Book 4 • Chapter 20
Sarga 20
25 verses
Verse 1
रामचापविसृष्टेन शरेणान्तकरेण तम् दृष्ट्वा विनिहतं भूमौ तारा ताराधिपानना4.20.1 सा समासाद्य भर्तारं पर्यष्वजत भामिनी
Verse 2
इषुणाऽभिहतं दृष्ट्वा वालिनं कुञ्जरोपमम्4.20.2 वानरेन्द्र महेन्द्राभं शोकसन्तप्तमानसा तारा तरुमिवोन्मूलं पर्यदेवयदातुरा4.20.3
Verse 3
इषुणाऽभिहतं दृष्ट्वा वालिनं कुञ्जरोपमम्4.20.2 वानरेन्द्र महेन्द्राभं शोकसन्तप्तमानसा तारा तरुमिवोन्मूलं पर्यदेवयदातुरा4.20.3
Verse 4
रणे दारुण विक्रान्त प्रवीर प्लवतां वर किं दीनामपुरोभागामद्य त्वं नाभिभाषसे
Verse 5
उत्तिष्ठ हरिशार्दूल भजस्व शयनोत्तमम् नैवंविधाश्शेरते हि भूमौ नृपतिसत्तमाः4.20.5
Verse 6
अतीव खलु ते कान्ता वसुधा वसुधाधिप गतासुरपि यां गात्रैर्मां विहाय निषेवसे4.20.6
Verse 7
व्यक्तमन्या त्वया वीर धर्मत: सम्प्रवर्तिता किष्किन्धेव पुरी रम्या स्वर्गमार्गे विनिर्मिता4.20.7
Verse 8
यान्यस्माभिस्त्वया सार्धं वनेषु मधुगन्धिषु विहृतानि त्वया काले तेषामुपरमः कृतः4.20.8
Verse 9
निरानन्दा निराशाऽहं निमग्ना शोकसागरे त्वयि पञ्चत्वमापन्ने महायूथपयूथपे4.20.9
Verse 10
हृदयं सुस्थिरं मह्यं दृष्ट्वा विनिहतं पतिम् यन्न शोकाभिसन्तप्तं स्फुटतेऽद्य सहस्रधा4.20.10
Verse 11
सुग्रीवस्य त्वया भार्या हृता स च विवासितः यत्तु त्तस्य त्वया व्युष्टिः प्राप्तेयं प्लवगाधिप4.20.11
Verse 12
निश्श्रेयसपरा मोहात्त्वया चाहं विगर्हिता यैषाऽब्रुवं हितं वाक्यं वानरेन्द्र हितैषिणी4.20.12
Verse 13
रूपयौवनदृप्तानां दक्षिणानां च मानद नूनमप्सरसामार्य चित्तानि प्रमथिष्यसि4.20.13
Verse 14
कालो निस्संशयो नूनं जीवितान्तकरस्तव बलाद्येनावपन्नोऽसि सुग्रीवस्यावशो वशम्4.20.14
Verse 15
वैधव्यं शोकसन्तापं कृपणं कृपणा सती अदुःखोपचिता पूर्वं वर्तयिष्याम्यनाथवत्
Verse 16
लालितश्चाङ्गदो वीरस्सुकुमारस्सुखोचितः वर्त्स्यते कामवस्थां मे पितृव्ये क्रोधमूर्छिते
Verse 17
कुरुष्व पितरं पुत्र सुदृष्टं धर्मवत्सलम् दुर्लभं दर्शनं वत्स तव तस्य भविष्यति
Verse 18
समाश्वासय पुत्रं त्वं सन्देशं सन्दिशस्व मे मूर्ध्नि चैनं समाघ्राय प्रवासं प्रस्थितो ह्यसि4.20.18
Verse 19
रामेण हि महत्कर्म कृतं त्वामभिनिघ्नता आनृण्यं च गतं तस्य सुग्रीवस्य प्रतिश्रवे4.20.19
Verse 20
सकामो भव सुग्रीव रुमां त्वं प्रतिपत्स्यसे भुङ्क्षव राज्यमनुद्विग्नश्शस्तो भ्राता रिपुस्तव4.20.20
Verse 21
किं मामेवं विलपतीं प्रेम्णा त्वं नाभिभाषसे इमाः पश्य वरा बह्वीर्भार्यास्ते वानरेश्वर4.20.21
Verse 22
तस्या विलपितं श्रुत्वा वानर्यस्सर्वतश्च ताः परिगृह्याङ्गदं दीनं दुःखार्ता परिचुक्रुशुः4.20.22
Verse 23
किमङ्गदं साङ्गदवीरबाहो विहाय यास्यद्य चिरप्रवासम् न युक्तमेवं गुणसन्निकृष्टं विहाय पुत्रं प्रियपुत्र गन्तुम्4.20.23
Verse 24
किमप्रियं ते प्रिय चारुवेष मया कृतं नाथ सुतेन वा ते सहाङ्गदां मां प्रविहाय वीर यत्प्रस्थितो दीर्घ मितः प्रवासम्4.20.24
Verse 25
यद्यप्रियं किञ्चिदसम्प्रधार्य कृतं मया स्यात्तव दीर्घबाहो क्षमस्व मे तद्धरिवंशनाथ व्रजामि मूर्ध्ना तव वीर पादौ
0:000:00
Speed: