Book 1 • Chapter 71
Sarga 71
24 verses
Verse 1
एवं ब्रुवाणं जनक: प्रत्युवाच कृताञ्जलि: श्रोतुमर्हसि भद्रं ते कुलं न: परिकीर्तितम्
Verse 2
प्रदाने हि मुनिश्रेष्ठ कुलं निरवशेषत: वक्तव्यं कुलजातेन तन्निबोध महामुने
Verse 3
राजाऽभूत् त्रिषु लोकेषु विश्रुत स्स्वेन कर्मणा निमि: परमधर्मात्मा सर्वसत्त्ववतां वर:
Verse 4
तस्य पुत्रोमिथिर्नाम मिथिला येन निर्मिता प्रथमो जनको नाम जनकादप्युदावसु:
Verse 5
उदावसोस्तु धर्मात्मा जातो वै नन्दिवर्धन: नन्दिवर्धनपुत्रस्तु सुकेतुर्नाम नामत:
Verse 6
सुकेतोरपि धर्मात्मा देवरातो महाबल: देवरातस्य राजर्षेर्बृहद्रथ इति स्मृत:
Verse 7
बृहद्रथस्य शूरोऽभून्महावीर: प्रतापवान् महावीरस्य धृतिमान् सुधृतिस्सत्यविक्रम:
Verse 8
सुधृतेरपि धर्मात्मा दृष्टकेतुस्सुधार्मिक: दृष्टकेतोस्तु राजर्षेर्हर्यश्व इति विश्रुत:
Verse 9
हर्यश्वस्य मरु: पुत्रो मरो: पुत्र: प्रतिन्धक: प्रतिंधकस्य धर्मात्मा राजा कीर्तिरथस्सुत:
Verse 10
पुत्र: कीर्तिरथस्यापि देवमीढ इति स्मृत: देवमीढस्य विबुधो विबुधस्य महीध्रक:
Verse 11
महीध्रकसुतो राजा कीर्तिरातो महाबल: कीर्तिरातस्य राजर्षेर्महारोमा व्यजायत
Verse 12
महारोम्णस्तु धर्मात्मा स्वर्णरोमा व्यजायत स्वर्णरोम्णस्तु राजर्षेर्ह्रस्वरोमा व्यजायत
Verse 13
तस्य पुत्रद्वयं जज्ञे धर्मज्ञस्य महात्मन: ज्येष्ठोऽहमनुजो भ्राता मम वीर: कुशध्वज:
Verse 14
मां तु ज्येष्ठं पिता राज्ये सोऽभिषिच्य नराधिप: कुशध्वजं समावेश्य भारं मयि वनं गत:
Verse 15
वृद्धे पितरि स्वर्याते धर्मेण धुरमावहम् भ्रातरं देवसङ्काशं स्नेहात्पश्यन् कुशध्वजम्
Verse 16
कस्य चित्त्वथकालस्य साङ्काश्यादगमत्पुरात् सुधन्वा वीर्यवान्राजा मिथिलामवरोधक:
Verse 17
स च मे प्रेषयामास शैवं धनुरनुत्तमम् सीता कन्या च पद्माक्षी मह्यं वै दीयतामिति
Verse 18
तस्याप्रदानाद्ब्रह्मर्षे युद्धमासीन्मया सह स हतोऽभिमुखो राजा सुधन्वा तु मया रणे
Verse 19
निहत्य तं मुनिश्रेष्ठ सुधन्वानं नराधिपम् साङ्काश्ये भ्रातरं वीरमभ्यषिञ्चं कुशध्वजम्
Verse 20
कनीयानेष मे भ्राता अहं ज्येष्ठो महामुने ददामि परमप्रीतो वध्वौ ते मुनिपुङ्गव सीतां रामाय भद्रं ते ऊर्मिला लक्ष्मणाय च
Verse 21
वीर्यशुल्कां मम सुतां सीतां सुरसुतोपमाम् द्वितीयामूर्मिलां चैव त्रिर्ददामि न संशय:
Verse 22
ददामि परमप्रीतो वध्वौ ते रघुनन्दन रामलक्ष्मणयो राजन् गोदानं कारयस्व ह पितृकार्यं च भद्रं ते ततो वैवाहिकं कुरु
Verse 23
ददामि परमप्रीतो वध्वौ ते रघुनन्दन रामलक्ष्मणयो राजन् गोदानं कारयस्व ह पितृकार्यं च भद्रं ते ततो वैवाहिकं कुरु
Verse 24
मखा ह्यद्य महाबाहो तृतीये दिवसे प्रभो फल्गुन्यामुत्तरे राजंस्तस्मिन्वैवाहिकं कुरु रामलक्ष्मणयो राजन् दानं कार्यं सुखोदयम्
0:000:00
Speed: