🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 4 • Chapter 22

Sarga 22

31 verses

Verse 1
वीक्षमाणस्तु मन्दासुस्सर्वतो मन्दमुच्छ्वसन् आदावेव तु सुग्रीवं ददर्शत्वात्मजाग्रतः4.22.1
Verse 2
तं प्राप्तविजयं वाली सुग्रीवं प्लवगेश्वरः आभाष्य व्यक्तया वाचा सस्नेहमिदमब्रवीत्4.22.2
Verse 3
सुग्रीव दोषेण  मां गन्तुमर्हसि किल्बिषात् कृष्यमाणं भविष्येण बुद्धिमोहेन मां बलात्4.22.3
Verse 4
युगपद्विहितं तात  मन्ये सुखमावयोः सौहार्द भ्रातृयुक्तं हि तदिदं तात नान्यथा4.22.4
Verse 5
प्रतिपद्य त्वमद्यैव राज्यमेषां वनौकसाम् मामप्यद्यैव गच्छन्तं विद्धि वैवस्वतक्षयम्4.22.5
Verse 6
जीवितं  हि राज्यं  श्रियं  विपुलामिमाम् प्रजहाम्येष वै तूर्णं महच्चागर्हितं यशः4.22.6
Verse 7
अस्यां त्वहमवस्थायां वीर वक्ष्यामि यद्वचः यद्यप्यसुकरं राजन्कर्तुमेव तदर्हसि4.22.7
Verse 8
सुखार्हं सुखसंवृद्धं बालमेनमबालिशम् बाष्पपूर्णमुखं पश्य भूमौ पतितमङ्गदम्4.22.8
Verse 9
मम प्राणैः प्रियतरं पुत्रं पुत्रमिवौरसम् मया हीनमहीनार्थं पर्वतः परिपालय4.22.9
Verse 10
त्वमेवास्य हि दाता  परित्राता  सर्वशः भयेष्वभयदश्चैव यथाऽहं प्लवगेश्वर
Verse 11
एष तारात्मज श्रीमांस्त्वया तुल्यपराक्रमः रक्षसां  वधे तेषामग्रतस्ते भविष्यति4.22.11
Verse 12
अनुरूपाणि कर्माणि विक्रम्य बलवान्रणे करिष्यत्येष तारेयस्तरस्वी तरुणोऽङ्गदः4.22.12
Verse 13
सुषेणदुहिता चेयमर्थसूक्ष्मविमनिश्चये औत्पातिके  विविधे सर्वतः परिनिष्ठिता4.22.13
Verse 14
यदेषा साध्विति ब्रूयात्कार्यं तन्मुक्तसंशयम्  हि तारामतं किञ्चिदन्यथा परिवर्तते4.22.14
Verse 15
राघवस्य  ते कार्यं कर्तव्यमविशङ्कया स्यादधर्मो ह्यकरणे त्वां  हिंस्याद्विमानितः4.22.15
Verse 16
इमां  मालामाधत्स्व दिव्यां सुग्रीव काञ्चनीम् उदारा श्रीस्थिता ह्यास्यां सम्प्रजह्यान्मृते मयि4.22.16
Verse 17
इत्येवमुक्तस्सुग्रीवो वालिना भ्रातृसौहृदात् हर्षं त्यक्त्वा पुनर्दीनो ग्रहग्रस्त इवोडुराट्4.22.17
Verse 18
तद्वालिवचनाच्छान्तः कुर्वन्युक्तमतन्द्रितः जग्राह सोऽभ्यनुज्ञातो मालां तां चैव काञ्चनीम्4.22.18
Verse 19
तां मालां काञ्चनीम् दत्त्वा दृष्ट्वाचैवात्मजं स्थितम् संसिद्धः प्रेत्यभावाय स्नेहादङ्गदमब्रवीत्4.22.19
Verse 20
देशकालौ भजस्वाद्य क्षममाणः प्रियाप्रिये सुखदुःख सह: काले सुग्रीववशगो भव4.22.20
Verse 21
यथा हि त्वं महाबाहो लालितस्सततं मया  तथा वर्तमानं त्वां सुग्रीवो बहुमंस्यते
Verse 22
माऽस्यामित्रैर्गतं गच्छेर्मा शत्रुभिररिन्दम भर्तुरर्थपरो दान्तः सुग्रीववशगो भव4.22.22
Verse 23
 चातिप्रणयः कार्यः कर्तव्योऽप्रणयश्च ते उभयं हि महान्दोष स्तस्मादन्तरदृग्भव4.22.23
Verse 24
इत्युक्त्वाऽथ विवृत्ताक्षः शरसम्पीडितो भृशम् विवृतैर्दशनै र्भीमैर्बभूवोत्क्रान्तजीवितः4.22.24
Verse 25
ततो विचुक्रुशुस्तत्र वानरा हरियूथपाः परिदेवयमानास्ते सर्वे प्लवगपुङ्गवा:4.22.25
Verse 26
किष्किन्धा ह्यद्य शून्याऽसीत्स्वर्गते वानराधिपे उद्यानानि  शून्यानि पर्वताः काननानि च4.22.26 हते प्लवगशार्दूले निष्प्रभा वानराः कृताः
Verse 27
यस्य वेगेन महता काननानि वनानि  पुष्पौघेणानुबध्यन्ते करिष्यति तदद्य कः4.22.27
Verse 28
येन दत्तं महद्युद्धं गन्धर्वस्य महात्मनः4.22.28 गोलभस्य महाबाहोर्दशवर्षाणि पञ्च  नैव रात्रौ  दिवसे तद्युद्धमुपशाम्यति4.22.29
Verse 29
येन दत्तं महद्युद्धं गन्धर्वस्य महात्मनः4.22.28 गोलभस्य महाबाहोर्दशवर्षाणि पञ्च  नैव रात्रौ  दिवसे तद्युद्धमुपशाम्यति4.22.29
Verse 30
ततस्तु षोडशे वर्षे गोलभो विनिपातितः हत्वा तं दुर्विनीतं तु वाली दंष्ट्राकरालवान्4.22.30 सर्वाऽभयङ्करोऽस्माकं कथमेष निपातितः
Verse 31
हते तु वीरे प्लवगाधिपे तदा प्लवङ्गमास्तत्र  शर्म लेभिरे वनेचराः सिंहयुते महावने यथा हि गावो निहते गवां पतौ4.22.31
0:000:00
Speed: