🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 4 • Chapter 21

Sarga 21

16 verses

Verse 1
ततो निपतितां तारां च्युतां तारामिवाम्बरात् शनैराश्वासयामास हनुमान्हरियूथपः4.21.1
Verse 2
गुणदोषकृतं जन्तुस्स्वकर्म फलहेतुकम् अव्यग्रस्तदवाप्नोति सर्वं प्रेत्य शुभाशुभम्4.21.2
Verse 3
शोच्या शोचसि कं शोच्यं दीनं दीनाऽनुकम्पसे कस्य कोवाऽनुशोच्योऽस्ति देहेऽस्मिन् बुद्बुदोपमे4.21.3
Verse 4
अङ्गदस्तु कुमारोऽयं द्रष्टव्यो जीवपुत्रया अयत्यां  विधेयानि समर्थान्यस्य चिन्तय4.21.4
Verse 5
जानास्यनियतामेवं भूतानामागतिं गतिम् तस्माच्छुभं हि कर्तव्यं पण्डितेनैह लौकिकम्
Verse 6
यस्मिन्हरिसहस्राणि प्रयुतान्यर्बुदानि  वर्तयन्ति कृतांशानि सोऽयं दिष्टान्तमागतः4.21.6
Verse 7
यदयं न्यायदृष्टार्थस्सामदानक्षमापरः गतो धर्मजितां भूमिं नैनं शोचितुमर्हसि4.21.7
Verse 8
सर्वे हि हरिशार्दूलाः पुत्रश्चायं तवाङ्गदः इदं हर्यृक्षपतिराज्यं  त्वत्सनाथमनिन्दिते4.21.8
Verse 9
ताविमौ शोकसन्तप्तौ शनैः प्रेरय भामिनि त्वया परिगृहीतोऽयमङ्गदश्शास्तु मेदिनीम्4.21.9
Verse 10
सन्ततिश्च यथा दृष्टा कृत्यं यच्चापि साम्प्रतम् राज्ञस्तत्क्रियतां सर्वमेष कालस्य निश्चयः4.21.10
Verse 11
संस्कार्यो हरिराजश्च अङ्गदश्चाभिषिच्यताम् सिंहासनगतं पुत्रं पश्यन्ती शान्तिमेष्यसि4.21.11
Verse 12
सा तस्य वचनं श्रुत्वा भर्तृव्यसनपीडिता अब्रवीदुत्तरं तारा हनूमन्तमवस्थितम्4.21.12
Verse 13
अङ्गदप्रतिरूपाणां पुत्राणामेकतश्शतम् हतस्याप्यस्य वीरस्य गात्रसंश्लेषणं वरम्4.21.13
Verse 14
 चाहं हरिराजस्य प्रभवाम्यङ्गदस्य वा पितृव्यस्तस्य सुग्रीवस्सर्वकार्येष्वनन्तरः4.21.14
Verse 15
 ह्येषाबुद्धिरास्थेया हनूमन्नङ्गदं प्रति पिता हि बन्धुः पुत्रस्य  माता हरिसत्तम4.21.15
Verse 16
 हि मम हरिराजसंश्रयात् क्षमतरमस्ति परत्र चेह वा अभिमुखहतवीरसेवितं शयनमिदं मम सेवितुं क्षमम्4.21.16
0:000:00
Speed: