🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 1 • Chapter 75

Sarga 75

28 verses

Verse 1
राम दाशरथे राम वीर्यं ते श्रूयतेऽद्भुतम् धनुषो भेदनं चैव निखिलेन मया श्रुतम्
Verse 2
तदद्भुतमचिन्त्यं  भेदनं धनुषस्त्वया तच्छ्रुत्वाऽहमनुप्राप्तो धनुर्गृह्यापरं शुभम्
Verse 3
तदिदं घोरसङ्काशं जामदग्न्यं महद्धनु: पूरयस्व शरेणैव स्वबलं दर्शयस्व 
Verse 4
तदहं ते बलं दृष्ट्वा धनुषोऽस्य प्रपूरणे द्वन्द्वयुद्धं प्रदास्यामि वीर्यश्लाघ्यस्य राघव
Verse 5
तस्य तद्वचनं श्रुत्वा राजा दशरथस्तदा विषण्णवदनो दीन: प्राञ्जलिर्वाक्यमब्रवीत्
Verse 6
क्षत्ररोषात्प्रशान्तस्त्वं ब्राह्मणश्च महायशा: बालानां मम पुत्राणामभयं दातुमर्हसि
Verse 7
भार्गवाणां कुले जात: स्वाध्यायव्रतशालिनाम् सहास्राक्षे प्रतिज्ञाय शस्त्रं निक्षिप्तवानसि
Verse 8
 त्वं धर्मपरो भूत्वा काश्यपाय वसुन्धराम् दत्त्वा वनमुपागम्य महेन्द्रकृतकेतन:
Verse 9
मम सर्वविनाशाय सम्प्राप्तस्त्वं महामुने  चैकस्मिन् हते रामे सर्वे जीवामहे वयम्
Verse 10
ब्रुवत्येवं दशरथे जामदग्न्य: प्रतापवान् अनादृत्यैव तद्वाक्यं राममेवाभ्यभाषत
Verse 11
इमे द्वे धनुषी श्रेष्ठे दिव्ये लोकाभिविश्रुते दृढे बलवती मुख्ये सुकृते विश्वकर्मणा
Verse 12
अतिसृष्टं सुरैरेकं त्र्यम्बकाय युयुत्सवे त्रिपुरघ्नं नरश्रेष्ठ भग्नं काकुत्स्थ यत्त्वया
Verse 13
इदं द्वितीयं दुर्धर्षं विष्णोर्दत्तं सुरोत्तमै: तदिदं वैष्णवं राम धनु: परमभास्वरम् समानसारं काकुत्स्थ रौद्रेण धनुषा त्विदम्
Verse 14
तदा तु देवतास्सर्वा: पृच्छन्ति स्म पितामहम् शितिकण्ठस्य विष्णोश्च बलाबलनिरीक्षया
Verse 15
अभिप्रायं तु विज्ञाय देवतानां पितामह: विरोधं जनयामास तयो स्सत्यवतां वर:
Verse 16
विरोधे  महद्युद्धमभवद्रोमहर्षणम् शितिकण्ठस्य विष्णोश्च परस्परजिगीषुणो:
Verse 17
तदा तु जृम्भितं शैवं धनुर्भीमपराक्रमम् हुङ्कारेण महादेव स्तम्भितोऽथ त्रिलोचन:
Verse 18
देवैस्तदा समागम्य सर्षिसघै स्सचारणै: याचितौ प्रशमं तत्र जग्मतुस्तौ सुरोत्तमौ
Verse 19
जृम्भितं तद्धनुर्द्रृष्ट्वा शैवं विष्णुपराक्रमै: अधिकं मेनिरे विष्णुं देवा स्सर्षिगणास्तदा
Verse 20
धनू रुद्रस्तु सङ्कृद्धो विदेहेषु महायशा: देवरातस्य राजर्षेर्ददौ हस्ते ससायकम्
Verse 21
इदं  वैष्णवं राम धनु: परपुरञ्जयम् ऋचीके भार्गवे प्रादाद्विष्णु:  न्यासमुत्तमम्
Verse 22
ऋचीकस्तु महातेजा: पुत्रस्याप्रतिकर्मण: पितुर्मम ददौ दिव्यं जमदग्नेर्महात्मन:
Verse 23
न्यस्तशस्त्रे पितरि मे तपोबलसमन्विते अर्जुनो विदधे मृत्युं प्राकृतां बुद्धिमास्थित:
Verse 24
वधमप्रतिरूपं तु पितु श्शृत्वा सुदारुणम् क्षत्रमुत्सादयन्रोषाज्जातं जातमनेकश: पृथिवीं चाखिलां प्राप्य काश्यपाय महात्मने यज्ञस्यान्ते तदा राम दक्षिणां पुण्यकर्मणे दत्त्वा महेन्द्रनिलयस्तपोबलसमन्वित:
Verse 25
वधमप्रतिरूपं तु पितु श्शृत्वा सुदारुणम् क्षत्रमुत्सादयन्रोषाज्जातं जातमनेकश: पृथिवीं चाखिलां प्राप्य काश्यपाय महात्मने यज्ञस्यान्ते तदा राम दक्षिणां पुण्यकर्मणे दत्त्वा महेन्द्रनिलयस्तपोबलसमन्वित:
Verse 26
अद्यतूत्तमवीर्येण त्वया राम महाबल श्रुतवान् धनुषो भेदं ततोऽहं द्रुतमागत:
Verse 27
तदिदं वैष्णवं राम पितृपैतामहं महत् क्षत्रधर्मं पुरस्कृत्य गृह्णीष्व धनुरुत्तमम्
Verse 28
योजयस्व धनुश्श्रेष्ठे शरं परपुरञ्जयम् यदि शक्नोषि काकुत्स्थ द्वन्द्वं दास्यामि ते तत:
0:000:00
Speed: