🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 4 • Chapter 2

Sarga 2

29 verses

Verse 1
तौ तु दृष्ट्वा महात्मानौ भ्रातरौ रामलक्ष्मणौ वरायुधधरौ वीरौ सुग्रीवश्शङ्कितोऽभवत्4.2.1
Verse 2
उद्विग्नहृदयस्सर्वा दिशस्समवलोकयन्  व्यतिष्ठत कस्मिंश्चिद्देशे वानरपुङ्गवः 4.2.2
Verse 3
नैव चक्रे मनः स्थातुं वीक्षमाणो महाबलौ कपेः परमभीतस्य चित्तं व्यवससाद ह4.2.3
Verse 4
चिन्तयित्वा  धर्मात्मा विमृश्य गुरुलाघवम् सुग्रीवः परमोद्विग्नस्सर्वैरनुचरैस्सह4.2.4
Verse 5
ततस्स सचिवेभ्यस्तु सुग्रीवः प्लवगाधिपः शशंस परमोद्विग्नः पश्यंस्तौ रामलक्ष्मणौ4.2.5
Verse 6
एतौ वनमिदं दुर्गं वालिप्रणिहितौ ध्रुवम् छद्मना चीरवसनौ प्रचरन्ताविहागतौ4.2.6
Verse 7
ततस्सुग्रीवसचिवा दृष्ट्वा परमधन्विनौ जग्मुर्गिरितटात्तस्मादन्यच्छिखरमुत्तमम्4.2.7
Verse 8
ते क्षिप्रमधिगम्याथ यूथपा यूथपर्षभम् हरयो वानरश्रेष्ठं परिवार्योपतस्थिरे4.2.8
Verse 9
एकमेकायनगताः प्लवमाना गिरेर्गिरिम् प्रकम्पयन्तो वेगेन गिरीणां शिखराण्यपि4.2.9
Verse 10
ततश्शाखामृगास्सर्वे प्लवमाना महाबलाः बभञ्जुश्च नगांस्तत्र पुष्पितान्दुर्गसंश्रितान्4.2.10
Verse 11
आप्लवन्तो हरिवरास्सर्वतस्तं महागिरिम् मृगमार्जारशार्दूलांस्त्रासयन्तो ययुस्तदा4.2.11
Verse 12
ततस्सुग्रीवसचिवाः पर्वतेन्द्रं समाश्रिताः सङ्गम्य कपिमुख्येन सर्वे प्राञ्जलय स्थिताः
Verse 13
ततस्तं भयसंविग्नं वालिकिल्बिषशङ्कितम् उवाच हनुमान्वाक्यं सुग्रीवं वाक्यकोविदः4.2.13
Verse 14
सम्भ्रमस्त्यज्यतामेष सर्वैर्वालिकृते महान् मलयोऽयं गिरिवरो भयं नेहास्ति वालिनः4.2.14
Verse 15
यस्मादुद्विग्नचेतास्त्वं प्रद्रुतो हरिपुङ्गव तं क्रूरदर्शनं क्रूरं नेह पश्यामि वालिनम्4.2.15
Verse 16
यस्मात्तव भयं सौम्य पूर्वजात्पापकर्मणः  नेह वाली दुष्टात्मा  ते पश्याम्यहं भयम्4.2.16
Verse 17
अहो शाखामृगत्वं ते व्यक्तमेव प्लवङ्गम लघुचित्ततयाऽत्मानं  स्थापयसि यो मतौ4.2.17
Verse 18
बुद्धिविज्ञानसम्पन्न इङ्गितैस्सर्वमाचर  ह्यबुद्धिं गतो राजा सर्वभूतानि शास्ति हि4.2.18
Verse 19
सुग्रीवस्तु शुभं वाक्यं श्रुत्वा सर्वं हनूमतः ततश्शुभतरं वाक्यं हनूमन्तमुवाच ह4.2.19
Verse 20
दीर्घबाहू विशालाक्षौ शरचापासिधारिणौ कस्य  स्याद्भयं दृष्ट्वा ह्येतौ सुरसुतोपमौ4.2.20
Verse 21
वालिप्रणिहितावेतौ शङ्केऽहं पुरुषोत्तमौ राजानो बहुमित्राश्च विश्वासो नात्र हि क्षमः4.2.21
Verse 22
अरयश्च मनुष्येण विज्ञेयाश्छद्मचारिणः विश्वस्तानामविश्वस्तारन्ध्रेषु प्रहरन्ति हि4.2.22
Verse 23
कृत्येषु वाली मेधावी राजानो बहुदर्शिनः भवन्ति परहन्तारस्ते ज्ञेयाः प्राकृतैर्नरैः4.2.23
Verse 24
तौ त्वया प्राकृतेनैव गत्वा ज्ञेयौ प्लवङ्गम इङ्गितानां प्रकारैश्च रूपव्याभाषणेन च4.2.24
Verse 25
लक्षयस्व तयोर्भावं प्रहृष्टमनसौ यदि विश्वासयन्प्रशंसाभिरिङ्गितैश्च पुनः पुनः4.2.25 ममैवाभिमुखं स्थित्वा पृच्छ त्वं हरिपुङ्गव प्रयोजनं प्रवेशस्य वनस्यास्य धनुर्धरौ4.2.26
Verse 26
लक्षयस्व तयोर्भावं प्रहृष्टमनसौ यदि विश्वासयन्प्रशंसाभिरिङ्गितैश्च पुनः पुनः4.2.25 ममैवाभिमुखं स्थित्वा पृच्छ त्वं हरिपुङ्गव प्रयोजनं प्रवेशस्य वनस्यास्य धनुर्धरौ4.2.26
Verse 27
शुद्धात्मानौ यदि त्वेतौ जानीहि त्वं प्लवङ्गम व्याभाषितैर्वा विज्ञेया स्याद्दुष्टाऽदुष्टता तयोः4.2.27
Verse 28
इत्येवं कपिराजेन सन्दिष्टो मारुतात्मजः चकार गमने बुद्धिं यत्र तौ रामलक्ष्मणौ4.2.28
Verse 29
तथेति सम्पूज्य वचस्तु तस्य तत्कपेस्सुभीमस्य दुरासदस्य  महानुभावो हनुमान्ययौ तदा  यत्र रामोऽतिबलश्च लक्ष्मणः4.2.29
0:000:00
Speed: