🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 1 • Chapter 70

Sarga 70

43 verses

Verse 1
तत: प्रभाते जनक: कृतकर्मा महर्षिभि: उवाच वाक्यं वाक्यज्ञ श्शतानन्दं पुरोहितम्
Verse 2
भ्राता मम महातेजा यवीयानतिधार्मिक: कुशध्वज इति ख्यात: पुरीमध्यवसच्छुभाम् वार्याफलकपर्यन्तां पिबन्निक्षुमतीं नदीम् साङ्काश्यां पुण्यसङ्काशां विमानमिव पुष्पकम्
Verse 3
भ्राता मम महातेजा यवीयानतिधार्मिक: कुशध्वज इति ख्यात: पुरीमध्यवसच्छुभाम् वार्याफलकपर्यन्तां पिबन्निक्षुमतीं नदीम् साङ्काश्यां पुण्यसङ्काशां विमानमिव पुष्पकम्
Verse 4
तमहं द्रष्टुमिच्छामि यज्ञगोप्ता  मे मत: प्रीतिं सोऽपि महातेजा इमां भोक्ता मया सह
Verse 5
एवमुक्ते तु वचने शतानन्दस्य सन्निधौ आगता: केचिदव्यग्रा जनकस्तान् समादिशत्
Verse 6
शासनात्तु नरेन्द्रस्य प्रययुश्शीघ्रवाजिभि: समानेतुं नरव्याघ्रं विष्णुमिन्द्राज्ञया यथा
Verse 7
साङ्काश्यां ते समागत्य ददृशुश्च कुशध्वजम् न्यवेदयन्यथावृत्तं जनकस्य  चिन्तितम्
Verse 8
तद्वृत्तं नृपति श्शृत्वा दूतश्रेष्ठैर्महाबलै: अज्ञायाऽथ नरेन्द्रस्य आजगाम कुशध्वज:
Verse 9
 ददर्श महात्मानं जनकं धर्मवत्सलम् सोऽभिवाद्य शतानन्दं राजानं चापि धार्मिकम् राजार्हं परमं दिव्यमासनं चाऽध्यरोहत
Verse 10
उपविष्टावुभौ तौ तु भ्रातरावतितेजसौ प्रेषयामासतुर्वीरौ मन्त्रिश्रेष्ठं सुदामनम्
Verse 11
गच्छ मन्त्रिपते शीघ्रमैक्ष्वाकुममितप्रभम् आत्मजैस्सह दुर्धर्षमानयस्व समन्त्रिणम्
Verse 12
औपकार्यां  गत्वा तु रघूणां कुलवर्धनम् ददर्श शिरसा चैनमभिवाद्येदमब्रवीत्
Verse 13
अयोध्याधिपते वीर वैदेहो मिथिलाधिप:  त्वां द्रष्टुं व्यवसितस्सोपाध्यायपुरोहितम्
Verse 14
मंत्रिश्रेष्ठवच श्शृत्वा राजा सर्षिगणस्तदा सबंधुरगमत्तत्र जनको यत्र वर्तते
Verse 15
 राजा मन्त्रिसहित स्सोपाध्याय: सबान्धव: वाक्यं वाक्यविदां श्रेष्ठो वैदेहमिदमब्रवीत्
Verse 16
विदितं ते महाराज इक्ष्वाकुकुलदैवतम् वक्ता सर्वेषु कृत्येषु वसिष्ठो भगवानृषि:
Verse 17
विश्वामित्राभ्यनुज्ञातस्सह सर्वैर्महर्षिभि: एष वक्ष्यति धर्मात्मा वसिष्ठो मे यथाक्रमम्
Verse 18
एवमुक्त्वा नरश्रेष्ठे राज्ञां मध्ये महात्मनाम् तूष्णींभूते दशरथे वसिष्ठो भगवानृषि: उवाच वाक्यं वाक्यज्ञो वैदेहं सपुरोधसम्
Verse 19
एवमुक्त्वा नरश्रेष्ठे राज्ञां मध्ये महात्मनाम् तूष्णींभूते दशरथे वसिष्ठो भगवानृषि: उवाच वाक्यं वाक्यज्ञो वैदेहं सपुरोधसम्
Verse 20
अव्यक्तप्रभवो ब्रह्मा शाश्वतो नित्य अव्यय: तस्मान्मरीचि स्संजज्ञे मरीचे: काश्यप: सुत:
Verse 21
विवस्वान् काश्यपाज्जज्ञे मनुर्वैवस्वत स्स्मृत: मनु: प्रजापति: पूर्वमिक्ष्वाकुस्तु मनोस्सुत:
Verse 22
तमिक्ष्वाकुमयोध्यायां राजानं विद्धि पूर्वकम् इक्ष्वाकोस्तु सुतश्श्रीमान् कुक्षिरित्येव विश्रुत:
Verse 23
कुक्षेरथात्मज: श्रीमान् विकुक्षिरुदपद्यत विकुक्षेस्तु महातेजा बाण: पुत्र: प्रतापवान्
Verse 24
बाणस्य तु महातेजा अनरण्य: प्रतापवान् अनरण्यात्पृथुर्जज्ञे त्रिशङ्कुस्तु पृथोस्सुत:
Verse 25
त्रिशङ्कोरभवत्पुत्रो दुन्दुमारो महायशा: युवनाश्वसुतस्त्वासीन्मान्धाता पृथिवीपति:
Verse 26
मान्धातुस्तु सुत श्श्रीमान् सुसन्धिरुदपद्यत सुसन्धेरपि पुत्रौ द्वौ ध्रुवसन्धि: प्रसेनजित्
Verse 27
यशस्वी ध्रुवसन्धेस्तु भरतो नाम नामत: भरतात्तु महातेजा असितो नाम जातवान्
Verse 28
यस्यैते प्रतिराजान उदपद्यन्त शत्रव: हैहयास्तालजंघाश्च शूराश्च शशिबिन्दव:
Verse 29
तांस्तु  प्रतियुध्यन् वै युद्धे राजा प्रवासित: हिमवन्तमुपागम्य भृगुप्रस्रवणेऽवसत् असितोऽल्पबलो राजा मन्त्रिभिस्सहितस्तदा
Verse 30
द्वे चास्य भार्ये गर्भिण्यौ बभूवतुरिति श्रुतम् एका गर्भविनाशाय सपत्न्यै सगरं ददौ
Verse 31
तत श्शैलवरं रम्यं बभूवाभिरतो मुनि: भार्गवश्च्यवनो नाम हिमवन्तमुपाश्रित:
Verse 32
तत्रैका तु महाभागा भार्गवं देववर्चसम् ववन्दे पद्मपत्राक्षी काङ्क्षन्ती सुतमात्मन:
Verse 33
तमृषिं साऽभ्युपागम्य कालिंदी चाभ्यवादयत्  तामभ्यवदद्विप्र: पुत्रेप्सुं पुत्रजन्मनि
Verse 34
तव कुक्षौ महाभागे सुपुत्रस्सुमहाबल: महावीर्यो महातेजा अचिरात्सञ्जनिष्यति गरेण सहित श्श्रीमान् मा शुच: कमलेक्षणे
Verse 35
तव कुक्षौ महाभागे सुपुत्रस्सुमहाबल: महावीर्यो महातेजा अचिरात्सञ्जनिष्यति गरेण सहित श्श्रीमान् मा शुच: कमलेक्षणे
Verse 36
च्यवनं तु नमस्कृत्य राजपुत्री पतिव्रता पतिशोकातुरा तस्मात्पुत्रं देवी व्यजायत
Verse 37
सपत्न्या तु गरस्तस्यै दत्तो गर्भजिघांसया सह तेन गरेणैव जात:  सगरोऽभवत्
Verse 38
सगरस्यासमञ्जस्तु असमञ्जात्तथांऽशुमान् दिलीपोंऽशुमत: पुत्रो दिलीपस्य भगीरथ:
Verse 39
भगीरथात्ककुत्स्थश्च ककुत्स्थस्य रघुस्सुत: रघोस्तु पुत्रस्तेजस्वी प्रवृद्ध: पुरुषादक: कल्माषपादो ह्यभवत्तस्माज्जातस्तु शंखण:
Verse 40
सुदर्शन: शङ्घणस्य अग्निवर्ण स्सुदर्शनात् शीघ्रगस्त्वग्निवर्णस्य शीघ्रगस्य मरु स्सुत: मरो: प्रशुश्रुकस्त्वासीदम्बरीष: प्रशुश्रृकात्
Verse 41
सुदर्शन: शङ्घणस्य अग्निवर्ण स्सुदर्शनात् शीघ्रगस्त्वग्निवर्णस्य शीघ्रगस्य मरु स्सुत: मरो: प्रशुश्रुकस्त्वासीदम्बरीष: प्रशुश्रृकात्
Verse 42
अम्बरीषस्य पुत्रोऽभून्नहुष: पृथिवीपति: नहुषस्य ययातिस्तु नाभागस्तु ययातिज:
Verse 43
नाभागस्य बभूवाज: अजाद्दशरथोऽभवत् अस्माद्दशरथाज्जातौ भ्रातरौ रामलक्ष्मणौ
0:000:00
Speed: