🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 4 • Chapter 19

Sarga 19

28 verses

Verse 1
 वानरमहाराजश्शयानश्शरविक्षतः प्रत्युक्तो हेतुमद्वाक्यैर्नोत्तरं प्रत्यपद्यत4.19.1
Verse 2
अश्मभिः प्रविभिन्नाङ्गः पादपैराहतो भृशम् रामबाणेन चाक्रान्तो जीवितान्ते मुमोह सः4.19.2
Verse 3
तं भार्या बाणमोक्षेण रामदत्तेन संयुगे हतं प्लवगशार्दूलं तारा शुश्राव वालिनम्4.19.3
Verse 4
सा सपुत्राप्रियं श्रुत्वा वधं भर्तुस्सुदारुणम् निष्पपात भृशं तस्माद्विविधा गिरिगह्वरात्4.19.4
Verse 5
ये त्वङ्गदपरीवारा वानरा भीमविक्रमाः ते सकार्मुकमालोक्य रामं त्रस्ताः प्रदुद्रुवुः4.19.5
Verse 6
सा ददर्श ततस्त्रस्तान्हरीनापततो भृशम् यूथादिव परिभ्रष्टान्मृगान्निहतयूथपान्4.19.6
Verse 7
तानुवाच समासाद्य दुःखितान्दुखिता सती रामवित्रासितान्सर्वाननुबद्धानिवेषुभिः4.19.7
Verse 8
वानराः राजसिंहस्य यस्य यूयं पुरस्सराः तं विहाय सुसन्त्रस्ताः कस्माद्द्रवथ दुर्गताः4.19.8
Verse 9
राज्यहेतोस्स चेद्भ्राता भ्रात्रा रौद्रेण पातितः रामेण प्रहितैरौद्रैर्मार्गणैर्दूरपातिभिः4.19.9
Verse 10
कपिपत्न्या वचश्श्रुत्वा कपयः कामरूपिणः प्राप्तकालमविक्लिष्टमूचुर्वचनमङ्गनाम्4.19.10
Verse 11
जीवपुत्रे निवर्तस्व पुत्रं रक्षस्व चाङ्गदम् अन्तको रामरूपेण हत्वा नयति वालिनम्4.19.11
Verse 12
क्षिप्तान् वृक्षान्समाविध्य विपुलाश्च शिलास्तथा वाली वज्रसमैर्बाणै रामेण विनिपातितः4.19.12
Verse 13
अभिद्रुतमिदं सर्वं विद्रुतं प्रसृतं बलम् अस्मिन् प्लवगशार्दूले हते शक्रसमप्रभे4.19.13
Verse 14
रक्ष्यतां नगरद्वारमङ्गदश्चाभिषिच्यताम् पदस्थं वालिनः पुत्रं भजिष्यन्ति प्लवङ्गमाः4.19.14
Verse 15
अथवाऽरुचितं स्थानमिह ते रुचिरानने आविशन्ति हि दुर्गाणि क्षिप्रमन्यानि वानराः4.19.15
Verse 16
अभार्याश्च सभार्याश्च सन्त्यत्र वनचारिणः लुब्धेभ्यो विप्रयुक्तेभ्यस्तेभ्यो नस्तुमुलं भयम्4.19.16
Verse 17
अल्पान्तरगतानां तु श्रुत्वा वचनमङ्गना आत्मनः प्रतिरूपं सा बभाषे चारुहासिनी4.19.17
Verse 18
पुत्रेण मम किं कार्यं राज्येनच किमात्मना कपिसिंहे महाभागे तस्मिन्भर्तरि नश्यति4.19.18
Verse 19
पादमूलं गमिष्यामि तस्यैवाहं महात्मनः योऽसौ रामप्रयुक्तेन शरेण विनिपातितः4.19.19
Verse 20
एवमुक्त्वा प्रदुद्राव रुदन्ती शोककर्शिता शिरश्चोरश्च बाहुभ्यां दुःखेन समभिध्नती4.19.20
Verse 21
आव्रजन्ती ददर्शाथ पतिं निपतितं भुवि हन्तारं दानवेन्द्राणां समरेष्वनिवर्तिनम्4.19.21
Verse 22
क्षेप्तारं पर्वतेन्द्राणां वज्राणामिव वासवम् महावातसमाविष्टं महामेघौघनिस्स्वनम्4.19.22
Verse 23
क्रतुल्यपराक्रान्तं वृष्टवेवोपरतं घनम् नर्दन्तं नर्दतां भीमं शूरं शूरेण पातितम्4.19.23 शार्दूलेनामिषस्यार्थे मृगराजं यथाहतम्
Verse 24
अर्चितं सर्वलोकस्य सपताकं सवेदिकम्4.19.24 नागहेतोस्सुपर्णेन चैत्यमुन्मथितं यथा
Verse 25
अवष्टभ्य  तिष्ठन्तं ददर्श धनुरुत्तम्4.19.25 रामं रामानुजं चैव भर्तुश्चैवानुजं शुभा
Verse 26
तावतीत्य समासाद्य भर्तारं निहतं रणे4.19.26 समीक्ष्य व्यथिता भूमौ सम्भ्रान्ता निपपात 
Verse 27
सुप्त्वेव पुनरुत्थाय आर्यपुत्रेति शोचती4.19.27 रुरोद सा पतिं दृष्ट्वा संवीतं मृत्युदामभिः
Verse 28
तामवेक्ष्य तु सुग्रीवः क्रोशन्तीं कुररीमिव विषादमगमत्कष्टं दृष्ट्वा चाङ्गदमागतम्4.19.28
0:000:00
Speed: