🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 4 • Chapter 31

Sarga 31

51 verses

Verse 1
 कामिनं दीनमदीनसत्त्वं शोकाभिपन्नं समुदीर्णकोपम् नरेन्द्रसूनुर्नरदेवपुत्रं रामानुजः पूर्वजमित्युवाच4.31.1
Verse 2
 वानरः स्थास्यति साधुवृत्ते  मंस्यते कर्मफलानुषङ्गान्  भोज्यते वानरराज्यलक्ष्मीं तथाहि नाभिक्रमतेऽस्य बुद्धिः4.31.2
Verse 3
मतिक्षयाद्ग्राम्यसुखेषु सक्त स्तव प्रसादाप्रतिकारबुद्धिः हतोऽग्रजं पश्यतु वीर तस्य  राज्यमेवं विगुणस्य देयम्4.31.3
Verse 4
 धारये कोपमुदीर्णवेगं निहन्मि सुग्रीवमसत्यमद्य हरिप्रवीरैस्सह वालिपुत्रो नरेन्द्रपत्न्या विचयं करोतु4.31.4
Verse 5
तमात्तबाणासनमुत्पतन्तं निवेदितार्थं रणचण्डकोपम् उवाच रामः परवीरहन्ता स्ववेक्षितं सानुनयं  वाक्यम्4.31.5
Verse 6
 हि वै त्वद्विधो लोके पापमेवं समाचरेत् पापमार्येण यो हन्ति  वीरः पुरुषोत्तमः4.31.6
Verse 7
नेदमत्र त्वया ग्राह्यं साधुवृत्तेन लक्ष्मण तां प्रीतिमनुवर्तस्व पूर्ववृत्तं  सङ्गतम्4.31.7
Verse 8
सामोपहितया वाचा रूक्षाणि परिवर्जयन् वक्तुमर्हसि सुग्रीवं व्यतीतं कालपर्यये4.31.8
Verse 9
सोऽग्रजेनानुशिष्टार्थो यथावत्पुरुषर्षभः प्रविवेश पुरीं वीरो लक्ष्मणः परवीरहा4.31.9
Verse 10
ततश्शुभमतिः प्राज्ञो भ्रातुः प्रियहिते रतः लक्ष्मणः प्रतिसंरब्धो जगाम भवनं कपेः4.31.10 शक्रबाणासनप्रख्यं धनुः कालान्तकोपमः प्रगृह्य गिरिशृङ्गाभं मन्दरः सानुमानिव
Verse 11
ततश्शुभमतिः प्राज्ञो भ्रातुः प्रियहिते रतः लक्ष्मणः प्रतिसंरब्धो जगाम भवनं कपेः4.31.10 शक्रबाणासनप्रख्यं धनुः कालान्तकोपमः प्रगृह्य गिरिशृङ्गाभं मन्दरः सानुमानिव
Verse 12
यथोक्तकारी वचनमुत्तरं चैव सोत्तरम् बृहस्पतिसमो बुद्ध्या मत्वा रामानुजस्तदा4.31.12 कामक्रोधसमुत्थेन भ्रातुः कोपाग्निना वृतः प्रभञ्जन इवाप्रीतः प्रययौ लक्ष्मणस्तदा4.31.13
Verse 13
यथोक्तकारी वचनमुत्तरं चैव सोत्तरम् बृहस्पतिसमो बुद्ध्या मत्वा रामानुजस्तदा4.31.12 कामक्रोधसमुत्थेन भ्रातुः कोपाग्निना वृतः प्रभञ्जन इवाप्रीतः प्रययौ लक्ष्मणस्तदा4.31.13
Verse 14
सालतालाश्वकर्णांश्च तरसा पातयन्बहून् पर्यस्यन्गिरिकूटानि द्रुमानन्यांश्च वेगतः4.31.14 शिलाश्च शकलीकुर्वन्पद्भ्यां गज इवाशुगः दूरामेकपदं त्यक्त्वा ययौ कार्यवशाद्द्रुतम्4.31.15
Verse 15
सालतालाश्वकर्णांश्च तरसा पातयन्बहून् पर्यस्यन्गिरिकूटानि द्रुमानन्यांश्च वेगतः4.31.14 शिलाश्च शकलीकुर्वन्पद्भ्यां गज इवाशुगः दूरामेकपदं त्यक्त्वा ययौ कार्यवशाद्द्रुतम्4.31.15
Verse 16
तामपश्यद्बलाकीर्णां हरिराजमहापुरीम् दुर्गामिक्ष्वाकुशार्दूलः किष्किन्धां गिरिसङ्गटे4.31.16
Verse 17
रोषात्प्रस्फुरमाणोष्ठ स्सुग्रीवं प्रति लक्ष्मणः ददर्श वानरान्भीमाकनिष्किन्धाया बहिश्चरान्4.31.17
Verse 18
तं दृष्ट्वा वानरास्सर्वे लक्ष्मणं पुरुषर्षभम् शैलशृङ्गाणि शतशः प्रवृद्धांश्च महीरुहान्4.31.18 जगृहुः कुञ्जरप्रख्या वानराः पर्वतान्तरे
Verse 19
तान्गृहीतप्रहरणान्सर्वान्दृष्ट्वा तु लक्ष्मणः4.31.19 बभूव द्विगुणं क्रुद्धो बह्विन्धन इवानलः
Verse 20
तं ते भयपरीताङ्गाः क्रुद्धं दृष्ट्वा प्लवङ्गमाः4.31.20 कालमृत्युयुगान्ताभं शतशो विद्रुता दिशः
Verse 21
ततस्सुग्रीवभवनं प्रविश्य हरिपुङ्गवाः4.31.21 क्रोधमागमनं चैव लक्ष्मणस्य न्यवेदयन्
Verse 22
तारया सहितः कामी सक्तः कपिवृषो रहः4.31.22  तेषां कपिवीराणां शुश्राव वचनं तदा
Verse 23
ततस्सचिवसन्दिष्टा हरयो रोमहर्षणाः गिरिकुञ्जर मेघाभा नगर्या निर्ययुस्तदा
Verse 24
नखदंष्ट्रायुधा घोरास्सर्वे विकृतदर्शनाः4.31.24 सर्वे शार्दूलदर्पाश्च सर्वे  विकृताननाः
Verse 25
दशनागबलाः केचित्केचिद्दशगुणोत्तराः4.31.25 केचिन्नागसहस्रस्य बभूवुस्तुल्यविक्रमाः
Verse 26
कृत्स्नांहि कपिभिर्व्याप्तां द्रुमहस्सैर्महाबलैः4.31.26 अपश्यल्लक्ष्मणः क्रुद्धः किष्किन्धां तां दुरासदाम्
Verse 27
ततस्ते हरयस्सर्वे प्राकारपरिघान्तरात्4.31.27 निष्क्रम्योदग्रसत्त्वास्तु तस्थुराविष्कृतं तदा
Verse 28
सुग्रीवस्य प्रमादं  पूर्वजं चार्तमात्मवान्4.31.28 बुद्ध्वा कोपवशं वीरः पुनरेव जगाम सः
Verse 29
 दीर्घोष्णमहोच्छवासः कोपसंरक्तलोचनः4.31.29 बभूव नरशार्दूल स्सधूम इव पावकः
Verse 30
बाणशल्यस्फुरज्जिह्वस्सायकासनभोगवान्4.31.30 स्वतेजोविषसङ्घातः पञ्चास्य इव पन्नगः
Verse 31
तं दीप्तमिव कालाग्निं नागेन्द्रमिव कोपितम्4.31.31 समासाद्याङ्गदस्त्रासाद्विषादमगमद्भृशम्
Verse 32
सोऽङ्गदं रोषताम्राक्षस्सन्दिदेश महायशाः4.31.32 सुग्रीवः कथ्यतां वत्स ममागमनमित्युत
Verse 33
एष रामानुजः प्राप्तस्वत्सकाशमरिन्दम4.31.33 भ्रातुर्व्यसनसन्तप्तो द्वारि तिष्ठति लक्ष्मणः तस्य वाक्यं यदि रुचिः क्रियतां साधु वानर4.31.34 इत्युक्त्वा शीघ्रमागच्छ वत्स वाक्यमरिन्दम
Verse 34
एष रामानुजः प्राप्तस्वत्सकाशमरिन्दम4.31.33 भ्रातुर्व्यसनसन्तप्तो द्वारि तिष्ठति लक्ष्मणः तस्य वाक्यं यदि रुचिः क्रियतां साधु वानर4.31.34 इत्युक्त्वा शीघ्रमागच्छ वत्स वाक्यमरिन्दम
Verse 35
लक्ष्मणस्य वचः श्रुत्वा शोकाविष्टोऽङ्गदोऽब्रवीत् पितुस्समीपमागम्य सौमित्रिरयमागतः4.31.35
Verse 36
अथाङ्गदस्तस्य वचो निशम्य सम्भ्रान्तभावः परिदीनवक्त्रः निपत्य तूर्णं नृपतेस्तरस्वी ततः रुमायाश्चरणौ ववन्दे4.31.36
Verse 37
संङ्गृह्य पादौ पितुरग्र्यतेजाः जग्राह मातुः पुनरेव पादौ पादौ रुमायाश्च निपीडयित्वा निवेदयामास ततस्तमर्थम्4.31.37
Verse 38
 निद्रामदसंवीतो वानरो  विबुद्धवान् बभूव मदमत्तश्च मदनेन  मोहितः4.31.38
Verse 39
ततः किलकिलां चक्रुर्लक्ष्मणं प्रेक्ष्य वानराः प्रसादयन्तस्तं क्रुद्धं भयमोहितचेतसः4.31.39
Verse 40
ते महौघनिभं दृष्ट्वा वज्राशनिसमस्वनम् सिंहनादं समं चक्रुर्लक्ष्मणस्य समीपतः4.31.40
Verse 41
तेन शब्देन महता प्रत्यबुध्यत वानरः मदविह्वलताम्राक्षो व्याकुलस्रग्विभूषणः4.31.41
Verse 42
अथाङ्गदवचः श्रुत्वा तेनैव  समागतौ मन्त्रिणौ वानरेन्द्रस्य सम्मतौ दारदर्शिनौ4.31.42 प्लक्षश्चैव प्रभावश्च मन्त्रिणावर्थधर्मयोः वक्तुमुच्चावचं प्राप्तं लक्ष्मणं तौ शशंसतुः4.31.43
Verse 43
अथाङ्गदवचः श्रुत्वा तेनैव  समागतौ मन्त्रिणौ वानरेन्द्रस्य सम्मतौ दारदर्शिनौ4.31.42 प्लक्षश्चैव प्रभावश्च मन्त्रिणावर्थधर्मयोः वक्तुमुच्चावचं प्राप्तं लक्ष्मणं तौ शशंसतुः4.31.43
Verse 44
प्रसादयित्वा सुग्रीवं वचनैस्सामनिश्चितैः आसीनं पर्युपासीनौ यथा शक्रं मरुत्पतिम्4.31.44
Verse 45
सत्यसन्धौ महाभागौ भ्रातरौ रामलक्ष्मणौ वयस्यभावं सम्प्राप्तौ राज्यार्हौ राज्यदायिनौ4.31.45
Verse 46
तयोरेको धनुष्पाणिर्द्वारि तिष्ठति लक्ष्मणः यस्य भीताः प्रवेपन्तो नादान्मुञ्चन्ति वानराः4.31.46
Verse 47
 एष राघवभ्राता लक्ष्मणो वाक्यसारथिः व्यवसायरथः प्राप्तस्तस्य रामस्य शासनात्4.31.47
Verse 48
अयं  दयितो राजंस्ताराया स्तनयोऽङ्गदः लक्ष्मणेन सकाशं ते प्रेषितस्त्वरयाऽनघ4.31.48
Verse 49
सोऽयं रोषपरीताक्षो द्वारि तिष्ठति वीर्यवान् वानरान्वानरपते चक्षुषा प्रदहन्निव4.31.49
Verse 50
तस्य मूर्ध्ना प्रणम्य त्वं सपुत्रस्सहबन्धुभिः गच्छ शीघ्रं महाराज रोषो ह्यस्य निवर्त्यताम्4.31.50
Verse 51
यदाह रामो धर्मात्मा तत्कुरुष्व समाहितः राजं स्तिष्ठस्व समये भव सत्यप्रतिश्रवाः4.31.51
0:000:00
Speed: