गच्छ पन्थानं मा भूत्कालविपर्यय:
Verse 4
विश्वामित्रस्तथेत्युक्तवा तानृषीनभिपूज्य  ततार सहितस्ताभ्यां सरितं सागरङ्गमाम्
Verse 5
ततश्शुश्राव वै शब्दमतिसंरम्भवर्धितम् मध्यमागम्य तोयस्य सह राम:कनीयसा
Verse 6
अथ रामस्सरिन्मध्ये पप्रच्छ मुनिपुङ्गवम् वारिणो भिद्यमानस्य किमयं तुमुलो ध्वनि:
Verse 7
राघवस्य वचश्श्रुत्वा कौतूहलसमन्वित: कथयामास धर्मात्मा तस्य शब्दस्य निश्चयम्
Verse 8
कैलासपर्वते राम मनसा निर्मितं सर: ब्रह्मणा नरशार्दूल तेनेदं मानसं सर:
Verse 9
तस्मात्सुस्राव सरसस्सायोध्यामुपगूहते सर प्रवृत्ता सरयू: पुण्या ब्रह्मसरश्च्युता
Verse 10
तस्यायमतुलश्शब्दो जाह्नवीमभिवर्तते वारिसङ्क्षोभजो राम प्रणामं नियत:कुरु
Verse 11
ताभ्यां तु तावुभौ कृत्वा प्रणाममतिधार्मिकौ तीरं दक्षिणमासाद्य जग्मतुर्लघुविक्रमौ
Verse 12
 वनं घोरसङ्काशं दृष्ट्वा नृपवरात्मज: अविप्रहतमैक्ष्वाक: पप्रच्छ मुनिपुङ्गवम्
Verse 13
अहो वनमिदं दुर्गं झिल्लिकागणनादितम् भैरवैश्शपदै: पूर्णं शकुन्तैर्दारुणारुतै:
Verse 14
नानाप्रकारैश्शकुनै र्वाश्यद्भिर्भैरवस्वनै: सिंहव्याघ्रवराहैश्च वारणैश्चोपशोभितम्
Verse 15
धवाश्वकर्णककुभैर्बिल्वतिन्दुकपाटलै: सङ्कीर्णं बदरीभिश्च किन्न्वेतद्दारुणं वनम्
Verse 16
तमुवाच महातेजा विश्वामित्रो महामुनि: श्रूयतां वत्स काकुत्स्थ यस्यैतद्दारुणं वनम्
Verse 17
एतौ जनपदौ स्फीतौ पूर्वमास्तां नरोत्तम मलदाश्च करूशाश्च देवनिर्माणनिर्मितौ
Verse 18
पुरा वृत्रवधे राम मलेन समभिप्लुतम् क्षुधा चैव सहस्राक्षं ब्रह्महत्या समाविशत्
Verse 19
तमिन्द्रं स्नापयन् देवा ऋषयश्च तपोधना: कलशैस्स्नापयामासुर्मलं चास्य प्रमोचयन्
Verse 20
इह भूम्यां मलं दत्वा दत्वा कारूशमेव  शरीरजं महेन्द्रस्य ततो हर्षं प्रपेदिरे
Verse 21
निर्मलो निष्करूशश्च शुचिरिंन्द्रो यदाभवत् ददौ देशस्य सुप्रीतो वरं प्रभुरनुत्तमम्
Verse 22
इमौ जनपदौ स्फीतौ ख्यातिं लोके गमिष्यत: मलदाश्च करूशाश्च ममाङ्गमलधारिणौ
Verse 23
साधु साध्विति तं देवा: पाकशासनमब्रुवन् देशस्य पूजां तां दृष्ट्वा कृतां शक्रेण धीमता
Verse 24
एतौ जनपदौ स्फीतौ दीर्घकालमरिन्दम मलदाश्च करूशाश्च मुदितौ धनधान्यत:
Verse 25
कस्यचित्त्वथ कालस्य यक्षी वै कामरूपिणी बलं नागसहस्रस्य धारयन्ती तदा ह्यभूत् ताटका नाम भद्रं ते भार्या सुन्दस्य धीमत: 2 मारीचो राक्षस: पुत्रो यस्याश्शक्रपराक्रम:
Verse 26
कस्यचित्त्वथ कालस्य यक्षी वै कामरूपिणी बलं नागसहस्रस्य धारयन्ती तदा ह्यभूत् ताटका नाम भद्रं ते भार्या सुन्दस्य धीमत: 2 मारीचो राक्षस: पुत्रो यस्याश्शक्रपराक्रम:
Verse 27
वृत्तबाहुर्महावीर्यो विपुलास्य तनुर्महान् राक्षसो भैरवाकारो नित्यं त्रासयते प्रजा:
Verse 28
इमौ जनपदौ नित्यं विनाशयति राघव मलदांश्च करूशांश्च ताटका दुष्टचारिणी
Verse 29
सेयं पन्थानमावृत्य वसत्यध्यर्धयोजने अत एव  गन्तव्यं ताटकाया वनं यत:
Verse 30
स्वबाहुबलमाश्रित्य जहीमां दुष्टचारिणीम् मन्नियोगादिमं देशं कुरु निष्कण्टकं पुन:
Verse 31
 हि कश्चिदिमं देशं शक्नोत्यागन्तुमीदृशम् यक्षिण्या घोरया राम उत्सादितमसह्यया
Verse 32
एतत्ते सर्वमाख्यातं यथैतद्दारुणं वनम् यक्ष्या चोत्सादितं सर्वमद्यापि  निवर्तते
0:000:00
Speed: