Book 1 • Chapter 74
Sarga 74
25 verses
Verse 1
अथ रात्र्यां व्यतीतायां विश्वामित्रो महामुनिः आपृष्ट्वा तौ च राजानौ जगामोत्तरपर्वतम् आशीर्भि: पूरयित्वा च कुमारांश्च सराघवान्
Verse 2
विश्वामित्रे गते राजा वैदेहं मिथिलाधिपम् आपृष्ट्वाऽथ जगामाशु राजा दशरथ: पुरीम्
Verse 3
गच्छन्तं तं तु राजानमन्वगच्छन्नराधिप: अथ राजा विदेहानां ददौ कन्याधनं बहु
Verse 4
गवां शतसहस्राणि बहूनि मिथिलेश्वर: कम्बलानां च मुख्यानां क्षौमकोट्यंबराणि च हस्त्यश्वरथपादातं दिव्यरूपं स्वलङ्कृतम् ददौ कन्यापिता तासां दासीदासमनुत्तमम्
Verse 5

Verse 6
हिरण्यस्य सुवर्णस्य मुक्तानां विद्रुमस्य च ददौ परमसंहृष्ट: कन्याधनमनुत्तमम्
Verse 7
दत्त्वा बहु धनं राजा समनुज्ञाप्य पार्थिवम् प्रविवेश स्वनिलयं मिथिलां मिथिलेश्वर:
Verse 8
राजाऽप्ययोध्याधिपतिस्सह पुत्रैर्महात्मभि: ऋषीन् सर्वान् पुरस्कृत्य जगाम सबलानुग:
Verse 9
गच्छन्तं तं नरव्याघ्रं सर्षिसङ्घं सराघवम् घोरा: स्म पक्षिणो वाचो व्याहरन्ति ततस्तत:
Verse 10
भौमाश्चैव मृगा स्सर्वे गच्छन्ति स्म प्रदक्षिणम् तान् दृष्ट्वा राजशार्दूलो वसिष्ठं पर्यपृच्छत
Verse 11
असौम्या: पक्षिणो घोरा मृगाश्चापि प्रदक्षिणा: किमिदं हृदयोत्कम्पि मनो मम विषीदति
Verse 12
राज्ञो दशरथस्यैतच्छ्रुत्वा वाक्यं महानृषि: उवाच मधुरां वाणीं श्रूयतामस्य यत्फलम्
Verse 13
उपस्थितं भयं घोरं दिव्यं पक्षिमुखाच्च्युतम् मृगा: प्रशमयन्त्येते सन्तापस्त्यज्यतामयम्
Verse 14
तेषां संवदतां तत्र वायु: प्रादुर्बभूव ह कम्पयन् पृथिवीं सर्वां पातयंश्च द्रुमांच्छुभान्
Verse 15
तमसा संवृतस्सूर्य स्सर्वा न प्रबभुर्दिश भस्मना चावृतं सर्वं संमूढमिव तद्बलम्
Verse 16
वसिष्ठश्चर्षयश्चान्ये राजा च ससुतस्तदा संसज्ञा इव तत्रासन् सर्वमन्यद्विचेतनम्
Verse 17
तस्मिंस्तमसि घोरे तु भस्मच्छन्नेव सा चमू: ददर्श भीमसङ्काशं जटामण्डलधारिणम् भार्गवं जामदग्न्यं तं राजराजविमर्दिनम् कैलासमिव दुर्धर्षं कालाग्निमिव दुस्सहम् ज्वलंतमिव तेजोभिर्दुर्निरीक्ष्यं पृथग्जनै: स्कन्धे चासज्य परशुं धनुर्विद्युद्गणोपमम् प्रगृह्य शरमुख्यं च त्रिपुरघ्नं यथा शिवम्
Verse 18

Verse 19

Verse 20

Verse 21
तं दृष्ट्वा भीमसङ्काशं ज्वलन्तमिव पावकम् वसिष्ठप्रमुखा विप्रा जपहोमपरायणा: सङ्गता मुनयस्सर्वे सञ्जजल्पुरथो मिथ:
Verse 22
कच्चित्पितृवधामर्षी क्षत्रं नोत्सादयिष्यति पूर्वं क्षत्रवधं कृत्वा गतमन्युर्गतज्वर: क्षत्रस्योत्सादनं भूयो न खल्वस्य चिकीर्षितम्
Verse 23

Verse 24
एवमुक्त्वाऽर्घ्यमादाय भार्गवं भीमदर्शनम् ऋषयो राम रामेति वचो मधुरमब्रुवन्
Verse 25
प्रतिगृह्य तु तां पूजामृषिदत्तां प्रतापवान् रामं दाशरथिं रामो जामदग्न्योऽभ्यभाषत
0:000:00
Speed: