🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 4 • Chapter 25

Sarga 25

52 verses

Verse 1
सुग्रीवं चैव तारां  साङ्गदं सहलक्ष्मणः समानशोकः काकुत्स्थ स्सान्त्वयन्निदमब्रवीत्
Verse 2
 शोकपरितापेन श्रेयसा युज्यते मृतः यदत्रानन्तरं कार्यं तत्समाधातुमर्हथ4.25.2
Verse 3
लोकवृत्तमनुष्ठेयं कृतं वो बाष्पमोक्षणम्  कालादुत्तरं किञ्चित्कर्म शक्यमुपासितुम्4.25.3
Verse 4
नियतिः कारणं लोके नियतिः कर्मसाधनम् नियतिस्सर्वभूतानां नियोगेष्विह कारणम्4.25.4
Verse 5
 कर्ता कस्यचित्कश्चिन्नियोगे चापिनेश्वरः स्वभावे वर्तते लोकस्तस्य कालः परायणम्4.25.5
Verse 6
 कालः कालमत्येति  कालः परिहीयते स्वभावं  समासाद्य  कश्चिदतिवर्तते4.25.6
Verse 7
 कालस्यास्ति बन्धुत्वं  हेतुर्न पराक्रमः  मित्रज्ञातिसम्बन्धः कारणं नात्मनो वशः4.25.7
Verse 8
किं तु कालपरीणामो द्रष्टव्यस्साधु पश्यता धर्मश्चार्थश्च कामश्च कालक्रमसमाहिताः4.25.8
Verse 9
इतस्स्वां प्रकृतिं वाली गतःप्राप्तः क्रियाफलम् धर्मार्थकाम संयोगैः पवित्रं प्लवगेश्वरः4.25.9
Verse 10
स्वधर्मस्य  संयोगाज्जितस्तेन महात्मना स्वर्गः परिगृहीतश्च प्राणानपरिरक्षता4.25.10
Verse 11
एषा वै नियतिश्शेष्ठा यां गतो हरियूथपः तदलं परितापेन प्राप्तकालमुपास्यताम्4.25.11
Verse 12
वचनान्ते तु रामस्य लक्ष्मणः परवीरहा अवदत्प्रश्रितं वाक्यं सुग्रीवं गतचेतसम्4.25.12
Verse 13
कुरु त्वमस्य सुग्रीव प्रेतकार्यमनन्तरम् ताराङ्गदाभ्यां सहितो वालिनो दहनं प्रति
Verse 14
समाज्ञापय काष्ठानि शुष्कानि  बहूनि  चन्दनादीनि दिव्यानि वालिसंस्कारकारणात्4.25.14
Verse 15
समाश्वासय चैनं त्वमङ्गदं दीनचेतसम् मा भूर्बालिशबुद्धिस्त्वं त्वदधीनमिदं पुरम्4.25.15
Verse 16
अङ्गदस्त्वानयेन्माल्यं वस्त्राणि विविधानि  घृतं तैलमथो गन्धान्यच्चात्र समनन्तरम्4.25.16
Verse 17
त्वं तार शिबिकां शीघ्रमादायागच्छ सम्भ्रमात् त्वरा गुणवती युक्ता ह्यस्मिन्काले विशेषतः4.25.17
Verse 18
सज्जीभवन्तु प्लवगाश्शिबिकावाहनोचिताः समर्था बलिनश्चैव निर्हरिष्यन्ति वालिनम्
Verse 19
एवमुक्त्वा तु सुग्रीवं सुमित्रानन्दवर्धनः तसौ भ्रातृसमीपस्थो लक्ष्मणः परवीरहा4.25.19
Verse 20
लक्ष्मणस्य वचश्श्रुत्वा तारस्सम्भ्रान्तमानसः प्रविवेश गुहां शीघ्रं शिबिकासक्तमानसः4.25.20
Verse 21
आदाय शिबिकां तारस्स तु पर्यापतत्पुनः वानरैरुह्यमानां तां शूरैरुद्वहनोचितैः4.25.21
Verse 22
दिव्यां भद्रासनयुतां शिबिकां स्यन्दनोपमाम् पक्षिकर्मभिराचित्रां द्रुमकर्मविभूषिताम्4.25.22 आचितां चित्रपत्तीभि स्सुनिविष्टां समन्ततः विमानमिव सिद्धानां जालवातायनान्विताम्4.25.23 सुनियुक्तां विशालां  सुकृतां विश्वकर्मणा दारुपर्वतकोपेतां चारुकर्मपरिष्कृताम्4.25.24 वराभरणहारैश्च चित्रमाल्योपशोभिताम् गुहागहनसञ्छन्नां रक्तचन्दनभूषिताम्4.25.25 पुष्पौघैस्समभिच्छन्नां पद्ममालाभिरेव  तरुणादित्यवर्णाभिर्भ्राजमानाभिरावृताम्4.25.26
Verse 23

Verse 24

Verse 25

Verse 26
ईदृशीं शिबिकां दृष्ट्वा रामो लक्ष्मणमब्रवीत् क्षिप्रं विनीयतां वाली प्रेतकार्यं विधीयताम्4.25.26
Verse 27
ततो वालिनमुद्यम्य सुग्रीवश्शिबिकां तदा आरोपयत विक्रोशन्नङ्गदेन सहैव तु4.25.27
Verse 28
आरोप्य शिबिकां चैव वालिनं गतजीवितम् अलङ्कारैश्च विविधैर्माल्यैर्वस्त्रैश्च भूषितम्4.25.28
Verse 29
आज्ञापयत्तदा राजा सुग्रीव प्लवगेश्वरः और्ध्वदैहिकमार्यस्य क्रियतामनुरूपतः
Verse 30
विश्राणयन्तो रत्नानि विविधानि बहून्यपि अग्रतः प्लवगा यान्तु शिबिका समनन्तरम्4.25.30
Verse 31
राज्ञामृद्दिविशेषा हि दृश्यन्ते भुवि यादृशाः तादृशैरिह कुर्वन्तु वानरा भर्तृसत्क्रियाम्4.25.31
Verse 32
तादृशं वालिनः क्षिप्रं प्राकुर्वन्नौर्ध्वदैहिकम् अङ्गदं परिगृह्याऽशु तारप्रभृतयस्तदा4.25.32 क्रोशन्तः प्रययुस्सर्वे वानरा हतबान्धवाः
Verse 33
ततः प्रणिहिताः सर्वा वानर्योस्य वशानुगाः4.25.33 चुक्रुशु र्वीर वीरेति भूयः क्रोशन्ति ताः स्त्रीयः
Verse 34
ताराप्रभृतयस्सर्वा वानर्यो हरियूथपाः अनुजग्मुर्हि भर्तारं क्रोशन्त्यः करुणस्वनाः4.25.34
Verse 35
तासां रुदितशब्देन वानरीणां वनान्तरे वनानि गिरयश्चैव विक्रोशन्तीव सर्वतः4.25.35
Verse 36
पुलिने गिरिनद्यास्तु विविक्ते जलसंवृते4.25.36 चितां चक्रुस्सुबहवो वानराश्शोककर्शिता:
Verse 37
अवरोप्य ततस्स्कन्धाच्छिबिकां वाहनोचिताः तस्थुरेकान्तमाश्रित्य सर्वे शोकसमन्विता:4.25.37
Verse 38
ततस्तारा पतिं दृष्ट्वा शिबिकातलशायिनम्4.25.38 आरोप्याङ्के शिरस्तस्य विललाप सुदुःखिता
Verse 39
हा वानर महाराज हा नाथ मम वत्सल4.25.39 हा महार्ह महाबाहो हा मम प्रिय पश्य माम् जनं  पश्यसीमं त्वं कस्माच्छोकाभिपीडितम् 4.25.40
Verse 40
हा वानर महाराज हा नाथ मम वत्सल4.25.39 हा महार्ह महाबाहो हा मम प्रिय पश्य माम् जनं  पश्यसीमं त्वं कस्माच्छोकाभिपीडितम् 4.25.40
Verse 41
प्रहृष्टमिव ते वक्त्रं गतासोरपि मानद आस्तार्कसमवर्णं  लक्ष्यते जीवतो यथा4.25.41
Verse 42
एष त्वां रामरूपेण कालः कर्षति वानर येन स्म विधवास्सर्वाः कृता एकेषुणा वने4.25.42
Verse 43
इमास्तास्तव राजेन्द्र वानर्योवल्लभास्सदा पादैर्विकृष्ट मध्वानमागताः किं  बुध्यसे4.25.43
Verse 44
तवेष्टा ननु नामैता भार्याश्चन्द्रनिभाननाः इदानीं नेक्षसे कस्तात्सुग्रीवं प्लवगेश्वरम्4.25.44
Verse 45
एते हि सचिवा राजं स्तारप्रभृतयस्तव पुरवासी जनश्चायं परिवार्यासतेऽनघ4.25.45
Verse 46
विसर्जयैतान् प्लवगान्यथोचितमरिन्दम ततः क्रीडामहे सर्वा वनेषु मदनोत्कटाः4.25.46
Verse 47
एवं विलपतीं तारां पतिशोकपरिप्लुताम् उत्थापयन्ति स्म तदा वानर्यश्शोककर्शिताः4.25.47
Verse 48
सुग्रीवेण ततस्सार्धंमङ्गदः पितरं रुदन् चितामारोपयामास शोकेनाभिहतेन्द्रियः4.25.48
Verse 49
ततोऽग्निं विधिवद्दत्त्वा सोऽपसव्यं चकार  पितरं दीर्घमध्वानं प्रस्थितं व्याकुलेन्द्रियः4.25.49
Verse 50
संस्कृत्य वालिनं ते तु विधिपूर्वं प्लवङ्गमाः आजग्मुरुदकं कर्तुं नदीं शुभजलां शिवाम्4.25.50
Verse 51
ततस्ते सहितास्तत्र ह्यङ्गदं स्थाप्य चाग्रतः सुग्रीवतारासहितास्सिषिचुर्वालिने जलम्4.25.51
Verse 52
सुग्रीवेणेव दीनेन दीनो भूत्वा महाबलः समानशोकः काकुत्स्थ: प्रेतकार्याण्यकारयत्4.25.52
0:000:00
Speed: