Book 1 • Chapter 77
Sarga 77
30 verses
Verse 1
गते रामे प्रशान्तात्मा रामो दाशरथिर्धनु: वरुणायाप्रमेयाय ददौ हस्ते ससायकम्
Verse 2
अभिवाद्य ततो रामो वसिष्ठप्रमुखानृषीन् पितरं विह्वलं दृष्ट्वा प्रोवाच रघुनन्दन:
Verse 3
जामदग्न्यो गतो राम: प्रयातु चतुरङ्गिणी अयोध्याभिमुखी सेना त्वया नाथेन पालिता
Verse 4
सन्दिशस्व महाराज सेनां त्वच्छासने स्थिताम् शासनं काङ्क्षते सेना चातकालिर्जलं यथा
Verse 5
रामस्य वचनं श्रुत्वा राजा दशरथ स्सुतम् बाहुभ्यां सम्परिष्वज्य मूर्ध्नि चाघ्राय राघवम् गतो राम इति श्रुत्वा हृष्ट: प्रमुदितो नृप: पुनर्जातं तदा मेने पुत्रमात्मानमेव च
Verse 6
रामस्य वचनं श्रुत्वा राजा दशरथ स्सुतम् बाहुभ्यां सम्परिष्वज्य मूर्ध्नि चाघ्राय राघवम् गतो राम इति श्रुत्वा हृष्ट: प्रमुदितो नृप: पुनर्जातं तदा मेने पुत्रमात्मानमेव च
Verse 7
चोदयामास तां सेनां जगामाशु तत: पुरीम् पताकाध्वजिनीं रम्यां तूर्योद्घुष्टनिनादिताम् सिक्तराज पथां रम्यां प्रकीर्णकुसुमोत्कराम् राजप्रवेशसुमुखै: पौरैर्मङ्गलवादिभि: सम्पूर्णां प्राविशद्राजा जनौघैस्समलङ्कृताम्
Verse 8

Verse 9
पौरै: प्रत्युद्गतो दूरं द्विजैश्च पुरवासिभि: पुत्रैरनुगत श्श्रीमान् श्रीमद्भिश्च महायशा: प्रविवेश गृहं राजा हिमवत्सदृशं पुनः
Verse 10
ननन्द सजनो राजा गृहे कामै स्सुपूजित: कौसल्या च सुमित्रा च कैकेयी च सुमध्यमा वधूप्रतिग्रहे युक्ता याश्चान्या राजयोषित:
Verse 11
ननन्द सजनो राजा गृहे कामै स्सुपूजित: कौसल्या च सुमित्रा च कैकेयी च सुमध्यमा वधूप्रतिग्रहे युक्ता याश्चान्या राजयोषित:
Verse 12
ततस्सीतां महाभागामूर्मिलां च यशस्विनीम् कुशध्वजसुते चोभे जगृहुर्नृपपत्नय:
Verse 13
मङ्गलालम्भनैश्चापि शोभिता: क्षौमवासस: देवतायतनान्याशु सर्वास्ता: प्रत्यपूजयन्
Verse 14
अभिवाद्याभिवाद्यांश्च सर्वा राजसुतास्तदा स्वं स्वं गृहमथासाद्य कुबेरभवनोपमम् गोभिर्धनैश्च धान्यैश्च तर्पयित्वा द्विजोत्तमान् रेमिरे मुदिता: सर्वा भर्तृभि: सहिता रह:
Verse 15
अभिवाद्याभिवाद्यांश्च सर्वा राजसुतास्तदा स्वं स्वं गृहमथासाद्य कुबेरभवनोपमम् गोभिर्धनैश्च धान्यैश्च तर्पयित्वा द्विजोत्तमान् रेमिरे मुदिता: सर्वा भर्तृभि: सहिता रह:
Verse 16
कुमाराश्च महात्मानो वीर्येणाप्रतिमा भुवि कृतदारा: कृतास्त्राश्च सधना: ससुहृज्जना: शुश्रूषमाणा: पितरं वर्तयन्ति नरर्षभा:
Verse 17
कस्यचित्त्वथ कालस्य राजा दशरथ: सुतम् 1.77.17 भरतं कैकयीपुत्र मब्रवीद्रघुनन्दन:
Verse 18
अयं केकयराजस्य पुत्रो वसति पुत्रक त्वां नेतुमागतो वीर युधाजिन्मातुलस्तव
Verse 19
प्रार्थितस्तेन धर्मज्ञ मिधिलायामहं तथा ऋषिमध्ये तु तस्य त्वं प्रीतिं कर्तुमिहार्हसि
Verse 20
श्रुत्वा दशरथस्यैतद्भरत: कैकयीसुत: अभिवाद्य गुरुं रामं परिष्वज्य च लक्ष्मणम् गमनायाभिचक्राम शत्रुघ्नसहितस्तदा
Verse 21
श्रुत्वा दशरथस्यैतद्भरत: कैकयीसुत: अभिवाद्य गुरुं रामं परिष्वज्य च लक्ष्मणम् गमनायाभिचक्राम शत्रुघ्नसहितस्तदा
Verse 22
आपृच्छ्य पितरं शूरो रामं चाक्लिष्टकारिणम् मातृश्चापि नरश्रेष्ठ श्शत्रुघ्नसहितो ययौ
Verse 23
गते तु भरते रामो लक्ष्मणश्च महाबल: पितरं देवसंङ्काशं पूजयामासतुस्तदा
Verse 24
पितुराज्ञां पुरस्कृत्य पौरकार्याणि सर्वश: चकार रामो धर्मात्मा प्रियाणि च हितानि च
Verse 25
मातृभ्यो मातृकार्याणि कृत्वा परमयन्त्रित: गुरूणां गुरुकार्याणि काले कालेऽन्ववैक्षत
Verse 26
एवं दशरथ: प्रीतो ब्राह्मणा नैगमास्तथा रामस्य शीलवृत्तेन सर्वे विषयवासिन:
Verse 27
तेषामतियशा लोके राम स्सत्यपराक्रमः स्वयम्भूरिव भूतानां बभूव गुणवत्तर:
Verse 28
रामस्तु सीतया सार्धं विजहार बहूनृतून् मनस्स्वी तद्गतस्तस्याः नित्यं हृदि समर्पित:
Verse 29
प्रिया तु सीता रामस्य दारा: पितृकृता इति गुणाद्रूपगुणाच्चापि प्रीतिर्भूयोऽभ्यवर्धत
Verse 30
तस्याश्च भर्ता द्विगुणं हृदये परिवर्तते अन्तर्जातमपि व्यक्तमाख्याति हृदयं हृदा
0:000:00
Speed: