Book 4 • Chapter 30
Sarga 30
85 verses
Verse 1
गुहं प्रविष्टे सुग्रीवे विमुक्ते गगने घनैः वर्षरात्रोषितो रामः कामशोकाभिपीडितः4.30.1 पाण्डुरं गगनं दृष्ट्वा विमलं चन्द्रमण्डलम् शारदीं रजनीं चैव दृष्ट्वा ज्योत्स्नानुलेपनाम्4.30.2 कामवृत्तं च सुग्रीवं नष्टां च जनकात्मजाम् बुद्ध्वा कालमतीतं च मुमोह परमातुरः4.30.3
Verse 2
गुहं प्रविष्टे सुग्रीवे विमुक्ते गगने घनैः वर्षरात्रोषितो रामः कामशोकाभिपीडितः4.30.1 पाण्डुरं गगनं दृष्ट्वा विमलं चन्द्रमण्डलम् शारदीं रजनीं चैव दृष्ट्वा ज्योत्स्नानुलेपनाम्4.30.2 कामवृत्तं च सुग्रीवं नष्टां च जनकात्मजाम् बुद्ध्वा कालमतीतं च मुमोह परमातुरः4.30.3
Verse 3
गुहं प्रविष्टे सुग्रीवे विमुक्ते गगने घनैः वर्षरात्रोषितो रामः कामशोकाभिपीडितः4.30.1 पाण्डुरं गगनं दृष्ट्वा विमलं चन्द्रमण्डलम् शारदीं रजनीं चैव दृष्ट्वा ज्योत्स्नानुलेपनाम्4.30.2 कामवृत्तं च सुग्रीवं नष्टां च जनकात्मजाम् बुद्ध्वा कालमतीतं च मुमोह परमातुरः4.30.3
Verse 4
स तु संज्ञामुपागम्य मुहूर्तान्मतिमान्पुनः मनस्स्थामपि वैदेहीं चिन्तयामास राघवः4.30.4
Verse 5
आसीनः पर्वतस्याग्रे हेमधातुविभूषिते शारदं गगनं दृष्ट्वा जगाम मनसा प्रियाम्4.30.5
Verse 6
दृष्ट्वा च विमलं व्योम गतविद्युद्वलाहकम् सारसारावसङ्घुष्ठं विललापार्तया गिरा4.30.6
Verse 7
सारसारावसन्नादैस्सारसारवनादिनी याऽऽश्रमे रमते बाला साऽद्य मे रमते कथम्4.30.7
Verse 8
पुष्पितांश्चासनान् दृष्ट्वा काञ्चनानिव निर्मलान् कथं सा रमते बाला पश्यन्ती मामपश्यती4.30.8
Verse 9
या पुरा कलहंसानां स्वरेण कलभाषिणी बुध्यते चारुसर्वाङ्गी साऽद्य मे बुद्ध्यते कथम्4.30.9
Verse 10
निस्वनं चक्रवाकानां निशम्य नहचारिणाम् पुण्डरीकविशालाक्षी कथमेषा भविष्यति4.30.10
Verse 11
सरांसि सरितो वापीः काननानि वनानि च तां विना मृगशाबाक्षीं चरन्नाद्य सुखं लभे4.30.11
Verse 12
अपि तां मद्वियोगाच्छ सौकुमार्याच्च भामिनीम् सुदूरं पीडयेत्कामश्शरद्गुणनिरन्तरः4.30.12
Verse 13
एवमादि नरश्रेष्ठो विललाप नृपात्मजः विहङ्ग इव सारङ्गस्सलिलं त्रिदशेश्वरात्4.30.13
Verse 14
ततश्चञ्चूर्य रम्येषु फलार्थी गिरिसानुषु ददर्श पर्युपावृत्तो लक्ष्मीवान्लक्ष्मणोऽग्रजम्4.30.14
Verse 15
तं चिन्तया दुस्सहया परीतं विसंज्ञमेकं विजने मनस्वी भ्रातुर्विषादात्परितापदीनः समीक्ष्य सौमित्रिरुवाच रामम्4.30.15
Verse 16
किमार्य कामस्य वशंगतेन किमात्मपौरुष्यपराभवेन अयं सदा संह्रियते समाधिः किमत्र योगेन निवर्तितेन4.30.16
Verse 17
क्रियाभियोगं मनसः प्रसादं समाधियोगानुगतं च कालम् सहायसामर्थ्यमदीनसत्त्वः स्वकर्म हेतुं च कुरुष्व हेतुम्4.30.17
Verse 18
न जानकी मानव वंशनाथ त्वया सनाथा सुलभा परेण न चाग्निचूडां ज्वलितामुपेत्य न दह्यते वीर वरार्ह कच्छित्4.30.18
Verse 19
सलक्षणं लक्ष्मणमप्रधृष्यं स्वभावजं वाक्यमुवाच रामः हितं च पथ्यं च नयप्रसक्तं ससाम धर्मार्थसमाहितं च4.30.19
Verse 20
निस्संशयं कार्यमवेक्षितव्यं क्रियाविशेषोऽह्यनुवर्तितव्यः ननु प्रवृत्तस्य दुरासदस्य कुमार कार्यस्य फलं च चिन्त्यम्4.30.20
Verse 21
अथ पद्मपलाशाक्षीं मैथिलीमनुचिन्तयन् उवाच लक्ष्मणं रामो मुखेन परिशुष्यता4.30.21
Verse 22
तर्पयित्वा सहस्राक्षस्सलिलेन वसुन्धराम् निर्वर्तयित्वा सस्यानि कृतकर्मा व्यवस्थितः4.30.22
Verse 23
स्निग्धगम्भीरनिर्घोषाश्शैलद्रुमपुरोगमाः विसृज्य सलिलं मेघाः परिश्रान्ता नृपात्मज4.30.23
Verse 24
नीलोत्पलदलश्यामाश्श्यामीकृत्वा दिशो दश विमदा इव मातङ्गाश्शान्तवेगाः पयोधराः4.30.24
Verse 25
जलगर्भा महामेघा कुटजार्जुनगन्धिनः चरित्वा विरतास्सौम्य वृष्टिवातास्समुद्यताः4.30.25
Verse 26
घनानां वारणानां च मयूराणां च लक्ष्मण नादः प्रस्रवणानां च प्रशान्तस्सहसाऽनघ4.30.26
Verse 27
अभिवृष्टा महामेघैर्निर्मलाश्चित्रसानवः अनुलिप्ता इवाऽभान्ति गिरयश्चित्रदीप्तिभिः4.30.27
Verse 28
शाखासु सप्तच्छदपादपानां प्रभासु तारार्कनिशाकराणाम् लीलासु चैवोत्तम वारणानां श्रियं विभज्याद्य शरत्प्रवृत्ता4.30.28
Verse 29
सम्प्रत्यनेकाश्रय चित्रशोभा लक्ष्मीश्शरत्कालगुणोपनीता सूर्याग्रहस्तप्रतिबोधितेषु पद्माकरेष्वभ्यधिकं विभाति4.30.29
Verse 30
सप्तच्छदानां कुसुमोपगन्धी षट्पादबृन्दैरनुगीयमानः मत्तद्विपानां पवनोऽनुसारी दर्पं विनेष्यन्नधिकं करोति
Verse 31
अभ्यागतैश्चारुविशालपक्षै स्सरःप्रियैः पद्मरजोवकीर्णैः महानदीनां पुलिनोपयातैः क्रीडन्ति हंसास्सह चक्रवाकैः4.30.31
Verse 32
मदप्रगल्भेषु च वारणेषु गवां समूहेषु च दर्पितेषु प्रसन्नतोयासु च निम्नगासु विभाति लक्ष्मीर्बहुधा विभक्ता4.30.32
Verse 33
नभस्समीक्ष्याम्बुधरैर्विमुक्तं विमुक्तबर्हाभरणा वनेषु प्रियास्वसक्ता विनिवृत्तशोभा गतोत्सवा ध्यानपरा मयूराः4.30.33
Verse 34
मनोज्ञगन्धैः प्रियकैरनल्पैः पुष्पातिभारावनताग्रशाखैः सुवर्णगौरैर्नयनाभिरामै रुद्योतितानीव वनान्तराणि4.30.34
Verse 35
प्रियान्वितानां नलिनीप्रियाणां वने रतानां कुसुमोद्धतानाम् मदोत्कटानां मदलालसानां गजोत्तमानां गतयोऽद्य मन्दाः4.30.35
Verse 36
व्यभ्रं नभश्शस्त्रविधौतवर्णं कृशप्रवाहानि नदीजलानि कह्लारशीताः पवनाः प्रवान्ति तमोविमुक्ताश्च दिशः प्रकाशाः4.30.36
Verse 37
सूर्यातपक्रामणनष्टपङ्का भूमिश्चिरोदधाटितसान्द्ररेणुः अन्योन्यवैरेणसमायुताना मुद्योगकालोऽद्य नराधिपानाम्4.30.37
Verse 38
शरद्गुणाप्यायितरूपशोभाः प्रहर्षिताः पांशुसमुत्क्षिताङ्गाः मदोत्कटास्सम्प्रति युद्धलुब्धा वृषा गवां मध्यगता नदन्ति4.30.38
Verse 39
समन्मथं तीव्रगतानुरागाः कुलान्विता मन्दगतिं करिण्यः मदान्वितं सम्परिवार्य यान्तं वनेषु भर्तारमनुप्रयान्ति4.30.39
Verse 40
त्यक्त्वा वराण्यात्मविभूषणानि बर्हाणि तीरोपगता नदीनाम् निर्भर्त्स्यमाना इव सारसौघैः प्रयान्ति दीना विमदा मयूराः4.30.40
Verse 41
वित्रास्य कारण्डवचक्रवाका न्महारवैर्भिन्नकटा गजेन्द्राः सरस्सु बद्धाम्बुजभूषणेषु विक्षोभ्य विक्षोभ्य जलं पिबन्ति4.30.41
Verse 42
व्यपेतपङ्कासु सवालुकासु प्रसन्नतोयासु सगोकुलासु ससारसारावनिनादितासु नदीषु हृष्टा निपतन्ति हंसाः4.30.42
Verse 43
नदीघनप्रस्रवणोदकाना मतिप्रवृद्धानिलबर्हिणानाम् प्लवङ्गमानां च गतोत्सवानां द्रुतं रवास्सम्प्रति सम्प्रणष्टाः4.30.43
Verse 44
अनेकवर्णास्सुविनष्टकाया नवोदितेष्वम्बुधरेषु नष्टाः क्षुधार्दिता घोरविषा बिलेभ्य श्चिरोषिता विप्रसरन्ति सर्पाः4.30.44
Verse 45
चञ्चच्चन्द्रकरस्पर्शहर्षोन्मीलिततारका अहो रागवती सन्ध्या जहाति स्वयमम्बरम्4.30.45
Verse 46
रात्रिश्शशाङ्कोदितसौम्यवक्त्रा तारागणोन्मीलितचारुनेत्रा ज्योत्स्नांशुकप्रावरणा विभाति नारीव शुक्लांशुकसंवृताङ्गी4.30.46
Verse 47
विपक्वशालिप्रसवानि भुक्त्वा प्रहर्षिता सारसचारुपङ्क्तिः नभस्समाक्रामति शीघ्रवेगाः वातावधूता ग्रथितेव माला4.30.47
Verse 48
सुप्तैकहंसं कुमुदैरुपेतं महाह्रदस्थं सलिलं विभाति घनैर्विमुक्तं निशि पूर्णचन्द्रं तारागणाकीर्णमिवान्तरिक्षम्4.30.48
Verse 49
प्रकीर्णहंसाकुलमेखलानां प्रबुद्धपद्मोत्पलमालिनीनाम् वाप्युत्तमानामधिकाऽद्य लक्ष्मी र्वराङ्गनानामिव भूषितानाम्4.30.49
Verse 50
वेणुस्वनव्यञ्जिततूर्यमिश्रः प्रत्यूषकालानिलसम्प्रवृद्धः सम्मूर्छितो गर्गरगोवृषाणा मन्योन्यमापूरयतीव शब्दः4.30.50
Verse 51
नवैर्नदीनां कुसुमप्रभासै र्व्याधूयमानैर्मृदुमारुतेन धौतामलक्षौमपटप्रकाशैः कूलानि काशैरुपशोभितानि4.30.51
Verse 52
वनप्रचण्डा मधुपानशौण्डाः प्रियान्विताष्षट्चरणाः प्रह्रृष्टाः वनेषु मत्ताः पवनानुयात्रां कुर्वन्ति पद्मासनरेणुगौराः4.30.52
Verse 53
जलं प्रसन्नं कुमुदं प्रभासं क्रौञ्चस्वनश्शालिवनं विपक्वम् मृदुश्च वायुर्विमलश्च चन्द्र श्शंसन्ति वर्षव्यपनीतकालम्4.30.53
Verse 54
मीनोपसन्दर्शितमेखलानां नदीवधूनां गतयोऽद्य मन्दाः कान्तोपभुक्तालसगामिनीनां प्रभातकालेष्विव कामिनीनाम्4.30.54
Verse 55
सचक्रवाकानि सशैवलानि काशैर्दुकूलैरिव संवृतानि सपत्रलेखानि सरोचनानि वधूमुखानीव नदीमुखानि4.30.55
Verse 56
प्रफुल्लबाणासनचित्रितेषु प्रहृष्टषट्पादनिकूजितेषु गृहीतचापोद्यतचण्डदण्डः प्रचण्डचारोऽद्य वनेषु कामः4.30.56
Verse 57
लोकं सुवृष्ट्या परितोषयित्वा नदीस्तटाकानि च पूरयित्वा निष्पन्नसस्यां वसुधां च कृत्वा त्यक्त्वा नभस्तोयधराः प्रणष्टाः4.30.57
Verse 58
दर्शयन्ति शरन्नद्यः पुलिनानि शनैः शनैः नवसङ्गमसव्रीडा जघनानीव योषितः4.30.58
Verse 59
प्रसन्नसलिलास्सौम्य कुररीभिर्विनादिताः चक्रवाकगणाकीर्णा विभान्ति सलिलाशयाः4.30.59
Verse 60
असनास्सप्तपर्णाश्च कोविदाराश्च पुष्पिताः दृश्यन्ते बन्धुजीवाश्च श्यामाश्च गिरिसानुषु4.30.60
Verse 61
हंससारसचक्राह्वैः कुररैश्च समन्ततः पुलिनान्यवकीर्णानि नदीनां पश्य लक्ष्मण4.30.61
Verse 62
अन्योन्यबद्धवैराणां जिगीषूणां नृपात्मज उद्योगसमयस्सौम्य पार्थिवानामुपस्थितः4.30.62
Verse 63
इयं सा प्रथमा यात्रा पार्थिवानां नृपात्मज न च पश्यामि सुग्रीवमुद्योगं वा तथाविधम्4.30.63
Verse 64
चत्वारो वार्षिका मासा गता वर्षशतोपमाः मम शोकाभिभूतस्य सौम्य सीतामपश्यतः4.30.64
Verse 65
चक्रवाकीव भर्तारं पृष्ठतोऽनुगता वनम् विषमं दण्डकारण्यमुद्यानमिव याऽगता4.30.65
Verse 66
प्रियाविहीने दुःखार्ते हृतराज्ये विवासिते कृपां न कुरुते राजा सुग्रीवो मयि लक्ष्मण4.30.66
Verse 67
अनाथो हृतराज्योऽयं रावणेन च धर्षितः दीनो दूरगृहः कामी मां चैव शरणं गतः4.30.67 इत्येतैः कारणैस्सौम्य सुग्रीवस्य दुरात्मनः अहं वानरराजस्य परिभूतः परन्तप4.30.68
Verse 68
अनाथो हृतराज्योऽयं रावणेन च धर्षितः दीनो दूरगृहः कामी मां चैव शरणं गतः4.30.67 इत्येतैः कारणैस्सौम्य सुग्रीवस्य दुरात्मनः अहं वानरराजस्य परिभूतः परन्तप4.30.68
Verse 69
स कालं परिसङ्ख्याय सीतायाः परिमार्गणे कृतार्थस्समयं कृत्वा दुर्मतिर्नावबुध्यते4.30.69
Verse 70
त्वं च किष्किन्धां प्रविश्य ब्रूहि वानरपुङ्गवम् मूर्खं ग्राम्यसुखे सक्तं सुग्रीवं वचनान्मम4.30.70
Verse 71
अर्थिनामुपपन्नानां पूर्वं चाप्युपकारिणाम् आशां संश्रुत्य यो हन्ति स लोके पुरुषाधमः4.30.71
Verse 72
शुभं वा यदि वा पापं यो हि वाक्यमुदीरितम् सत्येन प्रतिगृह्णाति स वीरः पुरुषोत्तमः4.30.72
Verse 73
कृतार्था ह्यकृतार्थानां मित्राणां न भवन्ति ये तान्मृतानपि क्रव्यादाः कृतघ्नान्नोपभुञ्जते4.30.73
Verse 74
नूनं काञ्चनपृष्ठस्य विकृष्टस्य मया रणे द्रष्टुमिच्छति चापस्य रूपं विद्युद्गणोपमम्4.30.74
Verse 75
घोरं ज्यातलनिर्घोषं क्रुद्धस्य मम संयुगे निर्घोषमिव वज्रस्य पुनस्संश्रोतुमिच्छसि4.30.75
Verse 76
काममेवंगतेऽप्यस्य परिज्ञाते पराक्रमे त्वत्सहायस्य मे वीर न चिन्ता स्यान्नृपात्मज4.30.76
Verse 77
यदर्थमयमारम्भः कृतः परपुरञ्जयः समयं नाभिजानाति कृतार्थः प्लवगेश्वरः4.30.77
Verse 78
वर्षासमयकालं तु प्रतिज्ञाय हरीश्वरः व्यतीतांश्चतुरो मासान्विहरन्नावबुध्यते4.30.78
Verse 79
सामात्यपरिषत्क्रीडन्पानमेवोपसेवते शोकदीनेषु नास्मासु सुग्रीवः कुरुते दयाम्4.30.79
Verse 80
उच्यतां गच्छ सुग्रीवस्त्वया वत्स महाबल मम रोषस्य यद्रूपं ब्रूयाश्चैवमिदं वचः4.30.80
Verse 81
न च सङ्कुचितः पन्था येन वाली हतो गतः समये तिष्ठ सुग्रीव मा वालिपथमन्वगाः4.30.81
Verse 82
एक एव रणे वाली शरेण निहतो मया त्वां तु सत्यादतिक्रान्तं हनिष्यामि सबान्धवम्4.30.82
Verse 83
तदेवं विहिते कार्ये यद्धितं पुरुषर्षभ तत्तद्भ्रूहि नरश्रेष्ठत्वर कालव्यतिक्रमः4.30.83
Verse 84
कुरुष्व सत्यं मयि वानरेश्वर प्रतिश्रुतं धर्ममवेक्ष्य शाश्वतम् मा वालिनं प्रेत्य गतो यमक्षयं त्वमद्य पश्येर्मम चोदितैश्शरैः4.30.84
Verse 85
स पूर्वजं तीव्रविवृद्धकोपं लालप्यमानं प्रसमीक्ष्य दीनम् चकार तीव्रां मतिमुग्रतेजा हरीश्वरे मानववंशनाथः4.30.85
0:000:00
Speed: