🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 4 • Chapter 1

Sarga 1

130 verses

Verse 1
 तां पुष्करिणीं गत्वा पद्मोत्पलझषाकुलाम् रामस्सौमित्रि सहितो विललापाकुलेन्द्रियः
Verse 2
तस्य दृष्ट्वैव तां हर्षादिन्द्रियाणि चकम्पिरे  कामवशमापन्नस्सौमित्रिमिदमब्रवीत्
Verse 3
सौमित्रे शोभते पम्पा वैदूर्यविमलोदका फुल्लपद्मोत्पलवती शोभिता विविधैर्द्रुमैः
Verse 4
सौमित्रे पश्य पम्पायाः काननं शुभदर्शनम् यत्र राजन्ति शैला वा द्रुमास्सशिखरा इव
Verse 5
मां तु शोकाभिसन्तप्तं माधवः पीडयन्ति वै भरतस्य  दुःखेन वैदेह्या हरणेन 
Verse 6
शोकार्तस्यापि मे पम्पा शोभते चित्रकानना व्यवकीर्णा बहुविधैः पुष्पैश्शीतोदका शिवा
Verse 7
नलिनैरपि सञ्छन्ना ह्यत्यर्थशुभदर्शना सर्पव्यालानुचरिता मृगद्विजसमाकुला
Verse 8
अधिकं प्रविभात्येतन्नीलपीतं तु शाद्वलम् द्रुमाणां विविधैः पुष्पैः परिस्तोमैरिवार्पितम्
Verse 9
पुष्पभारसमृद्धानि शिखराणि समन्ततः लताभिः पुष्पिताग्राभिरुपगूढानि सर्वशः
Verse 10
सुखानिलोऽयं सौमित्रे कालः प्रचुरमन्मथः गन्धवान्सुरभिर्मासो जातपुष्पफलद्रुमः
Verse 11
पश्य रूपाणि सौमित्रे वनानां पुष्पशालिनाम् सृजतां पुष्पवर्षाणि तोयं तोयमुचामिव
Verse 12
प्रस्तरेषु  रम्येषु विविधाः काननद्रुमाः वायुवेगप्रचलिताः पुष्पैरवकिरन्ति गाम्
Verse 13
पतितैः पतमानैश्च पादपस्थैश्च मारुतः कुसुमैः पश्य सौमित्रे क्रीडन्निव समन्ततः
Verse 14
विक्षिपन्विविधाश्शाखा नगानां कुसुमोत्कचाः मारुतश्चलितस्थानैष्षट्पदैरनुगीयते
Verse 15
मत्तकोकिलसन्नादैर्नर्तयन्निव पादपान् शैलकन्दरनिष्क्रान्तः प्रगीत इव चानिलः
Verse 16
तेन विक्षिपताऽत्यर्थं पवनेन समन्ततः अमी संसक्तशाखाग्रा ग्रथिता इव पादपाः
Verse 17
 एष सुखसंस्पर्शो वाति चन्दनशीतलः गन्धमभ्यवहन्पुण्यं श्रमापनयनोऽनिलः
Verse 18
अमी पवनविक्षिप्ता विनदन्तीव पादपाः षट्पदैरनुकूजन्तो वनेषु मधुगन्धिषु
Verse 19
गिरिप्रस्थेषु रम्येषु पुष्पवद्भिर्मनोरमैः संसक्तशिखराश्शैला विराजन्ते महाद्रुमैः
Verse 20
पुष्पसञ्छन्नशिखरा मारुतोत्क्षेपचञ्चलाः अमी मधुकरोत्तंसाः प्रगीता इव पादपाः
Verse 21
सुपुष्पितांस्तु पश्येमान्कर्णिकारांत्समन्ततः हाटकप्रतिसञ्छन्नान्नरान्पीताम्बरानिव
Verse 22
अयं वसन्तस्सौमित्रे नानाविहगनादितः सीतया विप्रहीनस्य शोकसन्दीपनो मम
Verse 23
मां हि शोकसमाक्रान्तं सन्तापयति मन्मथः हृष्टः प्रवदमानश्च ममाह्वयति कोकिलः
Verse 24
एष दात्यूहको हृष्टो रम्ये मां वननिर्झरे प्रणदन्मन्मथाविष्टं शोचयिष्यति लक्ष्मण
Verse 25
श्रुत्वैतस्य पुरा शब्दमाश्रमस्था मम प्रिया मामाहूय प्रमुदिताः परमं प्रत्यनन्दत
Verse 26
एवं विचित्राः पतगा नानारावविराविणः वृक्षगुल्मलताः पश्य सम्पतन्ति समन्ततः
Verse 27
विमिश्रा विहगाः पुम्भिरात्मव्यूहाभिनन्दिताः भृङ्गराजप्रमुदितास्सौमित्रे मधुरस्वनाः
Verse 28
दात्यूहरतिविक्रन्दैः पुंस्कोकिलरुतैरपि स्वनन्ति पादपाश्चेमे ममानङ्गप्रदीपनाः
Verse 29
अशोकस्तबकाङ्गारष्षट्पदस्वननिःस्वनः मां हि पल्लवताम्रार्चिर्वसन्ताग्निः प्रधक्ष्यति
Verse 30
 हि तां सूक्ष्मपक्ष्माक्षीं सुकेशीं मृदुभाषिणीम् अपश्यतो मे सौमित्रे जीवितेऽस्ति प्रयोजनम्
Verse 31
अयं हि दयितस्तस्याः कालो रुचिरकाननः कोकिलाकुलसीमान्तो दयिताया ममानघ
Verse 32
मन्मथाऽयाससम्भूतो वसन्तगुणवर्धितः अयं मां धक्ष्यति क्षिप्रं शोकाग्निर्नचिरादिव
Verse 33
अपश्यतस्तां दयितां पश्यतो रुचिरद्रुमान् ममायमात्मप्रभवो भूयस्त्वमुपयास्यति
Verse 34
अदृश्यमाना वैदेही शोकं वर्धयते मम दृश्यमानो वसन्तश्च स्वेदसंसर्गदूषकः
Verse 35
मां ह्यद्य मृगशाबाक्षी चिन्ताशोकबलात्कृतम् सन्तापयति सौमित्रे क्रूरश्चैत्रवनानिलः
Verse 36
अमी मयूराश्शोभन्ते प्रनृत्यन्तस्ततस्ततः स्वैः पक्षैः पवनोद्धूतैर्गवाक्षैः स्फाटिकैरिव
Verse 37
शिखिनीभिः परिवृतास्ते एते मदमूर्छिताः मन्मथाभिपरीतस्य मम मन्मथवर्धनाः
Verse 38
पश्य लक्ष्मण नृत्यन्तं मयूरमुपनृत्यति शिखिनी मन्मथार्तैषा भर्तारं गिरिसानुनि
Verse 39
तामेव मन्मथाविष्टो मयूरोऽप्युपधावति वितत्य रुचिरौ पक्षौ रुतैरुपहसन्निव
Verse 40
मयूरस्य वने नूनं रक्षसा  हृता प्रिया तस्मान्नृत्यति रम्येषु वनेषु सह कान्तया
Verse 41
मम त्वयं विना वासः पुष्पमासे सुदुस्सहः पश्य लक्ष्मण संरागः तिर्यग्योनिगतेष्वपि यदेषा शिखिनी कामाद्भर्तारं रमतेऽन्तिके
Verse 42
मामप्येवं विशालाक्षी जानकी जातसम्भ्रमा मदनेनाभिवर्तेत यदि नाऽपहृता भवेत्
Verse 43
पश्य लक्ष्मण पुष्पाणि निष्फलानि भवन्ति मे पुष्पभारसमृद्धानां वनानां शिशिरात्यये
Verse 44
रुचिराण्यपि पुष्पाणि पादपानामतिश्रिया निष्फलानि महीं यान्ति समं मधुकरोत्करैः
Verse 45
नदन्ति कामं शकुना मुदितास्सङ्घशः कलम् आह्वयन्त इवान्योन्यं कामोन्मादकरा मम
Verse 46
वसन्तो यदि तत्रापि यत्र मे वसति प्रिया नूनं परवशा सीता सापि शोचत्यहं यथा
Verse 47
नूनं  तु वसन्तोऽतं देशं स्पृशति यत्र सा कथं ह्यसितपद्माक्षी वर्तयेत्सा मया विना
Verse 48
अथवा वर्तते तत्र वसन्तो यत्र मे प्रिया किं करिष्यति सुश्रोणी सा तु निर्भर्त्सिता परैः
Verse 49
श्यामा पद्मपलाशाक्षी मृदुपूर्वाभिभाषिणी नूनं वसन्तमासाद्य परित्यक्ष्यति जीवितम्
Verse 50
दृढं हि हृदये बुद्धिर्मम सम्परिवर्तते नालं वर्तयितुं सीता साध्वी मद्विरहं गता
Verse 51
मयि भावस्तु वैदेह्यास्तत्त्वतो विनिवेशितः ममापि भावस्सीतायां सर्वथा विनिवेशितः
Verse 52
एष पुष्पवहो वायुस्सुखस्पर्शो हिमावहः तां विचिन्तयतः कान्तां पावकप्रतिमो मम
Verse 53
सदा सुखमहं मन्ये यं पुरा सह सीतया मारुतस्स विना सीतां शोकं वर्धयते मम
Verse 54
तां विना विहङ्गो यः पक्षी प्रणदितस्तदा वायसः पादपगतः प्रहृष्टमभिनर्दति
Verse 55
एष वै तत्र वैदेह्या विहगः प्रतिहारकः पक्षी मां तु विशालाक्ष्यास्समीपमुपनेष्यति
Verse 56
शृणु लक्ष्मण सन्नादं वने मद्विवर्धनम् पुष्पिताग्रेषु वृक्षेषु द्विजानामुपकूजताम्
Verse 57
विक्षिप्तां पवनेनैतामसौ तिलकमञ्जरीम् षट्पदस्सहसाऽभ्येति मदोद्धूतामिव प्रियाम्
Verse 58
कामिनामयमत्यन्तमशोकश्शोकवर्धनः स्तबकैः पवनोत्क्षिप्तैस्तर्जयन्निव मां स्थितः
Verse 59
अमी लक्ष्मण दृश्यन्ते चूताः कुसुमशालिनः विभ्रमोत्सिक्तमनसः साङ्गरागा नरा इव
Verse 60
सौमित्रे पश्य पम्पायाश्चित्रासु वनराजिषु किन्नरा नरशार्दूल विचरन्ति ततस्ततः
Verse 61
इमानि शुभगन्धीनि पश्य लक्ष्मण सर्वशः नलिनानि प्रकाशन्ते जले तरुणसूर्यवत्
Verse 62
एषा प्रसन्नसलिला पद्मनीलोत्पलायुता हंसकारण्डवाकीर्णा पम्पा सौगन्धिकान्विता
Verse 63
जले तरुणसूर्याभैष्षट्पदाहतकेसरैः पङ्कजैश्शोभते पम्पा समन्तादभिसंवृता
Verse 64
चक्रवाकयुता नित्यं चित्रप्रस्तवनान्तरा मातङ्गमृगयूथैश्च शोभते सलिलार्थिभिः
Verse 65
पवनाहतवेगाभिरूर्मिभिर्विमलेऽम्भसि पङ्कजानि विराजन्ते ताड्यमानानि लक्ष्मण
Verse 66
पद्मपत्रविशालाक्षीं सततं पङ्कजप्रियाम् अपश्यतो मे वैदेहीं जीवितं नाभिरोचते
Verse 67
अहो कामस्य वामत्वं यो गतामपि दुर्लभाम् स्मारयिष्यति कल्याणीं कल्याणतरवादिनीम्
Verse 68
शक्यो धारयितुं कामो भवेदभ्यागतो मया यदि भूयो वसन्तो मां  हन्यात्पुष्पितद्रुमः
Verse 69
यानि स्म रमणीयानि तया सह भवन्ति मे तान्येवारमणीयानि जायन्ते मे तया विना
Verse 70
पद्मकोशपलाशानि द्रष्टुं दृष्टिर्हि मन्यते सीताया नेत्रकोशाभ्यां सदृशानीति लक्ष्मण
Verse 71
पद्मकेसरसंसृष्टो वृक्षान्तरविनिस्सृतः निश्श्वास इव सीताया वाति वायुर्मनोहरः
Verse 72
सौमित्रे पश्य पम्पाया दक्षिणे गिरिसानुनि पुष्पितां कर्णिकारस्य यष्टिं परमशोभनाम्
Verse 73
अधिकं शैलराजोऽयं धातुभिः सुविभूषितः विचित्रं सृजते रेणुं वायुवेगविघट्टितम्
Verse 74
गिरिप्रस्थास्तु सौमित्रे सर्वतस्सम्प्रपुष्पितैः निष्पत्रैस्सर्वतो रम्यैः प्रदीप्ता इव किंशुकैः
Verse 75
पम्पातीररुहाश्चेमे संसक्ता मधुगन्धिनः मालतीमल्लिकाषण्डाः करवीराश्च पुष्पिताः
Verse 76
केतक्यस्सिन्दुवाराश्च वासन्त्यश्च सुपुष्पिताः माधव्यो गन्धपूर्णाश्च कुन्दगुल्माश्च सर्वशः
Verse 77
चिरिबिल्वा मधूकाश्च वञ्जुला वकुलास्तथा चम्पकास्तिलकाश्चैव नागवृक्षास्सुपुष्पिताः नीपाश्च वरणाश्चैव खर्जूराश्च सुपुष्पिता
Verse 78
पद्मकाश्चैव शोभन्ते नीलाशोकाश्च पुष्पिताः लोध्राश्च गिरिपृष्ठेषु सिंहकेसरपिञ्जराः
Verse 79
अङ्कोलाश्च कुरण्टाश्च चूर्णकाः पारिभद्रकाः चूताः पाटलयश्चैव कोविदाराश्च पुष्पिताः मुचुकुन्दार्जुनाश्चैव दृश्यन्ते गिरिसानुषु केतकोद्दालकाश्चैव शिरीषाः शिंशुपा धवाः
Verse 80
अङ्कोलाश्च कुरण्टाश्च चूर्णकाः पारिभद्रकाः चूताः पाटलयश्चैव कोविदाराश्च पुष्पिताः मुचुकुन्दार्जुनाश्चैव दृश्यन्ते गिरिसानुषु केतकोद्दालकाश्चैव शिरीषाः शिंशुपा धवाः
Verse 81
शाल्मल्यः किंशुकाश्चैव रक्ताः कुरवकास्तथा त्रिनिशा नक्तमालाश्च चन्दनास्स्यन्दनास्तथा
Verse 82
पुष्पितान्पुष्पिताग्राभिर्लताभिः परिवेष्टितान् द्रुमान्पश्येह सौमित्रे पम्पाया रुचिरान्बहून्
Verse 83
पुष्पितान्पुष्पिताग्राभिर्लताभिः परिवेष्टितान् द्रुमान्पश्येह सौमित्रे पम्पाया रुचिरान्बहून्
Verse 84
वातविक्षिप्तविटपान्यथाऽसन्नान्द्रुमानिमान् लतास्समनुवर्तन्ते मत्ता इव वरस्त्रियः
Verse 85
पादपात्पादपं गच्छन् शैलाच्छैलं वनाद्वनम् वाति नैकरसास्वादस्सम्मोदित इवानिलः
Verse 86
केचित्पर्याप्तकुसुमाः पादपा मधुगन्धिनः केचिन्मुकुलसंवीताः श्यामवर्णा इवाबभुः
Verse 87
इदं मृष्टमिदं स्वादु प्रफुल्लमिदमित्यपि रागयुक्तो मधुकरः कुसुमेष्वेव लीयते
Verse 88
निलीय पुनरुत्पत्य सहसाऽन्यत्र गच्छति मधुलुब्धो मधुकरः पम्पातीरद्रुमेष्वसौ
Verse 89
इयं कुसुमसङ्घातैरुपस्तीर्णा सुखाकृता स्वयं निपतितैर्भूमिश्शयनप्रस्तरैरिव
Verse 90
विविधा विविधैः पुष्पैस्तैरेव नगसानुषु विकीर्णै पीतरक्ताहि सौमित्रे प्रस्तराः कृताः
Verse 91
हिमान्ते पश्य सौमित्रे वृक्षाणां पुष्पसम्भवम् पुष्पमासे हि तरवस्सङ्घर्षादिव पुष्पिताः
Verse 92
आह्वयन्त इवान्योन्यं नगाष्षट्पदनादिताः कुसुमोत्तंसविटपाश्शोभन्ते बहु लक्ष्मण
Verse 93
एष कारण्डवः पक्षी विगाह्य सलिलं शुभम् रमते कान्तया सार्धं काममुद्दीपयन्मम
Verse 94
मन्दाकिन्यास्तु यदिदं रूपमेवं मनोहरम् स्थाने जगति विख्याता गुणास्तस्या मनोरमाः
Verse 95
यदि दृश्येत सा साध्वी यदि चेह वसेमहि स्पृहयेयं  शक्राय नायोध्यायै रघूत्तम
Verse 96
नह्येवं रमणीयेषु शाद्वलेषु तया सह रमतो मे भवेच्चिन्ता  स्पृहाऽन्येषु वा भवेत्
Verse 97
अमी हि विविधैः पुष्पैस्तरवो रुचिरच्छदाः काननेऽऽस्मिन्विना कान्तां चिन्तामुत्पादयन्ति मे
Verse 98
पश्य शीतजलां चेमां सौमित्रे पुष्करायुताम् चक्रवाकानुचरितां कारण्डव निषेविताम्
Verse 99
प्लवैः क्रौञ्चैश्च सम्पूर्णां महामृगनिषेविताम् अधिकं शोभते पम्पा विकूजद्भिःर्विहङ्गमैः दीपयन्तीव मे कामं विविधा मुदिता द्विजाः श्यामां चन्द्रमुखीं स्मृत्वा प्रियां पद्मनिभेक्षणाम्
Verse 100
प्लवैः क्रौञ्चैश्च सम्पूर्णां महामृगनिषेविताम् अधिकं शोभते पम्पा विकूजद्भिःर्विहङ्गमैः दीपयन्तीव मे कामं विविधा मुदिता द्विजाः श्यामां चन्द्रमुखीं स्मृत्वा प्रियां पद्मनिभेक्षणाम्
Verse 101
पश्य सानुषु चित्रेषु मृगीभिस्सहितान्मृगान् मां पुनर्मृगशाबाक्ष्या वैदेह्या विरहीकृतम् व्यथयन्तीव मे चित्तं सञ्चरन्तस्ततस्ततः
Verse 102
अस्मिन्सानुनि रम्ये हि मत्तद्विजगणायुते पश्येयं यदि तां कान्तां ततस्स्वस्ति भवेन्मम
Verse 103
जीवेयं खलु सौमित्रे मया सह सुमध्यमा सेवते यदि वैदेही पम्पायाः पवनं सुखम्
Verse 104
पद्मसौगन्धिकवहं शिवं शोकविनाशनम् धन्या लक्ष्मण सेवन्ते पम्पोपवनमारुतम्
Verse 105
श्यामा पद्मपलाशाक्षी प्रिया विरहिता मया कथं धारयति प्राणान्विवशा जनकात्मजा
Verse 106
किन्नु वक्ष्यामि राजानं धर्मज्ञं सत्यवादिनम् सीताया जनकं पृष्टः कुशलं जनसंसदि
Verse 107
या मामनुगता मन्दं पित्रा प्रव्राजितं वनम् सीता सत्पथमास्थाय क्व नु सा वर्तते प्रिया
Verse 108
तया विहीनः कृपणः कथं लक्ष्मण धारये या मामनुगता राज्याद्भ्रष्टं विगतचेतसम्
Verse 109
तच्चार्वञ्चितपद्माक्षं सुगन्धि शुभमव्रणम् अपश्यतो मुखं तस्यास्सीदतीव मनो मम
Verse 110
स्मितहास्यान्तरयुतं गुणवन्मधुरं हितम् वैदेह्या वाक्यमतुलं कदा श्रोष्यामि लक्ष्मण
Verse 111
प्राप्य दुखं वने श्यामा मां मन्मथविकर्शितम् नष्टदुःखेव हृष्टेव साध्वी साध्वभ्यभाषत
Verse 112
किं नु वक्ष्यामि कौसल्यामयोध्यायां नृपात्मज क्व सा स्नुषेति पृच्छन्तीं कथं चापि तु मनस्विनीम्
Verse 113
गच्छ लक्ष्मण पश्य त्वं भरतं भ्रातृवत्सलम्  ह्यहं जीवितु शक्तस्तामृते जनकात्मजाम्
Verse 114
इति रामं महात्मानं विलपन्तमनाथवत् उवाच लक्ष्मणो भ्राता वचनं युक्तमव्ययम्
Verse 115
संस्तम्भ राम भद्रं ते मा शुचः पुरुषोत्तम नेदृशानां मतिर्मन्दा भवत्यकलुषात्मनाम्
Verse 116
स्मृत्वा वियोगजं दुःखं त्यज स्नेहं प्रिये जने अतिस्नेहपरिष्वङ्गाद्वर्तिरार्द्रापि दह्यते
Verse 117
यदि गच्छति पातालं ततोऽभ्यधिकमेव वा सर्वथा रावणस्तावन्न भविष्यति राघव
Verse 118
प्रवृत्तिर्लभ्यतां तावत्तस्य पापस्य रक्षसः ततो हास्यति वा सीतां निधनं वा गमिष्यति
Verse 119
यदि यातिदितेर्गर्भं रावणस्सह सीतया तत्राप्येनं हनिष्यामि  चेद्दास्यति मैथिलीम्
Verse 120
स्वास्थ्यं भद्रं भजस्वार्य त्यज्यतां कृपणा मतिः अर्थो हि नष्टकार्यार्थैर्नायत्नेनाधिगम्यते
Verse 121
उत्साहो बलवानार्य नास्त्युत्साहात्परं बलम् सोत्साहस्यास्ति लोकेऽस्मिन्  किञ्चिदपि दुर्लभम्
Verse 122
उत्साहवन्तः पुरुषा नावसीदन्ति कर्मसु उत्साहमात्रमाश्रित्य सीतां प्रतिलभेमहि
Verse 123
त्यज्यतां कामवृत्तत्वं शोकं सन्न्यस्य पृष्ठतः महात्मानं कृतात्मानमात्मानं नावबुध्यसे
Verse 124
एवं सम्बोधितस्तत्र शोकोपहतचेतनः त्यज्य शोकञ्च मोहञ्च ततो धैर्यमुपागमत्
Verse 125
सोऽभ्यतिक्रामदव्यग्रस्तामचिन्त्यपराक्रमः रामः पम्पां सुरुचिरां रम्यपारिप्लवद्रुमाम्
Verse 126
निरीक्षमाणस्सहसा महात्मा सर्वं वनं निर्झरकन्दराश्च उद्विग्नचेतास्सह लक्ष्मणेन विचार्य दुःखोपहतः प्रतस्थे
Verse 127
तं मत्तमातङ्गविलासगामी गच्छन्तमव्यग्रमना महात्मा  लक्ष्मणो राघवमप्रमत्तो ररक्ष धर्मेण बलेन चैव
Verse 128
तावृष्यमूकस्य समीपचारी चरन्ददर्शाद्भुतदर्शनीयौ शाखामृगाणामधिपस्तरस्वी वितत्रसे नैव चिचेष्ट किञ्चित्
Verse 129
 तौ महात्मा गजमन्दगामी शाखामृगस्तत्र चरञ्चरन्तौ दृष्ट्वा विषादं परमं जगाम चिन्तापरीतो भयभारमग्नः
Verse 130
तमाश्रमं पुण्यसुखं शरण्यं सदैव शाखामृगसेवितान्तम् त्रस्ताश्च दृष्ट्वा हरयोऽभिजग्मुर्महौजसौ राघवलक्ष्मणौ तौ
0:000:00
Speed: