Book 1 • Chapter 76
Sarga 76
24 verses
Verse 1
श्रुत्वा तज्जामदग्न्यस्य वाक्यं दाशरथिस्तदा गौरवाद्यंन्त्रितकथ: पितू राममथाब्रवीत्
Verse 2
श्रुतवानस्मि यत्कर्म कृतवानसि भार्गव अनुरुंध्यामहे ब्रह्मन् पितुरानृण्यमास्थितम्
Verse 3
वीर्यहीनमिवाशक्तं क्षत्रधर्मेण भार्गव अवजानासि मे तेज: पश्य मेऽद्य पराक्रमम्
Verse 4
इत्युक्त्वा राघव: क्रुद्धो भार्गवस्य शरासनम् शरं च प्रतिजग्राह हस्ताल्लघुपराक्रम:
Verse 5
आरोप्य स धनू राम श्शरं सज्यं चकार ह जामदग्न्यं ततो रामं राम: क्रुद्धोऽब्रवीद्वच:
Verse 6
ब्राह्मणोऽसीति पूज्यो मे विश्वामित्रकृतेन च तस्माच्छक्तो न ते राम मोक्तुं प्राणहरं शरम्
Verse 7
इमां पादगतिं राम तपोबलसमार्जिताम् लोकानप्रतिमान्वा ते हनिष्यामि यदिच्छसि
Verse 8
न ह्ययं वैष्णवो दिव्य श्शर: परपुरञ्जय: मोघ: पतति वीर्येण बलदर्पविनाशनः
Verse 9
वरायुधधरं रामं द्रष्टुं सर्षिगणा स्सुरा: पितामहं पुरस्कृत्य समेतास्तत्र सङ्घश: गन्धर्वाप्सरसश्चैव सिद्धचारणकिन्नरा: यक्षराक्षसनागाश्च तद्द्रष्टुं महदद्भुतम्
Verse 10
वरायुधधरं रामं द्रष्टुं सर्षिगणा स्सुरा: पितामहं पुरस्कृत्य समेतास्तत्र सङ्घश: गन्धर्वाप्सरसश्चैव सिद्धचारणकिन्नरा: यक्षराक्षसनागाश्च तद्द्रष्टुं महदद्भुतम्
Verse 11
जडीकृते तदाऽलोके रामे वरधनुर्धरे निर्वीर्यो जामदग्न्योऽसौ रामो राममुदैक्षत
Verse 12
तेजोभिहतवीर्यत्वाज्जामदग्न्यो जडीकृत: रामं कमलपत्राक्षं मन्दं मन्दमुवाच ह
Verse 13
काश्यपाय मया दत्ता यदा पूर्वं वसुन्धरा विषये मे न वस्तव्यमिति मां काश्यपोऽब्रवीत्
Verse 14
सोऽहं गुरुवच: कुर्वन् पृथिव्यां न वसे निशाम् कृता प्रतिज्ञा काकुत्स्थ कृता भू: काश्यपस्य हि
Verse 15
तदिमां त्वं गतिं वीर हन्तुं नार्हसि राघव मनोजवं गमिष्यामि महेन्द्रं पर्वतोत्तमम्
Verse 16
लोकास्त्वप्रतिमा राम निर्जितास्तपसा मया जहि तान् शरमुख्येन मा भूत्कालस्य पर्यय:
Verse 17
अक्षय्यं मधुहन्तारं जानामि त्वां सुरेश्वरम् धनुषोऽस्य परामर्शात् स्वस्ति तेऽस्तु परंतप
Verse 18
एते सुरगणास्सर्वे निरीक्षन्ते समागता: त्वामप्रतिमकर्माणमप्रतिद्वन्द्वमाहवे
Verse 19
न चेयं मम काकुत्स्थ व्रीडा भवितुमर्हति त्वया त्रैलोक्यनाथेन यदहं विमुखीकृत:
Verse 20
शरमप्रतिमं राम मोक्तुमर्हसि सुव्रत शरमोक्षे गमिष्यामि महेन्द्रं पर्वतोत्तमम्
Verse 21
तथा ब्रुवति रामे तु जामदग्नये प्रतापवान् रामो दाशरथि श्श्रीमान् चिक्षेप शरमुत्तमम्
Verse 22
स हतान् दृश्य रामेण स्वांल्लोकांस्तपसार्जितान् जामदग्न्यो जगामाशु महेन्द्रं पर्वतोत्तमम्
Verse 23
ततो वितिमिरास्सर्वा दिशश्चोपदिशस्तथा सुरा स्सर्षिगणा रामं प्रशशंसुरुदायुधम्
Verse 24
रामं दाशरथिं रामो जामदग्न्य: प्रशस्य च तत: प्रदक्षिणी कृत्य जगामात्मगतिं प्रभु:
0:000:00
Speed: