Book 4 • Chapter 27
Sarga 27
48 verses
Verse 1
अभिषिक्ते तु सुग्रीवे प्रविष्टे वानरे गुहाम् आजगाम सह भ्रात्रा रामः प्रस्रवणं गिरिम्4.27.1
Verse 2
शार्दूलमृगसङ्घुष्टं सिंहैर्भीमरवैर्वृतम् नानागुल्मलतागूढं बहुपादपसङ्कुलम्4.27.2 ऋक्षवानरगोपुच्छैर्मार्जारैश्च निषेवितम् मेघराशिनिभं शैलं नित्यं शुचिजलाशयम्
Verse 3
शार्दूलमृगसङ्घुष्टं सिंहैर्भीमरवैर्वृतम् नानागुल्मलतागूढं बहुपादपसङ्कुलम्4.27.2 ऋक्षवानरगोपुच्छैर्मार्जारैश्च निषेवितम् मेघराशिनिभं शैलं नित्यं शुचिजलाशयम्
Verse 4
तस्य शैलस्य शिखरे महतीमायतां गुहाम् प्रत्यगृह्णत वासार्थं रामस्सौमित्रिणा सह4.27.4
Verse 5
कृत्वा च समयं रामस्सुग्रीवेण सहानघः कालयुक्तं महद्वाक्यमुवाच रघुनन्दनः4.27.5 विनीतं भ्रातरं भ्राता लक्ष्मणं लक्ष्मिवर्धनम्
Verse 6
इयं गिरिगुहा रम्या विशाला युक्तमारुता अस्यां वत्स्याम सौमित्रे वर्षरात्रमरिन्दम4.27.6
Verse 7
गिरिशृङ्गमिदं रम्यमुन्नतं पार्थिवात्मज4.27.7 श्वेताभिः कृष्णताम्राभिश्शिलाभिरुपशोभितम् नानाधातुसमाकीर्णं दरीनिर्झरशोभितम्4.27.8 विविधैर्वृक्षषण्डैश्च चारुचित्रलतायुतम् नानाविहगसङ्घुष्टं मयूररवनादितम्4.27.9 मालतीकुन्दगुल्मैश्च सिन्धुवारैश्शिरीषकैः कदम्बार्जुनसर्जैश्च पुष्पितैरुपशोभितम्4.27.10
Verse 8

Verse 9

Verse 10

Verse 11
इयं च नलिनी रम्या फ़ुल्लपङ्कजमण्डिता नातिदूरे गुहायानौ भविष्यति नृपात्मज4.27.11
Verse 12
प्रागुदक्प्रवणे देशे गुहा साधु भविष्यति पश्चाच्चैवोन्नता सौम्य निवातेयं भविष्यति4.27.12
Verse 13
गुहाद्वारे च सौमित्रे शिला समतला शुभा श्लक्ष्णा चैवायता चैव भिन्नाञ्जनचयोपमा4.27.13
Verse 14
गिरिशृङ्गमिदं तात पश्य चोत्तरतः शुभम् भिन्नाञ्जनचयाकारमम्भोधरमिवोत्थितम्4.27.14
Verse 15
दक्षिणस्यामपि दिशि स्थितं श्वेतमिवापरम् कैलासशिखरप्रख्यं नानाधातुविभूषितम्4.27.15
Verse 16
प्राचीनवाहिनीं चैव नदीं भृशमकर्दमाम् गुहायाः पूर्वतः पश्य त्रिकूटे जाह्नवीमिव4.27.16 चन्दनैस्तिलकैस्तालैस्तमालैरतिमुक्तकैः पद्मकैः सरलैश्चैव अशोकैश्चैव शोभिताम्4.27.17
Verse 17
प्राचीनवाहिनीं चैव नदीं भृशमकर्दमाम् गुहायाः पूर्वतः पश्य त्रिकूटे जाह्नवीमिव4.27.16 चन्दनैस्तिलकैस्तालैस्तमालैरतिमुक्तकैः पद्मकैः सरलैश्चैव अशोकैश्चैव शोभिताम्4.27.17
Verse 18
वानीरैस्तिमिशैश्चैव वकुलैः केतकैर्धवैः हिन्तालैस्तिनिशैर्नीपैर्वेत्रकैः कृतमालकैः4.27.18 तीरजैश्शोभिता भाति नानारूपै स्ततस्ततः वसनाभरणोपेता प्रमदेवाभ्यलङ्कृता4.27.19
Verse 19
वानीरैस्तिमिशैश्चैव वकुलैः केतकैर्धवैः हिन्तालैस्तिनिशैर्नीपैर्वेत्रकैः कृतमालकैः4.27.18 तीरजैश्शोभिता भाति नानारूपै स्ततस्ततः वसनाभरणोपेता प्रमदेवाभ्यलङ्कृता4.27.19
Verse 20
शतशः पक्षिसङ्घैश्च नानानादैर्विनादिता एकैकमनुरक्तैश्च चक्रवाकैरलङ्कृता पुलिनैरतिरम्यैश्च हंससारससेवितैः प्रहसन्तीवभात्येषा नारी सर्वविभूषिता
Verse 21
शतशः पक्षिसङ्घैश्च नानानादैर्विनादिता एकैकमनुरक्तैश्च चक्रवाकैरलङ्कृता पुलिनैरतिरम्यैश्च हंससारससेवितैः प्रहसन्तीवभात्येषा नारी सर्वविभूषिता
Verse 22
क्वचिन्नीलोत्पलैश्छन्ना भाति रक्तोत्पलैः क्वचित् क्वचिदाभाति शुक्लैश्च दिव्यैः कुमुदकुट्मलैः4.27.22
Verse 23
पारिप्लवशतैर्जुष्टा बर्हिक्रौञ्चविनादिता रमणीया नदी सौम्य मुनिसङ्घैर्निषेविता4.27.23
Verse 24
पश्य चन्दनवृक्षाणां पङ्क्तीस्सुरचिता इव ककुभानां च दृश्यन्ते मनसेवोदितास्समम्4.27.24
Verse 25
अहो सुरमणीयोऽयं देशश्शत्रुनिषूदन दृढं रंस्याव सौमित्रे साध्वत्र निवसावहै4.27.25
Verse 26
इतश्च नातिदूरे सा किष्किन्धा चित्रकानना सुग्रीवस्य पुरी रम्या भविष्यति नृपात्मज4.27.26
Verse 27
गीतवादित्रनिर्घोषश्श्रूयते जयतां वर नर्दतां वानराणां च मृदङ्गाडम्बरै स्सह4.27.27
Verse 28
लब्ध्वा भार्यां कपिवरः प्राप्य राज्यं सुहृद्वृतः ध्रुवं नन्दति सुग्रीवस्सम्प्राप्य महतीं श्रियम्4.27.28
Verse 29
इत्युक्त्वा न्यवसत्तत्र राघवस्सहलक्ष्मणः बहुदृश्यदरीकुञ्जे तस्मिन्प्रस्रवणे गिरौ4.27.29
Verse 30
सुसुखेऽपि बहुद्रव्ये तस्मिन्हि धरणीधरे वसतस्तस्य रामस्य रतिरल्पापिना भवेत्4.27.30
Verse 31
हृतां हि भार्यां स्मरतः प्राणेभ्योऽपि गरीयसीम् उदयाभ्युदितं दृष्ट्वा शशाङ्कं च विशेषतः4.27.31
Verse 32
आविवेश न तं निद्रा निशासु शयनं गतम् तत्समुत्थेन शोकेन बाष्पोपहतचेतसम्4.27.32
Verse 33
तं शोचमानं काकुत्स्थं नित्यं शोकपरायणम् तुल्यदुःखोऽब्रवीद्भ्राता लक्ष्मणोऽनुनयन्वचः4.27.33
Verse 34
अलं वीर व्यथां गत्वा न त्वं शोचितुमर्हसि शोचतो व्यवसीदन्ति सर्वार्था विदितं हि ते4.27.34
Verse 35
भवान्क्रियापरो लोके भवान् देवपरायणः आस्तिको धर्मशीलश्च व्यवसायी च राघव4.27.35 न ह्यव्यवसितश्शत्रुं राक्षसं तं विशेषतः समर्थस्त्वं रणे हन्तुं विक्रमैर्जिह्मकारिणम्4.27.36
Verse 36
भवान्क्रियापरो लोके भवान् देवपरायणः आस्तिको धर्मशीलश्च व्यवसायी च राघव4.27.35 न ह्यव्यवसितश्शत्रुं राक्षसं तं विशेषतः समर्थस्त्वं रणे हन्तुं विक्रमैर्जिह्मकारिणम्4.27.36
Verse 37
समुन्मूलय शोकं त्वं व्यवसायं स्थिरं कुरु ततस्सपरिवारं तं निर्मूलं कुरु राक्षसम्
Verse 38
पृथिवीमपि काकुत्स्थ ससागरवनाचलाम् परिवर्तयितुं शक्तः किमङ्गपुन रावणम्4.27.38
Verse 39
शरत्कालं प्रतीक्षस्व प्रावृट्कालोऽयमागतः ततस्सराष्ट्रं सगणं रावणं त्वं वधिष्यसि4.27.39
Verse 40
अहं तु खलु ते वीर्यं प्रसुप्तं प्रतिबोधये दीप्सैराहुतिभिः काले भस्मच्छन्नमिवानलम्4.27.40
Verse 41
लक्ष्मणस्य तु तद्वाक्यं प्रतिपूज्य हितं शुभम् राघवस्सुहृदं स्निग्धमिदं वचनमब्रवीत्
Verse 42
वाच्यं यदनुरक्तेन स्निग्धेन च हितेन च सत्यविक्रमयुक्तेन तदुक्तं लक्ष्मण त्वया4.27.42
Verse 43
एष शोकः परित्यक्तस्सर्वकार्यावसादकः विक्रमेष्वप्रतिहतं तेजः प्रोत्साहयाम्यहम्
Verse 44
शरत्कालं प्रतीक्षिष्ये स्थितोऽस्मि वचने तव सुग्रीवस्य नदीनां च प्रसादमनुपालयन्4.27.44
Verse 45
उपकारेण वीरस्तु प्रतीकारेण युज्यते अकृतज्ञोऽप्रतिकृतो हन्ति सत्त्ववतां मनः4.27.45
Verse 46
अथैव मुक्तःप्रणिधाय लक्ष्मणः कृताञ्जलिस्तत्प्रतिपूज्य भाषितम् उवाच रामं स्वभिरामदर्शनं प्रदर्शयन्दर्शनमात्मनश्शुभम्4.27.46
Verse 47
यथोक्तमेतत्तव सर्वमीप्सितं नरेन्द्र कर्ता न चिराद्धरीश्वरः शरत्प्रतीक्षः क्षमतामिमं भवान् जलप्रपातं रिपुनिग्रहे धृतः4.27.47
Verse 48
नियम्य कोपं प्रतिपाल्यतां शरत् क्षमस्व मासां श्चतुरो मया सह वसाचलेऽस्मिन्मृगराजसेविते संवर्धयन् शत्रुवधे समुद्यमम्4.27.48
0:000:00
Speed: