Book 4 • Chapter 33
Sarga 33
65 verses
Verse 1
अथ प्रतिसमादिष्टो लक्ष्मणः परवीरहा प्रविवेश गुहां घोरां किष्किन्धां रामशासनात्
Verse 2
द्वारस्था हरयस्तत्र महाकाया महाबलाः बभूवुर्लक्ष्मणं दृष्ट्वा सर्वे प्राञ्जलय स्थिताः
Verse 3
निश्वसन्तं तु तं दृष्ट्वा क्रुद्धं दशरथात्मजम् बभूवुर्हरयस्त्रस्ता न चैनं पर्यवारयन्
Verse 4
स तां रत्नमयीं श्रीमान्दिव्यां पुष्पितकाननाम् रम्यां रत्नसमाकीर्णां ददर्श महतीं गुहाम्
Verse 5
हर्म्यप्रासादसम्बाधां नानापण्योपशोभिताम् सर्वकामफलैर्वृक्षैः पुष्पितैरुपशोभिताम्
Verse 6
देवगन्धर्वपुत्रैश्च वानरैः कामरूपिभिः दिव्यमाल्याम्बरधरै श्शोभितां प्रियदर्शनैः
Verse 7
चन्दनागरुपद्मानां गन्धैस्सुरभिगन्धिनाम् मैरेयाणां मधूनां च सम्मोदितमहापथाम्
Verse 8
विन्ध्यमेरुगिरिप्रख्यै: प्रासादैर्नैकभूमिभिः ददर्श गिरिनद्यश्च विमलास्तत्र राघवः
Verse 9
अङ्गदस्य गृहं रम्यं मैन्दस्य द्विविधस्य च गवयस्य गवाक्षस्य गजस्य शरभस्य च विद्युन्मालेश्च सम्पाते स्सूर्याक्षस्य हनूमतः वीरबाहो स्सुबाहोश्च नलस्य च महात्मनः कुमुदस्य सुषेणस्य तारजाम्बवतोस्तथा दधिवक्त्रस्य नीलस्य सुपाटलसुनेत्रयोः एतेषां कपिमुख्यानां राजमार्गे महात्मनाम् ददर्श गृहमुख्यानि महासाराणि लक्ष्मणः
Verse 10

Verse 11

Verse 12

Verse 13
पाण्डुराभ्रप्रकाशानि दिव्यमाल्ययुतानि च प्रभूतधनधान्यानि स्त्रीरत्नै श्शोभितानि च
Verse 14
पाण्डुरेण तु सालेन परिक्षिप्तं दुरासदम् वानरेन्द्रगृहं रम्यं महेन्द्रसदनोपमम् शुक्लैः प्रासादशिखरैः कैलासशिखरोपमैः सर्वकामफलैर्वृक्षैः पुष्पितैरुपशोभितम् महेन्द्रदत्तैश्श्रीमद्भिर्नीलजीमूतसन्निभैः दिव्यपुष्पफलैर्वृक्षैशीतच्छायैर्मनोरमैः हरिभिस्संवृतद्वारं बलिभिश्शस्त्रपाणिभिः दिव्यमाल्यावृतं शुभ्रं तप्तकाञ्चनतोरणम् सुग्रीवस्य गृहं रम्यं प्रविवेश महाबलः अवार्यमाणस्सौमित्रिर्महाभ्रमिव भास्करः
Verse 15

Verse 16

Verse 17

Verse 18

Verse 19
स सप्त कक्ष्या धर्मात्मा नानाजनसमाकुलाः प्रविश्य सुमहद्गगुप्तं ददर्शान्तःपुरं महत् हैमराजतपर्यङ्कैर्बहुभिश्च वरासनैः महार्हास्तरणोपेतैस्तत्र तत्रोपशोभितम्
Verse 20

Verse 21
प्रविशन्नेव सततं शुश्राव मधुरस्वरम् तन्त्रीगीतसमाकीर्णं समगीतपदाक्षरम्
Verse 22
बह्वीश्च विविधाकारा रूपयौवनगर्विताः स्त्रियस्सुग्रीवभवने ददर्श सुमहाबलः
Verse 23
दृष्ट्वाऽभिजनसम्पन्नाश्चित्रमाल्यकृतस्रजः फलमाल्यकृतव्यग्रा भूषणोत्तमभूषिताः नातृप्तान्नापि चाव्यग्रान्नानुदात्तपरिच्छदान् सुग्रीवानुचरांश्चापि लक्षयामास लक्ष्मणः
Verse 24

Verse 25
कूजितं नूपुराणां च काञ्चीनां निनदं तथा सन्निशम्य तत श्रीमान्सौमित्रिर्लज्जितोऽभवत्
Verse 26
रोषवेगप्रकुपितशश्रुत्वा चाभरणस्वनम् चकार ज्यास्वनं वीरो दिशश्शब्देन पूरयन्
Verse 27
चारित्रेण महाबाहुरपकृष्ट स्सलक्ष्मणः तस्थावेकान्तमाश्रित्य रामकोपसमन्वितः
Verse 28
तेन चापस्वनेनाथ सुग्रीवः प्लवगाधिपः विज्ञायाऽगमनं त्रस्त स्सञ्चचाल वरासनात्
Verse 29
अङ्गदेन यथा मह्यं पुरस्तात्प्रतिवेदितम् सुव्यक्तमेष सम्प्राप्त स्सौमित्रिर्भ्रातृवत्सलः
Verse 30
अङ्गदेन समाख्यातं ज्यास्वनेन च वानरः बुबुधे लक्ष्मणं प्राप्तं मुखं चास्यव्यशुष्यत
Verse 31
ततस्तारां हरिश्रेष्ठस्सुग्रीवः प्रियदर्शनाम् उवाच हितमव्यग्रस्त्रास सम्भ्रान्तमानसः
Verse 32
किन्नु तत्कारणं सुभ्रु प्रकृत्या मृदुमानसः सरोष इव सम्प्राप्तो येनायं राघवानुजः
Verse 33
किं पश्यसि कुमारस्य रोषस्थानमनिन्दिते न खल्वकारणे कोपमाहरेन्नरसत्तमः
Verse 34
यदस्य कृतमस्माभिर्बुध्यसे किञ्चिदप्रियम् तदबुद्ध्या सम्प्रधार्याशु क्षिप्रमर्हसि भाषितुम्
Verse 35
अथवा स्वयमेवैनं द्रष्टुमर्हसि भामिनि वचनै स्सान्त्वयुक्तैश्च प्रसादयितुमर्हसि
Verse 36
त्वद्दर्शन विशुद्धात्मा न स कोपं करिष्यति न हि स्त्रीषु महात्मानः क्वचित्कुर्वन्ति दारुणम्
Verse 37
त्वया सान्त्वैरुपक्रान्तं प्रसन्नेन्द्रियमानसम् ततः कमलपत्राक्षं द्रक्ष्याम्यहमरिन्दमम्
Verse 38
सा प्रस्खलन्ती मदविह्वलाक्षी प्रलम्बकाञ्चीगुण हेमसूत्रा सलक्षणा लक्ष्मणसन्निधानं जगाम तारा नमिताङ्गयष्टिः
Verse 39
स तां समीक्ष्यैव हरीशपन्तीं तस्थावुदासीनतया महात्मा अवाङ्मुखोऽभून्मनुजेन्द्रपुत्रः स्त्रीसन्निकर्षाद्विनिवृत्तकोपः
Verse 40
सा पानयोगाद्विनिवृत्तलज्जा दृष्टिप्रसादाच्च नरेन्द्रसूनोः उवाच तारा प्रणयप्रगल्भं वाक्यं महार्थं परिसान्त्वपूर्वम्
Verse 41
किं कोपमूलं मनुजेन्द्रपुत्र कस्ते न सन्तिष्ठति वाङ्निदेशे क श्शुष्कवृक्षं वनमापतन्तं दवाग्निमासीदति निर्विशङ्कः
Verse 42
स तस्या वचनं श्रुत्वा सान्त्वपूर्वमशङ्कितम् भूयः प्रणयदृष्टार्थं लक्ष्मणो वाक्यमब्रवीत्
Verse 43
किमयं कामवृत्तस्ते लुप्तधर्मार्थसङ्ग्रहः भर्ता भर्तृहिते युक्ते न चैनमवबुद्ध्यसे
Verse 44
न चिन्तयति राज्यार्थं नास्मान् शोकपरायणान् सामात्यपरिषत्तारे पानमेवोपसेवते
Verse 45
स मासांश्चतुरः कृत्वा प्रमाणं प्लवगेश्वरः व्यतीतां स्तान्मदव्यग्रो विहरन्नावबुध्यते
Verse 46
न हि धर्मार्थसिद्ध्यर्थं पानमेवं प्रशस्यते पानादर्थश्च धर्मश्च कामश्च परिहीयते
Verse 47
धर्मलोपो महांस्तावत्कृते ह्यप्रतिकुर्वतः अर्थलोपश्च मित्रस्य नाशे गुणवतो महान्
Verse 48
मित्रं ह्यर्थगुणश्रेष्ठं सत्यधर्मपरायणम् तद्द्वयं तु परित्यक्तं न तु धर्मे व्यवस्थितम्
Verse 49
तदेवं प्रस्तुते कार्ये कार्यमस्माभिरुत्तरम् यत्कार्यं कार्यतत्त्वज्ञे तदुदाहर्तुमर्हसि
Verse 50
सा तस्य धर्मार्थसमाधियुक्तं निशम्य वाक्यं मधुरस्वभावम् तारा गतार्थे मनुजेन्द्रकार्ये विश्वासयुक्तं तमुवाच भूयः
Verse 51
न कोपकालः क्षितिपालपुत्र न चाति कोप स्स्वजने विधेयः त्वदर्थकामस्य जनस्य तस्य प्रमादमप्यर्हसि वीर सोढुम्
Verse 52
कोपं कथं नाम गुणप्रकृष्टः कुमार कुर्यादपकृष्टसत्त्वे कस्त्वद्विधः कोपवशं हि गच्छे त्सत्त्वावरुद्धस्तपसः प्रसूतिः
Verse 53
जानामि रोषं हरिवीरबन्धो र्जानामि कार्यस्य च कालसङ्गम् जानामि कार्यं त्वयि यत्कृतं न स्तच्चापि जानामि यदत्र कार्यम्
Verse 54
तच्चापि जानामि यथविषह्यं बलं नरश्रेष्ठ शरीरजस्य जानामि यस्मिंश्च जनेऽवबद्धं कामेन सुग्रीवमसक्तमद्य
Verse 55
न कामतन्त्रे तव बुद्धिरस्ति त्वं वै यथा मन्युवशं प्रपन्नः न देशकालौ हि न चार्थधर्मा ववेक्षते कामरतिर्मनुष्यः
Verse 56
तं कामवृत्तं मम सन्निकृष्टं कामाभियोगाच्च निवृत्तलज्जम् क्षमस्व तावत्परवीरहन्त स्त्वद्भ्रातरं वानरवंशनाथम्
Verse 57
महर्षयो धर्मतपोऽभिकामाः कामानुकामाः प्रतिबद्धमोहाः अयं प्रकृत्या चपलः कपिस्तु कथं न सज्जेत सुखेषु राजा
Verse 58
इत्येवमुक्त्वा वचनं महार्थं सा वानरी लक्ष्मणमप्रमेयम् पुन स्सखेदं मदविह्वलञ्च भर्तुर्हितं वाक्यमिदं बभाषे
Verse 59
उद्योगस्तु चिराज्ञप्त स्सुग्रीवेण नरोत्तम कामस्यापि विधेयेन तवार्थप्रतिसाधने
Verse 60
आगता हि महावीर्या हरयः कामरूपिणः कोटीशतसहस्राणि नानानगनिवासिनः
Verse 61
तदागच्छ महाबाहो चारित्रं रक्षितं त्वया अच्छलं मित्रभावेन सतां दारावलोकनम्
Verse 62
तारया चाभ्यनुज्ञातस्त्वरया चापि चोदितः प्रविवेश महाबाहुरभ्यन्तरमरिन्दमः
Verse 63
तत स्सुग्रीवमासीनं काञ्चने परमासने महार्हास्तरणोपेते ददर्शादित्यसन्निभम् दिव्याभणचित्राङ्गं दिव्यरूपं यशस्विनम् दिव्यमाल्याम्बरधरं महेन्द्रमिव दुर्जयम् दिव्याभरणमालाभिः प्रमदाभि स्समावृतम् संरब्धतररक्ताक्षो बभूवान्तकसन्निभः
Verse 64

Verse 65

0:000:00
Speed: