Book 1 • Chapter 29
Sarga 29
31 verses
Verse 1
अथ तस्याप्रमेयस्य तद्वनं परिपृच्छत: विश्वामित्रो महातेजा व्याख्यातुमुपचक्रमे
Verse 2
इह राम महाबाहो विष्णुर्देववर: प्रभु: वर्षाणि सुबहूनीह तथा युगशतानि च तपश्चरणयोगार्थमुवास सुमहातपा:
Verse 3
एष पूर्वाश्रमो राम वामनस्य महात्मन: सिद्धाश्रम इति ख्यातस्सिद्धो ह्यत्र महातपा:
Verse 4
एतस्मिन्नेव काले तु राजा वैरोचनिर्बलि: निर्जित्य दैवतगणान् सेन्द्रांश्च समरुद्गणान् कारयामास तद्राज्यं त्रिषु लोकेषु विश्रुत:
Verse 5
एतस्मिन्नेव काले तु राजा वैरोचनिर्बलि: निर्जित्य दैवतगणान् सेन्द्रांश्च समरुद्गणान् कारयामास तद्राज्यं त्रिषु लोकेषु विश्रुत:
Verse 6
बलेस्तु यजमानस्य देवास्साग्निपुरोगमा: समागम्य स्वयं चैव विष्णुमूचुरिहाश्रमे
Verse 7
बलिर्वैरोचनिर्विष्णो यजते यज्ञमुत्तमम् असमाप्ते क्रतौ तस्मिन् स्वकार्यमभिपद्यताम्
Verse 8
ये चैनमभिवर्तन्ते याचितार इतस्तत: यच्च यत्र यथावच्च सर्वं तेभ्य: प्रयच्छति
Verse 9
स त्वं सुरहितार्थाय मायायोगमुपागत: वामनत्वं गतो विष्णो कुरु कल्याणमुत्तमम्
Verse 10
एतस्मिन्नन्तरे राम कश्यपोऽग्निसमप्रभ: अदित्या सहितो राम दीप्यमान इवौजसा देवीसहायो भगवान् दिव्यं वर्षसहस्रकम् व्रतं समाप्य वरदं तुष्टाव मधुसूदनम्
Verse 11
एतस्मिन्नन्तरे राम कश्यपोऽग्निसमप्रभ: अदित्या सहितो राम दीप्यमान इवौजसा देवीसहायो भगवान् दिव्यं वर्षसहस्रकम् व्रतं समाप्य वरदं तुष्टाव मधुसूदनम्
Verse 12
तपोमयं तपोराशिं तपोमूर्तिं तपात्मकम् तपसा त्वां सुतप्तेन पश्यामि पुरुषोत्तमम्
Verse 13
शरीरे तव पश्यामि जगत्सर्वमिदं प्रभो त्वमनादिरनिर्देश्यस्त्वामहं शरणं गत:
Verse 14
तमुवाच हरि: प्रीत: कश्यपं धूतकल्मषम् वरं वरय भद्रं ते वरार्होऽसि मतो मम
Verse 15
तच्छ्रुत्वा वचनं तस्य मारीच: कश्यपोऽब्रवीत् अदित्या देवतानां च मम चैवानुयाचत: वरं वरद सुप्रीतो दातुमर्हसि सुव्रत
Verse 16
पुत्रत्वं गच्छ भगवन्नदित्या मम चानघ भ्राता भव यवीयांस्त्वं शक्रस्यासुरसूदन शोकार्तानां तु देवानां साहाय्यं कर्तुमर्हसि
Verse 17
पुत्रत्वं गच्छ भगवन्नदित्या मम चानघ भ्राता भव यवीयांस्त्वं शक्रस्यासुरसूदन शोकार्तानां तु देवानां साहाय्यं कर्तुमर्हसि
Verse 18
अयं सिद्धाश्रमो नाम प्रसादा त्ते भविष्यति सिद्धे कर्मणि देवेश उत्तिष्ठ भगवन्नित:
Verse 19
अथ विष्णुर्महातेजा अदित्यां समजायत वामनं रूपमास्थाय वैरोचनिमुपागमत्
Verse 20
त्रीन् क्रमानथ भिक्षित्वा प्रतिगृह्य च मानद: आक्रम्य लोकान् लोकात्मा सर्वभूतहिते रत: महेन्द्राय पुन: प्रादान्नियम्य बलिमोजसा त्रैलोक्यं स महातेजाश्चक्रे शक्रवशं पुन:
Verse 21
त्रीन् क्रमानथ भिक्षित्वा प्रतिगृह्य च मानद: आक्रम्य लोकान् लोकात्मा सर्वभूतहिते रत: महेन्द्राय पुन: प्रादान्नियम्य बलिमोजसा त्रैलोक्यं स महातेजाश्चक्रे शक्रवशं पुन:
Verse 22
तेनैष पूर्वमाक्रान्त आश्रमश्श्रमनाशन: मयापि भक्तय तस्यैष वामनस्योपभुज्यते
Verse 23
एतमाश्रममायान्ति राक्षसा विघ्नकारिण: अत्रैव पुरुषव्याघ्र हन्तव्या दुष्टचारिण:
Verse 24
अद्य गच्छामहे राम सिद्धाश्रममनुत्तमम् तदाश्रमपदं तात तवाप्येतद्यथा मम
Verse 25
प्रविशन्नाश्रमपदं व्यरोचत महामुनि: शशीव गतनीहार: पुनर्वसुसमन्वित:
Verse 26
तं दृष्ट्वा मुनयस्सर्वे सिद्धाश्रमनिवासिन: उत्पत्त्योत्पत्त्य सहसा विश्वामित्रमपूजयन्
Verse 27
यथार्हं चक्रिरे पूजां विश्वामित्राय धीमते तथैव राजपुत्राभ्यामकुर्वन्नतिथिक्रियाम्
Verse 28
मुहूर्तमथ विश्रान्तौ राजपुत्रावरिन्दमौ प्राञ्जली मुनिशार्दूलमूचतू रघुनन्दनौ
Verse 29
अद्यैव दीक्षां प्रविश भद्रं ते मुनिपुङ्गव सिद्धाश्रमोऽयं सिद्धस्स्यात् सत्यमस्तु वचस्तव
Verse 30
एवमुक्तो महातेजा विश्वामित्रो महान् ऋषि: प्रविवेश तदा दीक्षां नियतो नियतेन्द्रिय:
Verse 31
कुमारावपि तां रात्रिमुषित्वा सुसमाहितौ प्रभातकाले चोत्थाय पूर्वां सन्ध्यामुपास्य च स्पृष्टोदकौ शुची जप्यं समाप्य नियमेन च हुताग्निहोत्रमासीनं विश्वामित्रमवन्दताम्
0:000:00
Speed: