Book 4 • Chapter 23
Sarga 23
30 verses
Verse 1
ततस्समुपजिघ्रन्ती कपिराजस्य तन्मुखम् पतिं लोकाच्च्युतं तारा मृतं वचनमब्रवीत्4.23.1
Verse 2
शेषे त्वं विषमे दुःखमकृत्वा वचनं मम उपलोपचिते वीर सुदुःखे वसुधातले4.23.2
Verse 3
मत्तः प्रियतरा नूनं वानरेन्द्र मही तव शेषे हि तां परिष्वज्य मां च न प्रतिभाषसे4.23.3
Verse 4
सुग्रीवस्य वशं प्राप्तो विधिरेषभवत्यहो सुग्रीव एव विक्रान्तो वीर साहसिकप्रिय4.23.4
Verse 5
ऋक्षवानरमुख्यास्त्वां बलिनः पर्युपासते एषां विलपितं कृच्छ्रमङ्गदस्य च शोचतः4.23.5 मम चेमा गिरः श्रुत्वा किं त्वं न प्रतिबुध्यसे
Verse 6
इदं तच्छूरशयनं यत्र शेषे हतो युधि शायिता निहता यत्र त्वयैव रिपवः पुरा4.23.6
Verse 7
विशुद्धसत्त्वाभिजन प्रिययुद्ध मम प्रिय मामनाथां विहायैकां गतस्त्वमसि मानद4.23.7
Verse 8
शूराय न प्रदातव्या कन्या खलु विपश्चिता शूरभार्यां हतां पश्य सद्यो मां विधवां कृताम्4.23.8
Verse 9
अवभग्नश्च मे मानो भग्ना मे शाश्वती गतिः4.23.9 अगाधे च निमग्नाऽस्मि विपुले शोकसागरे
Verse 10
अश्मसारमयं नूनमिदं मे हृदयं दृढम्4.23.10 भर्तारं निहतं दृष्ट्वा यन्नाद्य शतधा कृतम्
Verse 11
सुहृच्चैव हि भर्ता च प्रकृत्या मम च प्रियः आहवे च पराक्रान्तश्शूरः पञ्चत्वमागतः4.23.11
Verse 12
पतिहीना तु या नारी कामं भवतु पुत्रिणी धनधान्यैस्सुपूर्णाऽपि विधवेत्युच्यते बुधैः4.23.12
Verse 13
स्वगात्रप्रभवे वीर शेषे रुधिरमण्डले क्रिमिरागपरिस्तोमे त्वमात्मशयने यथा4.23.13
Verse 14
रेणुशोणितसंवीतं गात्रं तव समन्ततः परिरब्धुं न शक्नोमि भुजाभ्यां प्लवगर्षभ 4.23.14
Verse 15
कृतकृत्योऽद्य सुग्रीवो वैरेऽस्मिन्नतिदारुणे यस्य रामविमुक्तेन हृतमेकेषुणा भयम्4.23.15
Verse 16
शरेण हृदि लग्नेन गात्रसंस्पर्शने तव वार्यामि त्वां निरीक्षन्ती त्वयि पञ्चत्वमागते4.23.16
Verse 17
उद्ववर्ह शरं नीलस्तस्य गात्रगतं तदा गिरिगह्वरसंलीनं दीप्तमाशीविषं यथा4.23.17
Verse 18
तस्य निष्कृष्यमाणस्य बाणस्य च बभौ द्युतिः अस्तमस्तकसंरुद्धो रश्मिर्दिनकरादिव4.23.18
Verse 19
पेतुः क्षतजधारास्तु व्रणेभ्यस्तस्य सर्वशः ताम्रगैरिकसम्पृक्ता धारा इव धराधरात्4.23.19
Verse 20
अवकीर्णं विमार्जन्ती भर्तारं रणरेणुना अस्रैर्नयनजैश्शूरं सिषेचास्त्रसमाहतम्4.23.20
Verse 21
रुधिरोक्षितसर्वाङ्गं दृष्ट्वा विनिहतं पतिम् उवाच तारा पिङ्गाक्षं पुत्रमङ्गदमङ्गना4.23.21
Verse 22
अवस्थां पश्चिमां पश्य पितुः पुत्र सुदारुणाम् सम्प्रसक्तस्य वैरस्य गतोऽन्तः पापकर्मणा4.23.22
Verse 23
बालसूर्योदयतनुं प्रयान्तं यमसदनम् अभिवादय राजानं पितरं पुत्र मानदम्4.23.23
Verse 24
एवमुक्तस्समुत्थाय जग्राह चरणौ पितुः भुजाभ्यां पीनवृत्ताभ्यामङ्गदोऽहमिति ब्रुवन्4.23.24
Verse 25
अभिवादयमानं त्वामङ्गदं त्वं यथा पुरा दीर्घायुर्भव पुत्रेति किमर्थं नाभिभाषसे4.23.25
Verse 26
अहं पुत्रसहाया त्वामुपासे गतचेतसम् सिंहेन निहतं सद्यो गौस्सवत्सेव गोवृषम्4.23.26
Verse 27
इष्ट्वा सङ्ग्रामयज्ञेन रामप्रहरणाम्भसि अस्मिन्नवभृथे स्नातः कथं पत्न्या मया विना4.23.27
Verse 28
या दत्ता देवराजेन तव तुष्टेन संयुगे शातकुम्भमयीं मालां तां ते पश्यामि नेह किम्4.23.28
Verse 29
राज्यश्रीर्न जहाति त्वां गतासुमपि मानद सूर्यस्यावर्तमानस्य शैलराजमिव प्रभा4.23.29
Verse 30
न मे वचः पथ्यमिदं त्वया कृतं न चास्मि शक्ता हि निवारणे तव हता सपुत्राऽस्मि हतेन संयुगे सह त्वया श्रीर्विजहाति मामिह4.23.30
0:000:00
Speed: