Book 1 • Chapter 73
Sarga 73
37 verses
Verse 1
यस्मिंस्तु दिवसे राजा चक्रे गोदानमुत्तमम् तस्मिं स्तु दिवसे शूरो युधाजित्समुपेयिवान्
Verse 2
पुत्र: केकयराजस्य साक्षाद्भरतमातुल: दृष्ट्वा पृष्ट्वा च कुशलं राजानमिदमब्रवीत्
Verse 3
केकयाधिपती राजा स्नेहात् कुशलमब्रवीत् येषां कुशलकामोऽसि तेषां सम्प्रत्यनामयम्
Verse 4
स्वस्रीयं मम राजेन्द्र द्रष्टुकामो महीपति: तदर्थमुपयातोऽहमयोध्यां रघुनन्दन
Verse 5
श्रुत्वा त्वहमयोध्यायां विवाहार्थं तवात्मजान् मिथिलामुपयातांस्तु त्वया सह महीपते त्वरयाभ्युपयातोऽहं द्रष्टुकाम स्स्वसुस्सुतम्
Verse 6
अथ राजा दशरथ: प्रियातिथिमुपस्थितम् दृष्ट्वा परमसत्कारै: पूजार्हं समपूजयत्
Verse 7
ततस्तामुषितो रात्रिं सह पुत्रैर्महात्मभि: प्रभाते पुनरुत्थाय कृत्वा कर्माणि कर्मवित् ऋषींस्तदा पुरस्कृत्य यज्ञवाटमुपागमत्
Verse 8

Verse 9
युक्ते मुहूर्ते विजये सर्वाभरणभूषितै: भ्रातृभिस्सहितो राम: कृतकौतुकमंगल: वसिष्ठं पुरत: कृत्वा महर्षीनपरानपि पितु स्समीपमाश्रित्य तस्थौ भ्रातृभिरावृत:
Verse 10

Verse 11
वसिष्ठो भगवानेत्य वैदेहमिदमब्रवीत् राजा दशरथो राजन् कृतकौतुकमङ्गलै: पुत्रैर्नरवर श्रेष्ठ दातारमभिकाङ्क्षते
Verse 12
दातृप्रतिग्रहीतृभ्यां सर्वार्था: प्रभवन्ति हि स्वधर्मं प्रतिपद्यस्व कृत्वा वैवाह्यमुत्तमम्
Verse 13
इत्युक्त: परमोदारो वसिष्ठेन महात्मना प्रत्युवाच महातेजा वाक्यं परमधर्मवित्
Verse 14
कस्स्थित: प्रतिहारो मे कस्याज्ञा सम्प्रतीक्ष्यते स्वगृहे को विचारोऽस्ति यथा राज्यमिदं तव
Verse 15
कृतकौतुकसर्वस्वा वेदिमूलमुपागता: मम कन्या मुनिश्रेष्ठ दीप्ता वह्नेरिवार्चिष:
Verse 16
सज्जोऽहं त्वत्प्रतीक्षोऽस्मि वेद्यामस्यां प्रतिष्ठित: अविघ्नं कुरुतां राजा किमर्थमवलम्बते
Verse 17
तद्वाक्यं जनकेनोक्तं श्रुत्वा दशरथस्तदा प्रवेशयामास सुतान् सर्वानृषिगणानपि
Verse 18
ततो राजा विदेहानां वसिष्ठमिदमब्रवीत् कारयस्व ऋषे सर्वमृषिभि: सह धार्मिक रामस्य लोकरामस्य क्रियां वैवाहिकीं विभो
Verse 19

Verse 20
तथेत्युक्त्वा तु जनकं वसिष्ठो भगवानृषि: विश्वामित्रं पुरस्कृत्य शतानन्दं च धार्मिकम् प्रपामध्ये तु विधिवत्वेदिं कृत्वा महातपा: अलञ्चकार तां वेदिं गन्धपुष्पै स्समन्तत: सुवर्णपालिकाभिश्च छिद्रकुम्भैश्च साङ्कुरै: अङ्कुराढ्यैश्शरावैश्च धूपपात्रै स्सधूपकै: शङ्खपात्रै स्स्रुवै स्स्रुग्भि: पात्रैरर्घ्याभिपूरितै: लाजपूर्णैश्च पात्रीभिरक्षतैरभिसंस्कृतै:
Verse 21

Verse 22

Verse 23

Verse 24
दर्भैस्समैस्समास्तीर्य विधिवन्मन्त्रपूर्वकम् अग्निमादाय वेद्यां तु विधिमन्त्रपुरस्कृतम् जुहावाग्नौ महातेजा वसिष्ठो भगवानृषि:
Verse 25
ततस्सीतां समानीय सर्वाभरणभूषिताम् समक्षमग्ने स्संस्थाप्य राघवाभिमुखे तदा अब्रवीज्जनको राजा कौसल्यानन्दवर्धनम्
Verse 26

Verse 27
इयं सीता मम सुता सहधर्मचरी तव प्रतीच्छ चैनां भद्रं ते पाणिं गृह्णीष्व पाणिना
Verse 28
पतिव्रता महाभागा छायेवानुगता सदा इत्युक्त्वा प्राक्षिपद्राजा मन्त्रपूतं जलं तदा
Verse 29
साधु साध्विति देवाना मृषीणां वदतां तदा देवदुन्दुभिर्निर्घोष: पुष्पवर्षो महानभूत्
Verse 30
एवं दत्त्वा तदा सीतां मन्त्रोदकपुरस्कृताम् अब्रवीज्जनको राजा हर्षेणाभिपरिप्लुत:
Verse 31
लक्ष्मणागच्छ भद्रं ते ऊर्मिलामुद्यतां मया प्रतीच्छ पाणिं गृह्णीष्व माभूत्कालस्य पर्यय:
Verse 32
तमेवमुक्त्वा जनको भरतं चाभ्यभाषत गृहाण पाणिं माण्डव्या: पाणिना रघुनन्दन
Verse 33
शत्रुघ्नं चापि धर्मात्मा अब्रवीज्जनकेश्वर: श्रुतकीर्त्या महाबाहो पाणिं गृह्णीष्व पाणिना
Verse 34
सर्वे भवन्तस्सौम्याश्च सर्वे सुचरितव्रता: पत्नीभिस्सन्तु काकुत्स्था माभूत्कालस्य पर्यय:
Verse 35
जनकस्य वच श्शृत्वा पाणीन् पाणिभिरास्पृशन् चत्वारस्ते चतसृ़णां वसिष्ठस्य मते स्थिता:
Verse 36
अग्निं प्रदक्षिणीकृत्य वेदिं राजानमेव च ऋषींश्चैव महात्मानस्सभार्या रघुसत्तमा: यथोक्तेन तदा चक्रुर्विवाहं विधिपूर्वकम्
Verse 37
काकुत्स्थैश्च गृहीतेषु ललितेषु च पाणिषु पुष्पवृष्टिर्महत्यासीदन्तरिक्षात्सुभास्वरा
0:000:00
Speed: