Book 1 • Chapter 30
Sarga 30
24 verses
Verse 1
अथ तौ देशकालज्ञौ राजापुत्रावरिन्दमौ देशे काले च वाक्यज्ञावब्रूतां कौशिकं वच:
Verse 2
भगवन् श्रोतुमिच्छावो यस्मिन् काले निशाचरौ संरक्षणीयौ तौ ब्रह्मन्नातिवर्तेत तत्क्षणम्
Verse 3
एवं ब्रुवाणौ काकुत्स्थौ त्वरमाणौ युयुत्सया सर्वे ते मुनय: प्रीता: प्रशशंसुर्नृपात्मजौ
Verse 4
अद्यप्रभृति षड्रात्रं रक्षतं राघवौ युवाम् दीक्षां गतो ह्येष मुनिर्मौनित्वं च गमिष्यति
Verse 5
तौ तु तद्वचनं श्रुत्वा राजपुत्रौ यशस्विनौ अनिद्रौ षडहोरात्रं तपोवनमरक्षताम्
Verse 6
उपासाञ्चक्रतुर्वीरौ यत्तौ परमधन्विनौ ररक्षतुर्मुनिवरं विश्वामित्रमरिन्दमौ
Verse 7
अथ काले गते तस्मिन् षष्ठेऽहनि समागते सौमित्रिमब्रवीद्रामो यत्तो भव समाहित:
Verse 8
रामस्यैवं ब्रुवाणस्य त्वरितस्य युयुत्सया प्रजज्वाल ततो वेदिस्सोपाध्यायपुरोहिता
Verse 9
सदर्भचमसस्रुक्का ससमित्कुसुमोच्चया विश्वामित्रेण सहिता वेदिर्जज्वाल सर्त्विजा
Verse 10
मन्त्रवच्च यथान्यायं यज्ञोऽसौ सम्प्रवर्तते आकाशे च महान् शब्द: प्रादुरासीद्भयानक:
Verse 11
आवार्य गगनं मेघो यथा प्रावृषि निर्गत: तथामायां विकुर्वाणौ राक्षसावभ्यधावताम्
Verse 12
मारीचश्च सुबाहुश्च तयोरनुचराश्च ये आगम्य भीमसङ्काशा रुधिरौघमवासृजन्
Verse 13
सा तेन रुधिरौघेण वेदिर्जज्वाल मण्डिता सहसाऽभिद्रुतो रामस्तानपश्य त्ततो दिवि
Verse 14
तावापतन्तौ सहसा दृष्ट्वा राजीवलोचन: लक्ष्मणं त्वभिसम्प्रेक्ष्य रामो वचनमब्रवीत्
Verse 15
पश्य लक्ष्मण दुर्वृत्तान् राक्षसान् पिशिताशनान् मानवास्त्रसमाधूताननिलेन यथा घनान्
Verse 16
मानवं परमोदारमस्त्रं परमभास्वरम् चिक्षेप परमक्रुद्धो मारीचोरसि राघव:
Verse 17
स तेन परमास्त्रेण मानवेन समाहित: संपूर्णं योजनशतं क्षिप्तस्सागरसम्प्लवे
Verse 18
विचेतनं विघूर्णन्तं शीतेषु बलताडितम् निरस्तं दृश्य मारीचं रामो लक्ष्मणमब्रवीत्
Verse 19
पश्य लक्ष्मण शीतेषुं मानवं धर्मसंहितम् मोहयित्वा नयत्येनं न च प्राणैर्व्ययुज्यत
Verse 20
इमानपि वधिष्यामि निर्घृणान् दुष्टचारिण: राक्षसान् पापकर्मस्थान् यज्ञघ्नान् रुधिराशनान्
Verse 21
सङ्गृह्यास्त्रं ततो रामो दिव्यमाग्नेयमद्भुतम् सुबाहूरसि चिक्षेप सविद्ध: प्रापतद्भुवि
Verse 22
शेषान् वायव्यमादाय निजघान महायशा: राघव: परमोदारो मुनीनां मुदमावहन्
Verse 23
स हत्वा राक्षसान् सर्वान् यज्ञघ्नान् रघुनन्दन: ऋषिभि: पूजितस्तत्र यथेन्द्रो विजये पुरा
Verse 24
अथ यज्ञे समाप्ते तु विश्वामित्रो महामुनि: निरीतिका दिशो दृष्टवा काकुत्स्थमिदमब्रवीत्
0:000:00
Speed: