Book 4 • Chapter 34
Sarga 34
19 verses
Verse 1
तमप्रतिहतं क्रुद्धं प्रविष्टं पुरुषर्षभम् सुग्रीवो लक्ष्मणं दृष्ट्वा बभूव व्यथितेन्द्रियः
Verse 2
क्रुद्धं निश्श्वसमानं तं प्रदीप्तमिव तेजसा भ्रातुर्व्यसनसन्तप्तं दृष्ट्वा दशरथात्मजम् उत्पपात हरिश्रेष्ठो हित्वा सौवर्णमासनम् महान्महेन्द्रस्य यथा स्वलङ्कृत इव ध्वजः
Verse 3
क्रुद्धं निश्श्वसमानं तं प्रदीप्तमिव तेजसा भ्रातुर्व्यसनसन्तप्तं दृष्ट्वा दशरथात्मजम् उत्पपात हरिश्रेष्ठो हित्वा सौवर्णमासनम् महान्महेन्द्रस्य यथा स्वलङ्कृत इव ध्वजः
Verse 4
उत्पतन्तमनूत्पेतू रुमाप्रभृतयः स्त्रियः सुग्रीवं गगने पूर्णचन्द्रं तारागणा इव
Verse 5
संरक्तनयनः श्रीमान्विचचाल कृताञ्जलिः बभूवावस्थितस्तत्र कल्पवृक्षो महानिव
Verse 6
रुमाद्वितीयं सुग्रीवं नारीमध्यगतं स्थितम् अब्रवील्लक्ष्मणः क्रुद्धस्सतारं शशिनं यथा
Verse 7
सत्त्वाभिजनसम्पन्नस्सानुक्रोशो जितेन्द्रियः कृतज्ञस्सत्यवादी च राजा लोके महीयते
Verse 8
यस्तु राजा स्थितोऽधर्मे मित्राणामुपकारिणाम् मिथ्या प्रतिज्ञां कुरुते को नृशंसतरस्ततः
Verse 9
शतमश्वानृते हन्ति सहस्रं तु गवानृते आत्मानं स्वजनं हन्ति पुरुषः पुरुषानृते
Verse 10
पूर्वं कृतार्थो मित्राणां न तत्प्रतिकरोति यः कृतघ्नस्सर्वभूतानां स वध्यः प्लवगेश्वर
Verse 11
गीतोऽयं ब्रह्मणा श्लोक स्सर्वलोकनमस्कृतः दृष्ट्वा कृतघ्नं क्रुद्धेन तन्निबोध प्लवङ्गम
Verse 12
ब्रह्मघ्ने च सुरापे च चोरे भग्नव्रते तथा निष्कृतिर्विहिता सद्भि: कृतघ्ने नास्ति निष्कृतिः
Verse 13
अनार्यस्त्वं कृतघ्नश्च मिथ्यावादी च वानर पूर्वं कृतार्थो रामस्य न तत्प्रतिकरोषि यत्
Verse 14
ननु नाम कृतार्थेन त्वया रामस्य वानर सीताया मार्गणे यत्नः कर्तव्यः कृतमिच्छता
Verse 15
स त्वं ग्राम्येषु भोगेषु सक्तो मिथ्याप्रतिश्रवः न त्वां रामो विजानीते सर्पं मण्डूकराविणम्
Verse 16
महाभागेन रामेण पापः करुणवेदिना हरीणां प्रापितो राज्यं त्वं दुरात्मा महात्मना
Verse 17
कृतं चेन्नाभिजानीषे रामस्याक्लिष्टकर्मणः सद्यस्त्वं निशितैर्भावार्हतो द्रक्ष्यसि वालिनम्
Verse 18
न च सङ्कुचितः पन्था येन वाली हतो गतः समये तिष्ठ सुग्रीव मा वालिपथमन्वगाः
Verse 19
न नूनमिक्ष्वाकुवरस्य कार्मुक च्युतान् शरान्पश्यसि वज्र सन्निभान् तत स्सुखं नाम निषेवसे सुखी न रामकार्यं मनसाऽप्यवेक्षसे
0:000:00
Speed: