Book 4 • Chapter 3
Sarga 3
39 verses
Verse 1
वचो विज्ञाय हनुमान् सुग्रीवस्य महात्मनः पर्वतादृश्यमूकात्तु पुप्लुवे यत्र राघवौ
Verse 2
कपिरूपं परित्यज्य हनुमान्मारुतात्मजः भिक्षुरूपं ततो भेजे शठबुद्धितया कपिः4.3.2
Verse 3
ततस्स हनुमान्वाचा श्लक्ष्णया सुमनोज्ञया विनीतवदुपागम्य राघवौ प्रणिपत्य च आबभाषे तदा वीरौ यथावत्प्रशशंस च
Verse 4
सम्पूज्य विधिवद्वीरौ हनुमान्मारुतात्मजः उवाच कामतो वाक्यं मृदु सत्यपराक्रमौ4.3.4
Verse 5
राजर्षिदेवप्रतिमौ तापसौ संशितव्रतौ देशं कथमिमं प्राप्तौ भवन्तौ वरवर्णिनौ4.3.5 त्रासयन्तौ मृगगणानन्यांश्च वनचारिणः4.3.6
Verse 6
राजर्षिदेवप्रतिमौ तापसौ संशितव्रतौ देशं कथमिमं प्राप्तौ भवन्तौ वरवर्णिनौ4.3.5 त्रासयन्तौ मृगगणानन्यांश्च वनचारिणः4.3.6
Verse 7
पम्पातीररुहान्वृक्षान् वीक्षमाणौ समन्ततः इमां नदीं शुभजलां शोभयन्तौ तपस्विनौ4.3.7 धैर्यवन्तौ सुवर्णाभौ कौ युवां चीरवाससौ निःश्वसन्तौ वरभुजौ पीडयन्ताविमाः प्रजा:4.3.8
Verse 8
पम्पातीररुहान्वृक्षान् वीक्षमाणौ समन्ततः इमां नदीं शुभजलां शोभयन्तौ तपस्विनौ4.3.7 धैर्यवन्तौ सुवर्णाभौ कौ युवां चीरवाससौ निःश्वसन्तौ वरभुजौ पीडयन्ताविमाः प्रजा:4.3.8
Verse 9
सिंहविप्रेक्षितौ वीरौ महाबलविक्रमौ शक्रचापनिभे चापे गृहीत्वा शत्रुसूदनौ4.3.9 श्रीमन्तौ रूपसम्पन्नौ वृषभश्रेष्ठविक्रमौ हस्तिहस्तोपमभुजौ द्युतिमन्तौ नरर्षभौ4.3.10
Verse 10
सिंहविप्रेक्षितौ वीरौ महाबलविक्रमौ शक्रचापनिभे चापे गृहीत्वा शत्रुसूदनौ4.3.9 श्रीमन्तौ रूपसम्पन्नौ वृषभश्रेष्ठविक्रमौ हस्तिहस्तोपमभुजौ द्युतिमन्तौ नरर्षभौ4.3.10
Verse 11
प्रभया पर्वतेन्द्रोऽयं युवयोरवभासितः राज्यार्हावमरप्रख्यौ कथं देशमिहागतौ4.3.11
Verse 12
पद्मपत्रेक्षणौ वीरौ जटामण्डलधारिणौ अन्योन्यसदृशौ वीरौ देवलोकादिवागतौ4.3.12 यदृच्छयेव सम्प्राप्तौ चन्द्रसूर्यौ वसुन्धराम् विशालवक्षसौ वीरौ मानुषौ देवरूपिणौ4.3.13 सिंहस्कन्धौ महोत्साहौ समदाविव गोवृषौ
Verse 13
पद्मपत्रेक्षणौ वीरौ जटामण्डलधारिणौ अन्योन्यसदृशौ वीरौ देवलोकादिवागतौ4.3.12 यदृच्छयेव सम्प्राप्तौ चन्द्रसूर्यौ वसुन्धराम् विशालवक्षसौ वीरौ मानुषौ देवरूपिणौ4.3.13 सिंहस्कन्धौ महोत्साहौ समदाविव गोवृषौ
Verse 14
आयताश्च सुवृत्ताश्च बाहवः परिघोपमाः सर्वभूषणभूषार्हाः किमर्थं न विभूषिताः4.3.14
Verse 15
उभौ योग्यावहं मन्ये रक्षितुं पृथिवीमिमाम् ससागरवनां कृत्स्नां विन्ध्यमेरुविभूषिताम्4.3.15
Verse 16
इमे च धनुषी चित्रे श्लष्णे चित्रानुलेपने प्रकाशेते यथेन्द्रस्य वज्रे हेमविभूषिते4.3.16
Verse 17
सम्पूर्णा निशितैर्बाणै स्तूणाश्च शुभदर्शनाः4.3.17 जीवितान्तकरैर्घोरै श्श्वसद्भिरिव पन्नगैः
Verse 18
महाप्रमाणौ विस्तीर्णौ तप्तहाटकभूषितौ4.3.18 खडगावेतौ विराजेते निर्मुक्ताविवपन्नगौ
Verse 19
एवं मां परिभाषन्तं कस्माद्वै नाभिभाषथः4.3.19 सुग्रीवो नाम धर्मात्मा कश्चिद्वानरयूथपः वीरो विनिकृतो भ्रात्रा जगद्भ्रमति दुःखितः4.3.20
Verse 20
एवं मां परिभाषन्तं कस्माद्वै नाभिभाषथः4.3.19 सुग्रीवो नाम धर्मात्मा कश्चिद्वानरयूथपः वीरो विनिकृतो भ्रात्रा जगद्भ्रमति दुःखितः4.3.20
Verse 21
प्राप्तोऽहं प्रेषितस्तेन सुग्रीवेण महात्मना राज्ञा वानरमुख्यानां हनुमान्नाम वानरः4.3.21
Verse 22
युवाभ्यां सह धर्मात्मा सुग्रीवस्सख्यमिच्छति तस्य मां सचिवं वित्तं वानरं पवनात्मजम्4.3.22 भिक्षुरूपप्रतिच्छन्नं सुग्रीवप्रियकाम्यया ऋष्यमूकादिह प्राप्तं कामगं कामरूपिणम्4.3.23
Verse 23
युवाभ्यां सह धर्मात्मा सुग्रीवस्सख्यमिच्छति तस्य मां सचिवं वित्तं वानरं पवनात्मजम्4.3.22 भिक्षुरूपप्रतिच्छन्नं सुग्रीवप्रियकाम्यया ऋष्यमूकादिह प्राप्तं कामगं कामरूपिणम्4.3.23
Verse 24
एवमुक्त्वा तु हनुमांस्तौ वीरौ रामलक्ष्मणौ वाक्यज्ञौ वाक्यकुशलः पुनर्नोवाच किञ्चन4.3.24
Verse 25
एतच्छ्रुत्वा वचन्तस्य रामो लक्ष्मणमब्रवीत् प्रहृष्टवदनश्श्रीमान्भ्रातरं पार्श्वतः स्थितम्4.3.25
Verse 26
सचिवोऽयं कपीन्द्रस्य सुग्रीवस्य महात्मनः तमेव काङ्क्षमाणस्य ममान्तिकमुपागतः4.3.26
Verse 27
तमभ्यभाष सौमित्रे सुग्रीवसचिवं कपिम् वाक्यज्ञं मधुरैर्वाक्यैस्स्नेहयुक्तमरिन्दम
Verse 28
नानृग्वेदविनीतस्य नायजुर्वेद्धारिणः नासामवेदविदुषश्शक्यमेवं विभाषितुम्4.3.28
Verse 29
नूनं व्याकरणं कृत्स्नमनेन बहुधा श्रुतम् बहु व्याहरताऽनेन न किञ्चिदपशब्दितम्4.3.29
Verse 30
न मुखे नेत्रयोर्वापि ललाटे च भ्रुवोस्तथा अन्येष्वपि च गात्रेषु दोषस्संविदितः क्वचित्4.3.30
Verse 31
अविस्तरमसन्दिग्धमविलम्बितमद्रुतम् उरस्थं कण्ठगं वाक्यं वर्तते मध्यमे स्वरे4.3.31
Verse 32
संस्कारक्रमसम्पन्नामद्रुतामविलम्बिताम् उच्चारयति कल्याणीं वाचं हृदयहारिणीम्4.3.32
Verse 33
अनया चित्रया वाचा त्रिस्थानव्यञ्जनस्थया कस्य नाराध्यते चित्तमुद्यतासेररेरपि4.3.33
Verse 34
एवं विधो यस्य दूतो न भवेत्पार्थिवस्य तु सिद्ध्यन्ति हि कथं तस्य कार्याणां गतियोऽनघ4.3.34
Verse 35
एवं गुणगणैर्युक्ता यस्य स्युः कार्यसाधकाः तस्य सिध्यन्ति सर्वाऽर्था दूतवाक्यप्रचोदिताः4.3.35
Verse 36
एवमुक्तस्तु सौमित्रिस्सुग्रीवसचिवं कपिम् अभ्यभाषत वाक्यज्ञो वाक्यज्ञं पवनात्मजम्4.3.36
Verse 37
विदितौ नौ गुणा विद्वंत्सुग्रीवस्य महात्मनः तमेव चाऽवां मार्गावस्सुग्रीवं प्लवगेश्वरम्4.3.37
Verse 38
यथा ब्रवीषि हनुमान्सुग्रीववचनादिह तत्तथा हि करिष्यावो वचनात्तव सत्तम4.3.38
Verse 39
तत्तस्य वाक्यं निपुणं निशम्य प्रहृष्टरूपः पवनात्मजः कपिः मनस्समाधाय जयोपपत्तौ सख्यं तदा कर्तुमियेष ताभ्याम्4.3.39
0:000:00
Speed: