Book 4 • Chapter 32
Sarga 32
22 verses
Verse 1
अङ्गदस्य वचश्श्रुत्वा सुग्रीवस्सचिवैस्सह लक्ष्मणं कुपितं श्रुत्वा मुमोचासनमात्मवान्4.32.1
Verse 2
सचिवानब्रवीद्वाक्यं निश्चित्य गुरुलाघवम् मन्त्रज्ञान्मन्त्रकुशलो मन्त्रेषु परिनिष्ठितान्4.32.2
Verse 3
न मे दुर्व्याहृतं किञ्चिन्नापि मे दुरनुष्ठितम् लक्ष्मणो राघवभ्राता क्रुद्धः किमिति चिन्तये4.32.3
Verse 4
असुहृद्भिर्ममामित्रैर्नित्यमन्तरदर्शिभिः मम दोषानसम्भूतान् श्रावितो राघवानुजः4.32.4
Verse 5
अत्र तावद्यथाबुद्धि सर्वैरेव यथाविधि भावस्य निश्चयस्तावद्विज्ञेयो निपुणं शनैः4.32.5
Verse 6
न खल्वस्ति मम त्रासो लक्ष्मणान्नापि राघवात् मित्रं त्वस्थानकुपितं जनयत्येव सम्भ्रमम्4.32.6
Verse 7
सर्वथा सुकरं मित्रं दुष्करं परिपालनम् अनित्यत्वाच्छ चित्तानां प्रीतिरल्पेपि भिद्यते4.32.7
Verse 8
अतो निमित्तं त्रस्तोहं रामेण तु महात्मना यन्मयोपकृतं शक्यं प्रतिकर्तुं न तन्मया4.32.8
Verse 9
सुग्रीवेणैवमुक्तस्तु हनुमान्हरिपुङ्गवः उवाच स्वेन तर्केण मध्ये वानरमन्त्रिणाम्4.32.9
Verse 10
सर्वथा नैतदाश्चर्यं यस्त्वं हरिगणेश्वर न विस्मरसि सुस्निग्धमुपकार कृतं शुभम्4.32.10
Verse 11
राघवेण तु वीरेण भयमुत्सृज्य दूरतः त्वत्प्रियार्थं हतो वाली शक्रतुल्यपराक्रमः4.32.11
Verse 12
सर्वथा प्रणयात्कृद्धो राघवो नात्र संशयः भ्रातरं सम्प्रहितवान्लक्ष्मणं लक्ष्मिवर्धनम्4.32.12
Verse 13
त्वं प्रमत्तो न जानीषे कालं कालविदां वर फुल्लसप्तच्छदश्यामा प्रवृत्ता तु शरच्छिवा4.32.13
Verse 14
निर्मलग्रहनक्षत्रा द्यौः प्रनष्टवलाहका प्रसन्नाश्च दिशस्सर्वास्सरितश्च सरांसि च4.32.14
Verse 15
प्राप्तमुद्योगकालं तु नावैषि हरिपुङ्गव त्वं प्रमत्त इति व्यक्तं लक्ष्मणोऽयमिहागतः4.32.15
Verse 16
आर्तस्य हृतदारस्य पुरुषं पुरुषान्तरात् वचनं मर्षणीयं ते राघवस्य महात्मनः4.32.16
Verse 17
कृतापराधस्य हि ते नान्यत्पश्याम्यहं क्षमम् अन्तरेणाञ्जलिं बद्ध्वा लक्ष्मणस्य प्रसादनात्4.32.17
Verse 18
नियुक्तैर्मन्त्रिभिर्वाच्यो ह्यवश्यं पार्थिवो हितम् अत एव भयं त्यक्त्वा ब्रवीम्यवधृतं वचः4.32.18
Verse 19
अभिक्रुद्धस्समर्थो हि चापमुद्यम्य राघवः सदेवासुरगन्धर्वं वशे स्थापयितुं जगत्4.32.19
Verse 20
न स क्षमः कोपयितुं यः प्रसाद्यः पुनर्भवेत् पूर्वोपकारं स्मरता कृतज्ञेन विशेषतः4.32.20
Verse 21
तस्य मूर्ध्ना प्रणम्य त्वं सपुत्रस्ससुहृज्जनः राजंस्तिष्ठस्व समये भर्तुर्भार्येव तद्वशः4.32.21
Verse 22
न रामरामानुजशासनं त्वया कपीन्द्र युक्तं मनसाऽप्यपोहितुम् मनो हि ते ज्ञास्यति मानुषं बलं स राघवस्यास्य सुरेन्द्रवर्चसः4.32.22
0:000:00
Speed: