🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 1 • Chapter 74

Sarga 74

25 verses

Verse 1
अथ रात्र्यां व्यतीतायां विश्वामित्रो महामुनिः आपृष्ट्वा तौ  राजानौ जगामोत्तरपर्वतम् आशीर्भि: पूरयित्वा  कुमारांश्च सराघवान्
Verse 2
विश्वामित्रे गते राजा वैदेहं मिथिलाधिपम् आपृष्ट्वाऽथ जगामाशु राजा दशरथ: पुरीम्
Verse 3
गच्छन्तं तं तु राजानमन्वगच्छन्नराधिप: अथ राजा विदेहानां ददौ कन्याधनं बहु
Verse 4
गवां शतसहस्राणि बहूनि मिथिलेश्वर: कम्बलानां  मुख्यानां क्षौमकोट्यंबराणि  हस्त्यश्वरथपादातं दिव्यरूपं स्वलङ्कृतम् ददौ कन्यापिता तासां दासीदासमनुत्तमम्
Verse 5

Verse 6
हिरण्यस्य सुवर्णस्य मुक्तानां विद्रुमस्य  ददौ परमसंहृष्ट: कन्याधनमनुत्तमम्
Verse 7
दत्त्वा बहु धनं राजा समनुज्ञाप्य पार्थिवम् प्रविवेश स्वनिलयं मिथिलां मिथिलेश्वर:
Verse 8
राजाऽप्ययोध्याधिपतिस्सह पुत्रैर्महात्मभि: ऋषीन् सर्वान् पुरस्कृत्य जगाम सबलानुग:
Verse 9
गच्छन्तं तं नरव्याघ्रं सर्षिसङ्घं सराघवम् घोरा: स्म पक्षिणो वाचो व्याहरन्ति ततस्तत:
Verse 10
भौमाश्चैव मृगा स्सर्वे गच्छन्ति स्म प्रदक्षिणम् तान् दृष्ट्वा राजशार्दूलो वसिष्ठं पर्यपृच्छत
Verse 11
असौम्या: पक्षिणो घोरा मृगाश्चापि प्रदक्षिणा: किमिदं हृदयोत्कम्पि मनो मम विषीदति
Verse 12
राज्ञो दशरथस्यैतच्छ्रुत्वा वाक्यं महानृषि: उवाच मधुरां वाणीं श्रूयतामस्य यत्फलम्
Verse 13
उपस्थितं भयं घोरं दिव्यं पक्षिमुखाच्च्युतम् मृगा: प्रशमयन्त्येते सन्तापस्त्यज्यतामयम्
Verse 14
तेषां संवदतां तत्र वायु: प्रादुर्बभूव  कम्पयन् पृथिवीं सर्वां पातयंश्च द्रुमांच्छुभान्
Verse 15
तमसा संवृतस्सूर्य स्सर्वा  प्रबभुर्दिश भस्मना चावृतं सर्वं संमूढमिव तद्बलम्
Verse 16
वसिष्ठश्चर्षयश्चान्ये राजा  ससुतस्तदा संसज्ञा इव तत्रासन् सर्वमन्यद्विचेतनम्
Verse 17
तस्मिंस्तमसि घोरे तु भस्मच्छन्नेव सा चमू: ददर्श भीमसङ्काशं जटामण्डलधारिणम् भार्गवं जामदग्न्यं तं राजराजविमर्दिनम् कैलासमिव दुर्धर्षं कालाग्निमिव दुस्सहम् ज्वलंतमिव तेजोभिर्दुर्निरीक्ष्यं पृथग्जनै: स्कन्धे चासज्य परशुं धनुर्विद्युद्गणोपमम् प्रगृह्य शरमुख्यं  त्रिपुरघ्नं यथा शिवम्
Verse 18

Verse 19

Verse 20

Verse 21
तं दृष्ट्वा भीमसङ्काशं ज्वलन्तमिव पावकम् वसिष्ठप्रमुखा विप्रा जपहोमपरायणा: सङ्गता मुनयस्सर्वे सञ्जजल्पुरथो मिथ:
Verse 22
कच्चित्पितृवधामर्षी क्षत्रं नोत्सादयिष्यति पूर्वं क्षत्रवधं कृत्वा गतमन्युर्गतज्वर: क्षत्रस्योत्सादनं भूयो  खल्वस्य चिकीर्षितम्
Verse 23

Verse 24
एवमुक्त्वाऽर्घ्यमादाय भार्गवं भीमदर्शनम् ऋषयो राम रामेति वचो मधुरमब्रुवन्
Verse 25
प्रतिगृह्य तु तां पूजामृषिदत्तां प्रतापवान् रामं दाशरथिं रामो जामदग्न्योऽभ्यभाषत
0:000:00
Speed: