Book 1 • Chapter 72
Sarga 72
25 verses
Verse 1
तमुक्तवन्तं वैदेहं विश्वामित्रो महामुनि: उवाच वचनं वीरं वसिष्ठसहितो नृपम्
Verse 2
अचिन्त्यान्यप्रमेयानि कुलानि नरपुङ्गव इक्ष्वाकूणां विदेहानां नैषां तुल्योऽस्ति कश्चन
Verse 3
सदृशो धर्मसम्बन्ध: सदृशो रूपसम्पदा रामलक्ष्मणयो राजन् सीता चोर्मिलया सह
Verse 4
वक्तव्यं च नरश्रेष्ठ श्रूयतां वचनं मम भ्राता यवीयान् धर्मज्ञ एष राजा कुशध्वज:
Verse 5
अस्य धर्मात्मनो राजन् रूपेणाप्रतिमं भुवि सुताद्वयं नरश्रेष्ठ पत्न्यर्थं वरयामहे
Verse 6
भरतस्य कुमारस्य शत्रुघ्नस्य च धीमत: वरयामस्सुते राजन् तयोरर्थे महात्मनो:
Verse 7
पुत्रा दशरथस्येमे रूपयौवनशालिन: लोकपालोपमास्सर्वे देवतुल्यपराक्रमा:
Verse 8
उभयोरपि राजेन्द्र सम्बन्धेनानुबध्यताम् इक्ष्वाको: कुलमव्यग्रं भवत:पुण्यकर्मण:
Verse 9
विश्वामित्रवच श्शृत्वा वसिष्ठस्य मते तदा जनक: प्रांजलिर्वाक्यमुवाच मुनिपुङ्गवौ
Verse 10
कुलं धन्यमिदं मन्ये येषां नो मुनिपुङ्गवौ सदृशं कुलसम्बन्धं यदाज्ञापयथ: स्वयम्
Verse 11
एवं भवतु भद्रं व: कुशध्वजसुते इमे पत्न्यौ भजेतां सहितौ शत्रुघ्नभरतावुभौ
Verse 12
एकाह्ना राजपुत्रीणां चतसृणां महामुने पाणीन् गृह्णन्तु चत्वारो राजपुत्रा महाबला:
Verse 13
उत्तरे दिवसे ब्रह्मन् फल्गुनीभ्यां मनीषिण: वैवाहिकं प्रशंसन्ति भगो यत्र प्रजापति:
Verse 14
एवमुक्त्वा वचस्सौम्यं प्रत्युत्थाय कृताञ्जलि: उभौ मुनिवरौ राजा जनको वाक्यमब्रवीत्
Verse 15
परो धर्म: कृतो मह्यं शिष्योऽस्मिभवतो सदा इमान्यासनमुख्यानि आसातां मुनिपुङ्गवौ
Verse 16
यथा दशरथस्येयं तथाऽयोध्या पुरी मम प्रभुत्वे नास्ति सन्देहो यथार्हं कर्तुमर्हथ
Verse 17
तथा ब्रुवति वैदेहे जनके रघुनन्दन: राजा दशरथो हृष्ट: प्रत्युवाच महीपतिम्
Verse 18
युवामसङ्ख्येयगुणौ भ्रातरौ मिथिलेश्वरौ ऋषयो राजसङ्घाश्च भवद्भ्यामभिपूजिता:
Verse 19
स्वस्ति प्राप्नुहि भद्रं ते गमिष्यामि स्वमालयम् श्राद्धकर्माणि सर्वाणि विधास्यामीति चाब्रवीत्
Verse 20
तमापृष्ट्वा नरपतिं राजा दशरथस्तदा मुनीन्द्रौ तौ पुरस्कृत्य जगामाशु महायशा:
Verse 21
स गत्वा निलयं राजा श्राद्धं कृत्वा विधानत: प्रभाते काल्यमुत्थाय चक्रे गोदानमुत्तमम्
Verse 22
गवां शतसहस्राणि ब्राह्मणेभ्यो नराधिप: एकैकशो ददौ राजा पुत्रानुद्दिश्य धर्मत:
Verse 23
सुवर्णश्रुङ्गा स्सम्पन्ना स्सवत्सा: कांस्यदोहना: गवां शतसहस्राणि चत्वारि पुरुषर्षभ: वित्तमन्यच्च सुबहुद्विजेभ्यो रघुनन्दन: ददौ गोदानमुद्दिश्य पुत्राणां पुत्रवत्सल:
Verse 24
सुवर्णश्रुङ्गा स्सम्पन्ना स्सवत्सा: कांस्यदोहना: गवां शतसहस्राणि चत्वारि पुरुषर्षभ: वित्तमन्यच्च सुबहुद्विजेभ्यो रघुनन्दन: ददौ गोदानमुद्दिश्य पुत्राणां पुत्रवत्सल:
Verse 25
स सुतै: कृतगोदानैर्वृतस्तु नृपतिस्तदा लोकपालैरिवाभाति वृत: स्सौम्य: प्रजापति:
0:000:00
Speed: