🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 4 • Chapter 18

Sarga 18

68 verses

Verse 1
इत्युक्तः प्रश्रितं वाक्यं धर्मार्थसहितं हितम् परुषं वालिना रामो निहतेन विचेतसा4.18.1
Verse 2
तं निष्प्रभमिवादित्यं मुक्ततोयमिवाम्बुदम् उक्तवाक्यं हरिश्रेष्ठमुपशान्तमिवानलम्4.18.2 धर्मार्थगुणसम्पन्नं हरीश्वरमनुत्तमम् अधिक्षिप्तस्तदा रामः पश्चाद्वालिनमब्रवीत्4.18.3
Verse 3
तं निष्प्रभमिवादित्यं मुक्ततोयमिवाम्बुदम् उक्तवाक्यं हरिश्रेष्ठमुपशान्तमिवानलम्4.18.2 धर्मार्थगुणसम्पन्नं हरीश्वरमनुत्तमम् अधिक्षिप्तस्तदा रामः पश्चाद्वालिनमब्रवीत्4.18.3
Verse 4
धर्ममर्थं  कामं  समयं चापि लौकिकम् अविज्ञाय कथं बाल्यान्मामिहाद्य विगर्हसे4.18.4
Verse 5
अपृष्ट्वा बुद्धिसम्पन्नान्वृद्धानाचार्यसम्मतान् सौम्य वानरचापल्यात्किं मावक्तुमिहेच्छसि4.18.5
Verse 6
इक्ष्वाकूणामियं भूमिस्सशैलवनकानना मृगपक्षिमनुष्याणां निग्रहप्रग्रहावपि4.18.6
Verse 7
तां पालयति धर्मात्मा भरतस्सत्यवागृजुः धर्मकामार्थतत्त्वज्ञो निग्रहानुग्रहे रतः4.18.7
Verse 8
नयश्च विनयश्चोभौ यस्मिन्सत्यं  सुस्थितम् विक्रमश्च यथा दृष्टस्स राजा देशकालवित्4.18.8
Verse 9
तस्य धर्मकृतादेशा वयमन्ये  पार्थिवाः चरामो वसुधां कृत्स्नां धर्मसन्तानमिच्छवः4.18.9
Verse 10
तस्मिन्नृपतिशार्दूले भरते धर्मवत्सले पालयत्यखिलां भूमिं कश्चरेद्धर्मनिग्रहम्4.18.10
Verse 11
ते वयं धर्मविभ्रष्टं स्वधर्मे परमे स्थिताः भरताज्ञां पुरस्कृत्य निगृह्णीमो यथाविधि4.18.11
Verse 12
त्वं तु संक्लिष्टधर्मा  कर्मणा  विगर्हितः कामतन्त्रप्रधानश्च  स्थितो राजवर्त्मनि4.18.12
Verse 13
ज्येष्ठो भ्राता पिता चैव यश्च विद्यां प्रयच्छति त्रयस्ते पितरो ज्ञेया धर्म्ये  पथि वर्तिनः4.18.13
Verse 14
यवीयानात्मनः पुत्रशशिष्यश्चापि गुणोदितः पुत्रवत्ते त्रयश्चिन्त्या धर्मश्चेदत्रकारणम्4.18.14
Verse 15
सूक्ष्मः परमदुरजेयस्सतां धर्मः प्लवङ्गम हृदिस्थस्सर्वभूतानामात्मा वेद शुभाशुभम्4.18.15
Verse 16
चपलश्चपलैस्सार्धं वानरैरकृतात्मभिः जात्यन्ध इव जात्यन्धैर्मन्त्रयन् प्रेक्षसे नु किम्4.18.16
Verse 17
अहं तु व्यक्ततामस्य वचनस्य ब्रवीमि ते  हि मां केवलं रोषात्त्वं विगर्हितुमर्हसि4.18.17
Verse 18
तदेतत्कारणं पश्य यदर्थं त्वं मया हतः भ्रातुर्वर्तसि भार्यायां त्यक्त्वा धर्मं सनातनम्4.18.18
Verse 19
अस्य त्वं धरमाणस्य सुग्रीवस्य महात्मनः रुमायां वर्तसे कामात्स्नुषायां पापकर्मकृत्4.18.19
Verse 20
तद्व्यतीतस्य ते धर्मात्कामवृत्तस्य वानर भ्रातृभार्यावमर्शेऽस्मिन्दण्डोऽयं प्रतिपादितः4.18.20
Verse 21
 हि धर्मविरुद्धस्य लोकवृत्तादपेयुषः दण्डादन्यत्र पश्यामि निग्रहं हरियूथप4.18.21
Verse 22
 हि ते मर्षये पापं क्षत्रियोऽहं कुलोद्भवः औरसीं भगिनीं वापि भार्यां वाप्यनुजस्य यः4.18.22 प्रचरेत नरः कामात्तस्य दण्डो वधः स्मृतः
Verse 23
भरतस्तु महीपालो वयं त्वादेशवर्तिनः4.18.23 त्वं तु धर्मादतिक्रान्तः कथं शक्यं उपेक्षितुम्
Verse 24
गुरूर्धर्मव्यतिक्रान्तं प्राज्ञो धर्मेण पालयन्4.18.24 भरतः कामवृत्तानां निग्रहे पर्यवस्थितः
Verse 25
वयं तु भरतादेश विधिं कृत्वा हरीश्वर त्वद्विधान्भिन्नमर्यादान्नियन्तुपर्यवस्थिताः4.18.25
Verse 26
सुग्रीवेण  मे सख्यं लक्ष्मणेन यथा तथा दारराज्यनिमित्तं  निःश्रेयसि रत स्स मे4.18.26 प्रतिज्ञा  मया दत्ता तदा वानरसन्निधौ प्रतिज्ञा  कथं शक्या मद्विधेनानवेक्षितुम्4.18.27
Verse 27
सुग्रीवेण  मे सख्यं लक्ष्मणेन यथा तथा दारराज्यनिमित्तं  निःश्रेयसि रत स्स मे4.18.26 प्रतिज्ञा  मया दत्ता तदा वानरसन्निधौ प्रतिज्ञा  कथं शक्या मद्विधेनानवेक्षितुम्4.18.27
Verse 28
तदेभिः कारणैस्सर्वैर्महद्भिर्धर्मसंहितैः4.18.28 शासनं तप यद्युक्तं तद्भवाननुमन्यताम्
Verse 29
सर्वथा धर्म इत्येव द्रष्टव्यस्तव निग्रहः4.18.29 वयस्यस्योपकर्तव्यं धर्ममेवानुपश्यतः
Verse 30
शक्यं त्वयाऽपि तत्कार्यं धर्ममेवानुपश्यता4.18.30 श्रूयते मनुना गीतौ श्लोकौ चारित्रवत्सलौ गृहीतौ धर्मकुशलैस्तत्तथा चरितं हरे4.18.31
Verse 31
शक्यं त्वयाऽपि तत्कार्यं धर्ममेवानुपश्यता4.18.30 श्रूयते मनुना गीतौ श्लोकौ चारित्रवत्सलौ गृहीतौ धर्मकुशलैस्तत्तथा चरितं हरे4.18.31
Verse 32
राजभिर्धृतदण्डास्तु कृत्वा पापानि मानवाः निर्मलास्स्वर्गमायान्ति सन्तस्सुकृतिनो यथा4.18.32
Verse 33
शासनाद्वाऽपिमोक्षाद्वा स्तेनः स्तेयाद्विमुच्यते राजात्वशासन्पापस्य तदवाप्नोति किल्बिषम्4.18.33
Verse 34
आर्येण मम मान्धात्रा व्यसनं घोरमीप्सितम् श्रमणेन कृते पापे यथा पापं कृतं त्वया4.18.34
Verse 35
अन्यैरपि कृतं पापं प्रमत्तैर्वसुधाधिपैः प्रायश्चित्तं  कुर्वन्ति तेन तच्छाम्यते रजः4.18.35
Verse 36
तदलं परितापेन धर्मतः परिकल्पितः वधो वानरशार्दूल  वयं स्ववशे स्थिता:
Verse 37
शृणु चाप्यपरं भूयः कारणं हरिपुङ्गव यच्छ्रुत्वा हेतुमद्वीर  मन्युं कर्तुमर्हसि4.18.37
Verse 38
 मे तत्र मनस्तापो  मन्युर्हरिपुङ्गव वागुराभिश्च पाशैश्च कूटैश्च विविधैर्नराः4.18.38 प्रतिच्छन्नाश्च दृश्याश्च गृह्णन्ति सुबहून्मृगान्
Verse 39
प्रधावितान्वा वित्रस्तान्विस्रब्धांश्चापि निष्ठितान्4.18.39 प्रमत्तानप्रमत्तान्वा नरा मांसार्थिनो भृशम् विध्यन्ति विमुखांश्चापि   दोषोऽत्र विद्यते4.18.40
Verse 40
प्रधावितान्वा वित्रस्तान्विस्रब्धांश्चापि निष्ठितान्4.18.39 प्रमत्तानप्रमत्तान्वा नरा मांसार्थिनो भृशम् विध्यन्ति विमुखांश्चापि   दोषोऽत्र विद्यते4.18.40
Verse 41
यान्ति राजर्षयश्चात्र मृगयां धर्मकोविदाः तस्मात्त्वं निहतो युद्धे मया बाणेन वानर4.18.41 अयुध्यन्प्रतियुध्यन्वा यस्माच्छाखामृगो ह्यसि
Verse 42
दुर्लभस्य  धर्मस्य जीवितस्य शुभस्य च4.18.42 राजानो वानरश्रेष्ठ प्रदातारो  संशयः
Verse 43
तान्न हिंस्यान्न चाक्रोशेन्नाक्षिपेन्नाप्रियं वदेत्4.18.43 देवा मानुषरूपेण चरन्त्येते महीतले
Verse 44
त्वं तु धर्ममविज्ञाय केवलं रोषमास्थितः4.18.44 प्रदूषयसि मां धर्मे पितृपैतामहे स्थितम्
Verse 45
एवमुक्तस्तु रामेण वाली प्रव्यथितो भृशम्4.18.45  दोषं राघवे दध्यौ धर्मेऽधिगतनिश्चयः
Verse 46
प्रत्युवाच ततो रामं प्राञ्जलिर्वानरेश्वरः यत्त्वमात्थ नरश्रेष्ठ तदेवं नात्र संशयः
Verse 47
प्रतिवक्तुं प्रकृष्टे हि नापकृष्टस्तु शक्नुयात्4.18.47 यदयुक्तं मया पूर्वं प्रमादाद्वाक्यमप्रियम् तत्रापि खलु मे दोषं कर्तुं नार्हसि राघव
Verse 48
तदयुक्तं मया पूर्वं प्रमादादुक्तमप्रियम् तत्रापि खलु मे दोषं कर्तुं नार्हसि राघव
Verse 49
त्वं हि दृष्टार्थतत्त्वज्ञ: प्रजानां  हिते रतः कार्यकारणसिद्धौ  प्रसन्ना बुद्धिरव्यया4.18.49
Verse 50
मामप्यगतधर्माणं व्यतिक्रान्तपुरस्कृतम् धर्मसंहितया वाचा धर्मज्ञ परिपालय4.18.50
Verse 51
 त्वात्मानमहं शोचे  तारां   बान्धवान् यथा पुत्रं गुणज्येष्ठमङ्गदं कनकाङ्गदम् 4.18.51
Verse 52
 ममादर्शनाद्दीनो बाल्यात्प्रभृति लालितः तटाक इव पीताम्बुरुपशोषं गमिष्यति4.18.52
Verse 53
बालश्चाकृतबुद्धिश्च एकपुत्रश्च मे प्रियः तारेयो राम भवता रक्षणीयो महाबलः4.18.53
Verse 54
सुग्रीवे चाङ्गदे चैव विधत्स्व मतिमुत्तमाम् त्वं हि शास्ता  गोप्ता  कार्याकार्यविधौ स्थितः4.18.54
Verse 55
या ते नरपते वृत्तिर्भरते लक्ष्मणे  या सुग्रीवे चाङ्गदे राजंस्तां त्वमाधातुमिहासि4.18.55
Verse 56
मद्दोषकृतदोषां तां यथा तारां तपस्विनीम् सुग्रीवो नावमन्येत तथाऽवस्थातुमर्हसि4.18.56
Verse 57
त्वया ह्यनुगृहीतेन राज्यं शक्यमुपासितुम्4.18.57 त्वद्वशे वर्तमानेन तव चित्तानुवर्तिना शक्यं दिवं चार्जयितुं वसुधां चापि शासितुम्4.18.58
Verse 58
त्वया ह्यनुगृहीतेन राज्यं शक्यमुपासितुम्4.18.57 त्वद्वशे वर्तमानेन तव चित्तानुवर्तिना शक्यं दिवं चार्जयितुं वसुधां चापि शासितुम्4.18.58
Verse 59
त्वत्तोऽहं वधमाकाङ्क्षन्वार्यमाणोऽपि तारया सुग्रीवेण सह भ्रात्रा द्वन्द्वयुद्धमुपागतः4.18.59 इत्युक्त्वा सन्नतो रामं विरराम हरीश्वरः
Verse 60
 तमाश्वासयद्रामो वालिनं व्यक्तदर्शनम्4.18.60 सामसम्पन्नया वाचा धर्मतत्त्वार्थयुक्तया
Verse 61
 सन्तापस्त्वया कार्य एतदर्थं प्लवङ्गम4.18.61  वयं भवता चिन्त्या नाप्यात्मा हरिसत्तम वयं भवद्विशेषेण धर्मतः कृतनिश्चयाः4.18.62
Verse 62
 सन्तापस्त्वया कार्य एतदर्थं प्लवङ्गम4.18.61  वयं भवता चिन्त्या नाप्यात्मा हरिसत्तम वयं भवद्विशेषेण धर्मतः कृतनिश्चयाः4.18.62
Verse 63
दण्ड्ये यः पातयेद्दण्डं दण्ड्यो यश्चापि दण्ड्यते कार्यकारणसिद्धार्था वुभौ तौ नावसीदतः4.18.63
Verse 64
तद्भवान्दण्डसंयोगादस्माद्विगतकल्मषः गतस्स्वां प्रकृतिं धर्म्यं धर्मदृष्टेन वर्त्मना4.18.64
Verse 65
त्यज शोकं  मोहं  भयं  हृदये स्थितम् त्वया विधानं हर्यग्र्य  शक्यमतिवर्तितुम्4.18.65
Verse 66
यथा त्वय्यङ्गदो नित्यं वर्तते वानरेश्वर तथा वर्तेत सुग्रीवे मयि चापि  संशयः4.18.66
Verse 67
 तस्य वाक्यं मधुरं महात्मन स्समाहितं धर्मपथानुवर्तिनः निशम्य रामस्य रणावमर्दिनो वचस्सुयुक्तं निजगाद वानरः4.18.67
Verse 68
शराभितप्तेन विचेतसा मया प्रदूषितस्त्वं यदजानता प्रभो इदं महेन्द्रोपम भीमविक्रम प्रसादितस्त्वं क्षम मे नरेश्वर4.18.68
0:000:00
Speed: