🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 4 • Chapter 24

Sarga 24

44 verses

Verse 1
तां चाश्रुवेगेन दुरासदेन त्वभिप्लुतां शोकमहार्णवेन पश्यंस्तदा वाल्यनुजस्तरस्वी भ्रातुर्वधेनाप्रतिमेन तेपे4.24.1
Verse 2
 बाष्पपूर्णेन मुखेन वीक्ष्य क्षणेन निर्विण्णमना मनस्वी जगाम रामस्य शनैस्समीपं भृत्यैर्वृतसम्परिदूयमानः4.24.2
Verse 3
 तं समासाद्य गृहीतचाप मुदात्तमाशीविषतुल्यबाणम् यशस्विनं लक्षणलक्षिताङ्ग मवस्थितं राघव मित्युवाच4.24.3
Verse 4
यथा प्रतिज्ञातमिदं नरेन्द्र कृतं त्वया दृष्टफलं  कर्म ममाद्य भोगेषु नरेन्द्रपुत्र मनो निवृत्तं सहजीवितेन4.24.4
Verse 5
अस्यां महिष्यां तु भृशं रुदन्त्या पुरे  विक्रोशति दुःखतप्ते हतेऽग्रजे संशयितेऽङ्गदे   राम राज्ये रमते मनो मे4.24.5
Verse 6
क्रोधादमर्षादतिविप्रधर्षा द्भ्रातुर्वधो मेऽनुमतः पुरस्तात् हते त्विदानीं हरियूथपेऽस्मिन् सुतीव्रमिक्ष्वाकुकुमार तप्स्ये
Verse 7
श्रेयोऽद्य मन्ये मम शैलमुख्ये तस्मिन्निवासश्चिरमृश्यमूके यथा तथा वर्तयतस्स्ववृत्त्या नेमं निहत्य त्रिदिवस्य लाभः4.24.7
Verse 8
 त्वां जिघांसामि चरेति यन्मा मयं महात्मा मतिमानुवाच तस्यैव तद्राम वचोऽनुरूप मिदं पुनः कर्म  मेऽनुरूपम्4.24.8
Verse 9
भ्राता कथं नाम महागुणस्य भ्रातुर्वधं राघव रोचयेत राज्यस्य दुःखस्य  वीर सारं विचिन्तयन्कामपुरस्कृतऽस्सन्4.24.9
Verse 10
वधो हि मे मतो नासीत्स्वमाहात्म्याव्यतिक्रमात् ममाऽसीद्बुद्धिदौरात्म्यात्प्राणहारी व्यतिक्रमः4.24.10
Verse 11
द्रुमशाखावभग्नोऽहं मुहुर्तं परिनिष्टनन् सान्त्वयित्वा त्वनेनोक्तो  पुनः कर्तुमर्हसि4.24.11
Verse 12
भ्रातृत्वमार्यभावश्च धर्मश्चानेन रक्षितः मया क्रोधश्च कामश्च कपित्वं  प्रदर्शितम्4.24.12
Verse 13
अचिन्तनीयं परिवर्जनीय मनीप्सनीयं स्वनवेक्षणीयम् प्राप्तोऽस्मि पाप्मानमिमं नरेन्द्र भ्रातुर्वधात्त्वाष्ट्रवधादिवेन्द्र:4.24.13
Verse 14
पाप्मानमिन्द्रस्य मही जलं  वृक्षाश्च कामं जगृहुः स्त्रियश्च को नाम पाप्मानमिमं क्षमेत शाखामृगस्य प्रतिपत्तुमिच्छेत्
Verse 15
नार्हामि सम्मानमिमं प्रजानां  यौवराज्यं कुत एव राज्यम् अधर्मयुक्तं कुलनाशयुक्त मेवंविधं राघव कर्म कृत्वा4.24.15
Verse 16
पापस्य कर्ताऽस्मि विगर्हितस्य क्षुद्रस्य लोकापकृतस्य चैव शोको महान्मामभिवर्ततेऽयं वृष्टेर्यथा निम्नमिवाम्बुवेगः4.24.16
Verse 17
सोदर्यघातापरगात्रवालः सन्तापहस्ताक्षिशिरोविषाणः एनोमयो मामभिहन्ति हस्ती दृप्तो नदीकूलमिव प्रवृद्धः
Verse 18
अंहो बतेदं नृवराविषह्यं निवर्तते मे हृदि साधुवृत्तम् विवर्णमग्नौ परितप्यमानं किट्टं यथा राघव जातरूपम्4.24.18
Verse 19
महाबलानां हरियूथपाना मिदं कुलं राघव मन्निमित्तम् अस्याङ्गदप्यापि  शोकतापा दर्धस्थितप्राणमितीव मन्ये
Verse 20
सुतस्सुलभ्यस्सुजनस्सुवश्यः कुतस्तु पुत्रस्सदृशोऽङ्गदेन  चापि विद्येत  वीर देशो यस्मिन्भवेत्सोदरसन्निकर्षः4.24.20
Verse 21
यद्यङ्गदो वीरवरार्ह जीवेत् जीवेच्छ माता परिपालनार्थम् विना तु पुत्रं परितापदीना तारा  जीवेदिति निश्चितं मे4.24.21
Verse 22
सोऽहं प्रवेक्ष्याम्यतिदीप्तमग्निं भ्रात्रा  पुत्रेण  सख्यमिच्छन् इमे विचेष्यन्ति हरिप्रवीरा स्सीतां निदेशे तव वर्तमानाः4.24.22
Verse 23
कृत्स्नं तु ते सेत्स्यति कार्यमेत न्मय्यप्रतीते मनुजेन्द्रपुत्र कुलस्य हन्तारमजीवनार्हं रामानुजानीहि कृतागसं माम्4.24.23
Verse 24
इत्येवमार्तस्य रघुप्रवीरः श्रुत्वा वचो वाल्यनुजस्य तस्य सञ्जातबाष्पः परवीरहन्ता रामो मुहूर्तं विमना बभूव4.24.24
Verse 25
तस्मिन् क्षणेऽभीक्ष्णमवेक्ष्यमाणः क्षितिक्षमावान्भुवनस्य गोप्ता रामो रुदन्तीं व्यसने निमग्नां समुत्सुकः सोऽथ ददर्श ताराम्4.24.25
Verse 26
तां चारुनेत्रां कपिसिंहनाथां पतिं समाश्लिष्य तदा शयानाम् उत्थापयामासुरदीनसत्त्वां मन्त्रिप्रधानाः कपिवीरपत्नीम्4.24.26
Verse 27
सा विस्फुरन्ती परिरभ्यमाणा भर्तुस्सकाशादपनीयमाना ददर्श रामं शरचापपाणिं स्वतेजसा सूर्यमिव ज्वलन्तम्4.24.27
Verse 28
सुसंवृतं पार्थिपलक्षणैश्च तं चारुनेत्रं मृगशाबनेत्रा अदृष्टपूर्वं पुरुषप्रधान मयं  काकुत्स्थ इति प्रजज्ञे4.24.28
Verse 29
तस्येन्द्रकल्पस्य दुरासदस्य महानुभावस्य समीपमार्या आर्ताऽतितूर्णं व्यसनाभिपन्ना जगाम तारा परिविह्वलन्ती4.24.29
Verse 30
सा तं समासाद्य विशुद्धसत्त्वा शोकेन सम्भ्रान्तशरीरभावा मनस्विनी वाक्यमुवाच तारा रामं रणोत्कर्षणलब्धलक्षम्4.24.30
Verse 31
त्वमप्रमेयश्च दुरासदश्च जितेन्द्रियश्चोत्तमधार्मिकश्च अक्षय्यकीर्तिश्च विचक्षणश्च क्षितिक्षमावान्क्षतजोपमाक्षः4.24.31
Verse 32
त्वमात्तबाणासनबाणपाणि र्महाबलस्संहननोपपन्नः मनुष्यदेहाभ्युदयं विहाय दिव्येन देहाभ्युदयेन युक्तः
Verse 33
येनैक बाणेन हतः प्रियो मे तेनैव मां त्वं जहि सायकेन हता गमिष्यामि समीपमस्य  मामृते राम रमेत वाली4.24.33
Verse 34
स्वर्गेऽपि पद्मामलपत्रनेत्र स्समेत्य सम्प्रेक्ष्य  मामपश्यन्  ह्येष उच्चावचताम्रचूडा विचित्रवेषाप्सरसोऽभजिष्यत्
Verse 35
स्वर्गेऽपि शोकं  विवर्णतां  मया विना प्राप्प्यति वीर वाली रम्ये नगेन्द्रस्य तटावकाशे विदेहकन्यारहितो यथा त्वम्4.24.35
Verse 36
त्वं वेत्थ यावद्वनिताविहीनः प्राप्नोति दुःखं पुरुषः कुमारः तत्त्वं प्रजानन् जहि मां  वाली दुःखं ममादर्शनजं भजेत4.24.36
Verse 37
यच्चापि मन्येत भवान्महात्मा स्त्रीघातदोषो  भवेत्तु मह्यम् आत्मेयमस्येति  मां जहि त्वं  स्त्रीवधस्स्यान्मनुजेन्द्रपुत्र
Verse 38
शास्त्रप्रयोगाद्विविधाच्च वेदा दात्माह्यनन्यः पुरुषस्य दाराः दाराप्रदानान्नहि दानमन्य त्प्रदृश्यते ज्ञानवतां हि लोके4.24.38
Verse 39
त्वं चापि मां तस्य मम प्रियस्य प्रदास्य से धर्ममवेक्ष्य वीर अनेन दानेन  लप्स्यसे त्व मधर्मयोगं मम वीर घातात्4.24.39
Verse 40
आर्तामनाथामपनीयमाना मेवं विधामर्हसि मां निहन्तुम् अहं हि मातङ्गविलासगामिना प्लवङ्गमानामृषभेण धीमता4.24.40 विना वरार्होत्तमहेममालिना चिरं  शक्ष्यामि नरेन्द्र जीवितुम् इत्येवमुक्तस्तु विभुर्महात्मा तारां समाश्वास्य हितं बभाषे4.24.41
Verse 41
आर्तामनाथामपनीयमाना मेवं विधामर्हसि मां निहन्तुम् अहं हि मातङ्गविलासगामिना प्लवङ्गमानामृषभेण धीमता4.24.40 विना वरार्होत्तमहेममालिना चिरं  शक्ष्यामि नरेन्द्र जीवितुम् इत्येवमुक्तस्तु विभुर्महात्मा तारां समाश्वास्य हितं बभाषे4.24.41
Verse 42
मा वीरभार्ये विमतिं कुरुष्व लोको हि सर्वो विहितो विधात्रा तं चैव सर्वं सुखदुःखयोगं लोकोऽब्रवीत्तेन कृतं विधात्रा
Verse 43
त्रयोऽहि लोका विहितं विधानं नातिक्रमन्ते वशगा हि तस्य प्रीतिं परां प्राप्स्यसि तां तथैव पुत्रस्तु ते प्राप्स्यति यौवराज्यम् धात्रा विधानं विहितं तथैव  शूरपत्नयः परिदेवयन्ति4.24.43
Verse 44
आश्वासिता तेन तु राघवेण प्रभावयुक्तेन परन्तपेन सा वीरपत्नी ध्वनता मुखेन सुवेषरूपा विरराम तारा4.24.44
0:000:00
Speed: